________________
२७७
परिशिष्ट (३) गुरुर्यत्रैका मात्रा तदेकस्तावत्कार्य इति गुरूपदेशो, लघुः स्थाप्य इत्यर्थः । एवं अप्पबुद्धीए-आत्मबुद्धया आत्मा गुरुस्तस्य बुद्धिरुपदेशस्तेनेत्यर्थः । मात्राप्रस्तारं जानीतेति शेषः । प्रस्तारो भेदरचना । अत्रायं विधिर्यावत्सर्वलघुर्भेदो भवति । .... बोध्यम् । अत्रेदमुक्तं भवति, षट्कलगणस्य प्रस्तारे चिकीर्षिते षण्मात्राणां गुरुत्रयं स्थाप्यं, सोऽयं षट्कलस्य प्रथमो भेदः । अत्र प्रथमगुरोरध एको लघुर्देयः लघोरग्रे चोपरितनसादृश्याद् गुरुद्वयं देयं, पश्चादुर्वरितैकमात्रारूप-एकलघुर्देय इति प्रथम लघुद्वयं यत्र पतति स षट्कलस्य द्वितीयो भेदः एवं द्वितीयभेदे तृतीयो वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यो लघोरणे चोपरितनसादृश्यादेको गुरुः स्थाप्यः, उर्वरितं च मात्रात्रयं गुरुलघुरूपं क्रमेण पश्चात् स्थाप्यं, एवं यत्र लघुगुरुलघुगुरवः क्रमेण पतंति स तृतीयो भेदः । एवमस्य द्वितीयो वर्णः प्रथमगुरुस्तदधो लघुः स्याप्यस्तदने चोपरितनसादृश्यात् लघुगुरुक्रमेण स्थाप्यः पश्चाच्चोर्वरितं मात्राद्वयं गुरुर्देयस्तदधो लघुर्देयस्तस्याग्रे उपरितनसादृश्याल्लघुद्वयोत्तरमेकोगुरुः स्थाप्यः, पश्चादुर्वरितैकमात्रा लघुरूपा देया, एवं यत्र लघुचतुष्टयानंतरमेको गुरुः पतति, सोऽस्य पंचमभेदः । एवमस्यांत्यो वर्णः प्रथमगुरुस्तदधो लघुर्देयः, उपरितनसादृश्याभावात् उर्वरितमात्रापंचकं द्विगुर्वेकलघुरूपमंत्यलघोः पूर्वक्रमेण स्थाप्यमेवं च यत्र प्रथममेको लघुस्ततो गुरुद्वयोत्तरमेको लघुः पतति सोऽस्य षष्ठो भेदः । एवमस्य द्वितीयो वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यस्तस्याग्रे उपरितनसादृश्याद् गुरुलघू स्थाप्यौ पश्चादुर्वरितं मात्राद्वयमेकगुरूरूपं स्थाप्यम्, एवं यत्र प्रथम गुरुलघू ततोऽपि गुरुलघू एवंभूतोऽस्य सप्तमो भेदः । एवमस्याद्यो गुरुः.... लघोरग्रे उपरितनसादृश्याल्लघुगुरुलघवः क्रमेण स्थाप्याः, उर्वरिता चैका मात्रा लघुरूपा पश्चात् स्थाप्या, एवं यत्र प्रथमं लघुत्रयं.... । ..... अस्य चतुर्थो वर्णः प्रथमगुरुस्तदधो लघु: स्थाप्यस्तस्याग्रे उपरितनसादृश्यादेको लघुः..... गुरुद्वयरूपं पश्चात् स्थाप्यम्, एवं यत्र प्रथम् गुरुद्वयं ततो लघुद्वयं पतति, एवंभूतोऽस्य नवमो भेदः । एवमस्य प्रथमो वर्णः प्रथमगुरु... (उपरि)तनसादृश्यादेकोगुरुस्ततो लघुद्वयं देयम्, उर्वरिता चैका मात्रा चैकलघुरूपा पश्चाद्देया, एवं च यत्र लघुद्वयोत्तरमेको गुरुस्ततो लघुद्वयं ।
यस्य गुरोरधः, यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ।। तावद्दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातः छंदोविरतिवेदिभिरिति ॥
१५. अथ वक्ष्यमाणमात्राच्छंदःसु व्यवहारार्थं षट्कलत्रयोदशभेदानां क्रमेण नामान्याह हर इति । हर: शशी शूरः शक्रः शेषः अहि: कमलं ब्रह्म कलि: चन्द्रः ध्रुवः धर्मः शालिचरः, छमत्ताणं-षण्मात्रकाणां त्रयोदशभेदानाम् एतानि तेरह णामं-त्रयोदश नामानि यथासंख्यं बोध्यानीत्यर्थः ।।
१६. अथ पंचकलाष्टभेदानां प्रत्येकं नामान्याह इंदासणेति । इन्द्रासनं अरु-अपरः सूरः चाप: हीरश्च शेखरः कुसुमं । अहिगणः पदातिगणः पंचकलगणे एतानि नामानि क्रमेणेति शेषः पिंगलेन कथितानि, पंचकलगणस्य ये अष्टौ भेदास्तेषां प्रत्येकमेतान्यष्टौ नामानि पिंगलेन कथितानीत्यर्थः ।
१७. अथ चतुष्कलगणपंचभेदनामान्याह गुर्विति । गुरुजुअ-गुरुयुगं, गुरोः युगं द्वयं यस्मिन्नेतादृशो यो भेदः स इत्यर्थः, कण्णो-कर्णः चतुःकलस्य प्रथमो भेदः कर्णो नामेत्यर्थः । गुर्वंतः गुरुरंते यस्य तादृशो द्वितीयो भेदः पयोधरनामक इत्यर्थः । म्मि पादपूरणे । आदिगुरुः आदौ गुरुः यस्य तादृशश्चतुर्थो भेदो वसुः चरणः इति तस्य नामद्वयं । सर्वैः लघुभिः सर्वलघु: पंचमो भेदः विप्रः विप्रनामेत्यर्थः ।
१८. अथ त्रिकलप्रथमभेदस्य लघ्वादेर्नामान्याह धअ इति । ध्वजः चिह्न चिरं चिरालयः तोमरं तुंबुरु: पत्रं चूतमाला रस: वास: पवनः वलयः एतानि नामानीति शेषः, लघुकालंबेण लघ्वादेस्त्रिकलप्रथमभेद इत्यर्थः, जाणेहु-जानीतेत्यर्थः ।
१९. अथ त्रिकलद्वितीयभेदस्य गुर्वा(देर्ना)मान्याह सुरबइ इति । सुरपतिः पटह: तालः करताल: नंदः छंदः ण-ननु निश्चयेन निर्वाणः (स) समुद्र तूर्यम् एह-एतानि नामानि प्पमाणेण-प्रमाणेन गुर्वादेस्त्रिकलस्य जानीतेति शेषः, इति संप्रदायविदः, एवमग्रे ।
२०. लघोस्त्रिकलस्य नामान्याह भावेति । भावः रसः तांडवं नारी अह अथ कुलभामिनी इति नामानि त्रिलघुगणस्य कविवरः पिंगलः कथयति ।
३०. ... अथ चतुष्कलस्य सामान्यानि नामान्याह, गअ रहेति । गजः रथः तुरगः पद (दा) तिः, एतैर्नामभिः जानीहि चतुर्मात्रिकान् ।
३१. अथैकगुरोर्नामान्याह तालंकेति । ताटंका हारा नूपुरं केयूरम् एतानि गुरुभेदाः गुरोर्नामानीति यावत्, होंति-भवंति । अथैकलघो मान्याह, सरेति । सरः मेरुः दंड: काहलः, एत्ताइ-एतानि, लहुभेआ-लघुभेदा लघो मानि, होंति-भवंति । ३२. शंख: पुष्पं काहल रवः कनकं लता रूपं नाना कुसुमं पुष्पजातीनां यावंति नामानि तानि सर्वाणीत्यर्थः । रस: गंधः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International