SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्राकृतपैंगलम् २७६ | ७. रहव्यजनसंयोगस्य यथा, चेउ सहज इति । हे खुल्लणा - अधमचेतः, तुहुं- सहजचंचला - स्वभावचंचलं, सुंदरिहृदहि च..... पअ उण घल्लसिं - पदमपि न बहिर्ददासि, किन्तु पुनस्तत्रैव उल्हसंत-उल्लासं विनोदं कुर्वत् कीलसि-क्रीडसि । अत्र सुन्दरि इति इकारः ह्रद इति रकारहकारव्यजनसंयोगे परे लघुर्बोध्यः, अन्यथा दोहासमचरणे एकादशमात्राणामुक्तत्वात् द्वादशमात्रापत्त्या छन्दोभंग: स्यात्। उल्ह इत्युकारो पि ल्ह इति लकारहकारसंयोगे परे पि लघुर्बोध्यः, अन्यथात्रापि पूर्ववदेव छन्दोभंगापत्तिः । ८. अथ दीर्घो गुरुर्भवतीति पूर्वोक्तापवादं निपातान्तरं चाह, जह दीहो वीति । यदि दीर्घोऽपि वर्णः लघुजिह्वया पठ्यते, भवति तदा सोपि लघुः । वर्णानपि त्वरितपठितान् द्वित्रानपि एकं जानीहि । ९. जहा—यथा, एतदुदाहरतीत्यर्थः । अरेरे इति । अरेरे हे हे कण्ह-कृष्ण, डगमग-इतश्चेतः पार्श्वद्वये चलतीत्यर्थः, छोस्वल्पां, णाव - नावं, बाहहि--चालय, कुगतिं - जलम (ग) तिं जलमरणजन्यं नरकं, ण देहि-मा प्रयच्छ । तइ एहि णह संतार देइत्वमस्या नद्याः पारगमनं दत्वा यद् आलिंगनचुम्बनादि वांछसि तद् गृहाण । अत्र प्रथमचरणे रेरे इत्यक्षरद्वयं त्वरापठितम् एवं दीर्घं बोध्यम्, अन्यथा दोहाप्रथमचरणे त्रयोदशमात्रोक्त्या द्वितीयरेकाराय मात्राद्वयाधिक्यात् छन्दोभंगापत्तिः एवं द्वितीयचरणे डगमेत्यक्षरत्रयं एकं ह्रस्वरूपं, देहीत्यक्षरद्वयमेकं दीर्घरूपं बोध्यम्, अन्यथा दोहाद्वितीयचरणे एकादशमात्राणामुक्तत्वात् (डग ) मेति मात्राद्वयाधिक्यात् देहीत्येकमात्राधिक्याच्च छन्दोभंग: स्यात् । तृतीयचरणे च एहीति केवलएकारः, देइ इति दकारयुक्तश्च, द्वावपि जिह्वालघुपठितौ लघू बोध्यौ, अन्यथा दोहातृतीयचरणे त्रयोदशमात्रोक्त्या मात्राद्वयाधिक्यात् छन्दोभंग: प्रसज्येत । जिह्वया लघुपठनं गुरूपदेशाद्बोध्यमित्यस्मत्तातचरणोपदेशः सुधीभिर्विभावनीयः । १०. अथ छन्दोग्रन्थस्योपादेयतां दर्शयति, जेम णेति । जेम-यथाकणअतुला-कनकस्य तुला परिमाणनिर्णायकं यन्त्रं काण्टा इति लोके; तुलिअं - तुलितं निर्णेयपरिमाणं स्वस्मिन्प्रक्षिप्तं सुवर्णं तिलस्य अद्ध अद्धेण-अर्द्धाद्धन चतुर्थांशेनापीति यावत्, रत्तिकामाषकादिमापकान्यूनाधिकमिति शेषः, ण सहइ-न सहते न निर्णीतपरिमाणं करोति । तेम तथा सवणतुला- श्रवणरूपा तुलैव तुला - काव्य शुद्ध्यशुद्धिज्ञापकं यन्त्रं, छंदभंगेण - छन्दसां यथोक्तं छन्दः तस्य गुरुलघूनां भंगेन न्यूनाधिकभावेनेत्यर्थः । अवछंदअपच्छन्दस्कं लक्षणहीनं काव्यं न सहते न प्रमाणयति । अयमर्थः तुलायां सूत्रबद्धं पात्रद्वयं भवति, तत्रैकपात्रे परिमाणसाधनं रत्तिकामाषकादिद्रव्यं प्रक्षिप्य द्वितीयपात्रे प्रक्षिप्तं निर्णेयपरिमाणं सुवर्णादिद्रव्यं यदि तिलचतुर्थांशेनापि परिमाणसाधनरत्तिकामाषकादिद्रव्यान्न्यूनाधिकं भवति तदा तत्र परिमाणशुद्धिर्यथा न भवति, तथा लक्षणोक्तगुरुलघुहीनाधिकं काव्यं श्रवणविषयीभूतं शुद्धं न प्रतिभातीति काव्यशुद्धयशुद्धिज्ञानार्थं छन्दः शास्त्रमुपादेयमिति भावः । ११. अथ छन्दः शास्त्रविदां पुरो लक्षणहीनकाव्यपठनं वारयन् पुनरपि छन्दः शास्त्रोपादेयतां दर्शयति अबुह इति । अबुधःकाव्यलक्षणानभिज्ञः, बुहाणं मज्झे-बुधानां काव्यलक्षणाभिज्ञानां मध्ये, लच्छ (क्ख) णविहूणं - लक्षणविहीनं, कव्वं - काव्यं, पढइ-पठति, सः भुअ अग्ग लग्ग खग्गहिं- भुजाग्रलग्नखड्गेन, खुलिअं - स्खलितं, ग्रीवातः पातितं, सीसं-शीर्षं मस्तकं, ण जाणेइ-न जानाति, स स्वहस्तधृतखड्गेन स्वशिरश्छेदक इव विक्षिप्तचित्त इति लोके व्यवह्रियते । अतोऽधीतच्छन्दः शास्त्रो लक्षणलक्षितं काव्यं पठन् पंडिताख्यां लभते इति छन्दः शास्त्रोपादेयता दर्शितेति भावः । १२. अथ वक्ष्यमाणमात्राच्छन्दः सूपयुक्तान् गणान् व्यवहाराय संज्ञाभिरुद्दिशति टट्ठेति । टट्ठ ड ढ णं-ट ठ ड ढ णैः, छ पच तदा-छप च तदै: एतैः पंच अक्खरओ-पंचाक्षरैः, जहसंखं - यथासंख्यं, छ प्पंच चउ त्ति दु कलासु षट्पंचचतुस्त्रिद्विकलेषु गणभेआ-गणेषु मध्ये भेदा नामानि होंति-भवन्ति । अयमर्थः । षट्कलगणस्य टगणछगणेति नामद्वयं, पंचकलगणस्य ठगणपति नामद्वयं चतुः कलगणस्य डगण-चगणेति नामद्वयं त्रिकलगणस्य ढगण-तगणेति नामद्वयं द्विकलगणस्य णगणदगणेति नामद्वयं भवतीति बोध्यमिति । १३. अथ ट- गणादीनां भेदसंख्यामाह, टगणो तेरह इति । ट-गणः षट्कलः त्रयोदशभेद:, ठगणस्स -ठ- गणस्य पंचकलस्त यावत् अट्ठाइ... स्स-डगणस्य चतुः कलस्येति यावत् पंच भेआ-पंच भेदा भवंति, ढ-गणे त्रिकले तिअ-त्रयो भेदा भवतीत्यनुकर्षः, ण - गणस्य द्विकलस्य...... । १४. टादिगणत्रयोदशादिभेदा उक्तास्तेषां रचना प्रस्तारस्तत्प्रकारमाह । पढम गुरु हेट्ठ ठाणे - प्रथमगुर्वध: स्थाने, ट-गणभेदे यः प्रथमगुरुः स.... ठुवहु लघु परिस्थापयत तदग्रे चेति शेषः, तस्य लघोरग्रे चेत्यर्थः । सरिसा सरिसा पंत्ति सदृशी सदृशी पंक्तिः, कर्त्तव्येति शेषः । यस्य... ग्रे येन क्रमेण यावद्गुरु लघु भवेत्तेनैव क्रमेण तावद् गुरु लघु गुर्वधःस्थलघोरग्रे स्थाप्यमित्यर्थः । उव्वरिआ-उर्वरितां मात्रामिति.... रूपामितियावत् । देह - दत्त गुर्व्वधः स्थलघोरग्रे तथा गुरुलघुस्थाने कृते सति तद्भेदमध्ये उर्वरिमा (ता) या मात्रा सा यथासन्निवेशं गुरुलघुरूपेण गुर्वधःस्थलधोः पश्चात् स्थापनीयेत्यर्थः । तत्र यदि मात्रापंचकमवशिष्टं तदा प्रथमं गुरुद्वयं, तत एको लघुः स्थाप्यः, अथ मात्राचतुष्टयं, तदा गुरुद्वयं स्थाप्यं, यदि मात्रात्रयं तदा प्रथममेको गुरुस्ततो लघुः, यदि मात्राद्वयं, तदैको Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy