________________
परिशिष्ट (३) वंशीधरकृत 'पिङ्गलप्रकाश' टीका
प्रथमः परिच्छेदः मात्रावृत्तम्
१. ग्रन्थकृद्ग्रन्थारम्भे स्वाभीष्टसिद्धये छन्दःशास्त्रप्रवर्तकपिंगलनागानुस्मरणरूपमंगलमाचरति । जो विविह मत्तेति... यो विवि .... त्रमात्रापदस्य मात्राप्रस्तारपरत्वाद्विविधमात्राप्रस्तारित्यर्थः । बिबिमलमइहेलं-विविमलमतिहेलं, वेः पक्षिणो गरुडस्य विमल.... परमति: बुद्धिस्तया हेलाऽवधारणा वंचना यस्यां क्रियायां तद्यथा स्यात् तथा स्वबुद्ध्या गरुडस्य वंचनां कृत्वेत्यर्थः । साअरपार पत्तोसागर...तरंडो-प्रथमो भाषातरंड: प्रथम आद्यः भाषा अवहट्टभाषा यया भाषया अयं ग्रन्थो रचितः सा अवहट्टभाषा तस्या इत्यर्थः त प...प्प पारं प्राप्नोति तथा पिंगलप्रणीतं छन्दःशास्त्रं प्राप्यावहट्टभाषारचितैः तद्ग्रन्थपारं प्राप्नोतीति भावः, सो पिंगलो णाओ जअइउत्कर्षेण वर्तते । अत्रेयमाख्यायिकानुसन्धेया-यथा किल ब्राह्मणवेषधारिणा पिंगलं नागोऽयमिति ज्ञात्वा गरुडस्तं व्यापादयितुं वर्णमात्राप्रस्ताररूपा पूर्वा एका विद्या मया ज्ञायते तां गृह्णात्विति गरुडं प्रति उक्त्वा तेन च कथय विद्यामित्युक्तः प्रस्तारं भूमौ विरचयन् गरुडं वंचितवानिति :१:
२. प्रस्तारस्य गरुलघुज्ञानाधीनत्वातल्लक्षणमाह, दीहविति । दीहो दीर्घः आ, ई, ऊ, ए, ऐ, ओ, औ एते दीर्घाः । संजुत्तपरो--- संयुक्तपर: संयुक्तं परस्परमिलितं.... बिन्दुजुओ-बिन्दुः अनुस्वारविसर्गों, अं अः इत्येतो, ताभ्यां युतः, यत्तु प्राकृते विसर्गाभावात् अत्र बिन्दुपदेन अनुस्वार एवेति तच न हीदं प्राकृतमात्रविषय.....पाडिओ च चरणंते-पातितश्च चरणांते, पादान्तस्थितो लघुरपि विवक्षया गुरुर्जेय इत्यर्थः । अतएवोक्तं पादान्तस्य विकल्पेनेति । एवंभूतो वर्णो गुरु:.... ज्ञेय इति शेषः । स च गुरु: बंक-वक्र: प्रस्तारादिषु पूर्वप्रश्लिष्टाकारप्रश्लेषवत् अनृजुस्वरूपो लेखनीय इत्यर्थः । दुमत्तो-द्विमात्रः.... अण्णो-अन्यः आकारादिसंयुक्तपरानुस्वारविसर्गसहिताक्षरभिन्न इत्यर्थः, लहु होई-लघुर्भवति, लघुसंज्ञको ज्ञेयः सुद्ध-शुद्ध: प्रस....म इत्यर्थः । एक्कअलो-एक्कलः एका कलामात्रा यस्मिन् सः तादृशः, लघोरेका मात्रा ॥
३. अथैदुदाहरति माई इति । माई-हे मातः यः ....वृद्धः अतएव जीर्णः शीर्णेन्द्रियांगः, हेओ-हेयः त्यागयोग्य एवमपि देवः क्रीडाप्रसक्तः, तं शम्भुं कामंती-कामयमाना गौरी गहिलत्त.... शम्भौ पार्वत्या क्रियमाणे विजयादीनां सखीनां परस्परसंलापवाक्यमेतत् । अत दीर्घादीनि स्पष्टान्येव । कुणइ इतीकारश्च चरणान्ते पातिते...
४. अथ संयुक्तपरस्य वर्णस्य क्वचिद्गुरुत्वापवादमाह, कत्थवीति । कत्थवि-कुत्रापि । रकारहकारसंयोगादन्यत्रापीत्यर्थः संयुक्तपरो वर्णो लघुर्भवति दर्शनेन लक्ष्यानुरोधेन, जहा-यथा उदाह्रियते, परिह्रसति चित्तधैर्य तरुणीकटाक्षनिर्वृत्तम्-अत्रल्ह इति संयुक्ताक्षरे परेऽपि रि इति इकारस्य लघुत्वमेव, अन्यथा मात्राधिक्यप्रसंगः । गाथा छन्दः ।
५. अथ विन्दुयुक्तस्य वर्णस्य एकारोकारयोः संयुक्तरकारहकारपूर्ववर्तिनश्च गुरुत्वापवादमाह, इहिआरा इति । क्वचित् विकल्पः, अशेषमपि लघु भवति ।
६. यथा उदाहियत इत्यर्थः, माणिणीति । हे मानिनि मानेन किं फलं जे-यतः कारणात्, कंत-कान्तः, एओ-एवमेव, मानं विनैवेत्यर्थः, चरण पडु-चरणयोः पतितः । एनमेवार्थं द्रढ़यति सहज इति । भुजंगमः सर्पः, सहजे-सहजतः स्वभावतः, मणिमन्त्राभ्यां विनैवेत्यर्थः, यदि नमति तदा मणिमन्त्राभ्यां किं कार्यं न किमपीत्यर्थः । अत्र माणहिं काई इति इहिकारौ विन्दुयुतावपि लघू भवतः, एओ अत्र शुद्धौ एकारौकारौ, जे अत्र मिलित एकारो लघुर्भवति । दोहा छन्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org