SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ यथा परिशिष्ट (२) यथा वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ॥ उवणिका यथा - १ ऽऽऽ, 5, 155, 5, २ 55, 5, 515, 5, 5, ३ 515, 5, 155, 5, ४ 555, 5, 155, 5. अथ च - 'युजोश्चतुर्थतो जेन पथ्यावक्त्रं प्रकीर्तितम्' । युजोर्द्वितीयचतुर्थयोश्चरणयोर्दलाभिप्रायेण चतुर्थतो वर्णात् जेन जगणेन रथ्यावक्त्रं (वक्त्रमेव) रूपं प्रकीर्तितम् । शेषं समानम् । रासकेलिसतृष्णस्य कृष्णस्य मधुवासरे । आसीद्गोपमृगाक्षीणां पथ्यावक्त्रमधुस्तुतिः ॥ उट्टवणिका यथा - १ 515, II, ऽऽऽ, २ ऽऽI, I, 151, 5, ३ ऽऽऽ, ॥, ऽऽऽ, ४ ऽऽऽ, 1, 151, 5, अपि च पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं तु पादानां शेषेष्वनियमो मतः ॥ इति । सर्वत्र वक्त्रप्रकरणे निगिदितैव । लक्षणमुपलक्षितं विचक्षणैश्छान्दसिकैरिति ॥ यथा वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ किं च प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्त्रलक्षणम् । लोकेऽनुष्टुविति ख्यातिस्तस्याष्टाक्षरता कृता ॥ तथा नानागणभेदेन विषमवृत्तमेव सकलपुराणादिष्वष्टाक्षरचरणं वक्त्रसंज्ञामेव लभत इति विषमवृत्तानि दिड्मात्रतः समुदाहृतानि । शेषाणि भट्टहलायुधनिर्मितपिङ्गलवृत्तौ रविकरशंभुपशुपतिविरचितवृत्तकदम्बकग्रन्थे चावदातमतिभिरूह्यानीत्यलमतिविस्तरेण ॥ अथ गद्यानि तत्र गद्यं पद्यमिति प्राहुर्वाड्मयं द्विविधं बुधाः । प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥ अपादः पदसंतानो गद्यं तच्च त्रिधा मतम् । चूर्णिकोत्कलिकाप्रायवृत्तगन्धिप्रभेदतः || ततः अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः । तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ यथा स हि त्रयाणामेव जगतां पतिः परमपुरुष: पुरुषोत्तमो दृप्तदानवभरेण भङ्गुराङ्गीमवनिमवलोक्य करुणार्द्रहृदयस्तस्या भारमवतारयितुं रामकृष्णस्वरूपेण यदुवंशेऽवतार । यः प्रसङ्गेनापि स्मृतोऽभ्यर्चितो वा गृहीतनामा पुंसः संसारपारमवलोकयति ॥ चूर्णकं निवृत्तम् ॥ अथोत्कलिकाप्रायम् उत्कलिकाप्रायं कल्लोलप्रायमुत्प्रभासमानमित्यर्थः ॥ यथा [ २७३ प्रणिपातप्रवणप्रधानाशेषसुरासुरवृन्दसौन्दर्यप्रकटकिरीटकोटिनिविष्टस्पष्टमणिमयूखच्छ्टाछुरितचरणनखचक्रविक्रमोद्दामवामपादाङ्गुष्ठनखरशिखरखण्डितब्रह्माण्डविवरनिः सरत्क्षरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रय कैटभारे क्रूरतरसंसारापारसागर नानाप्रकारावर्तविवर्तमानविग्रहं मामनुग्रहणम् ॥ यथा वा व्यपगतघनपटलममलजलनिधिसदृशमम्बरतलं विलोक्यते । अञ्जनचूर्णपुञ्जश्यामं शार्वरं तमस्त्यायते ॥ उत्कलिकाप्रायं निवृत्तम् ॥ 'वृत्तैकदेशसंबद्धं वृत्तगन्धि पुनः स्मृतम्' यथा-'पातालतालुतलवासिषु दानवेषु' इत्यादि । 'हर इव जितमन्यथो गुह इवाप्रतिहतशक्तिः' इत्यादि वा । Jain Education International यथा वा जय जय जय जनार्दन सुकृतिजनमनस्तडागविकस्वरचरणपद्म पद्मनयन पद्मापद्मिनीविनोदराजहंस भास्वरयश:पटलपूरितभवनकुहर कमलासनादिवृन्दारकवन्दनीयपादारविन्दद्वन्द निर्मुक्तयोगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योति:स्वरूप नीरूप विश्वरूप अनाथनाथ जगन्नाथ मामनवधिभवदुः खव्याकुलं रक्ष रक्ष ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy