________________
२७२]
प्राकृतपैंगलम्
तत्र प्रथममुद्गताछन्दःप्रथमे सजौ यदि सरौ च नसजगुरुकाण्यनन्तरे । यद्यथ च भनभगाः स्युरथो सजसा जगौ भवतीयमुद्गता ।।
भोः शिष्याः, यत्र प्रथमे चरणे सजौ सगणजगणावथ च सलौ सगणलघू भवतः, अनन्तरे द्वितीये नगणसगणजगणगुरुकाणि भवन्ति । अथ तृतीये चरणे यदि भगणनगणभगणगुरवः स्युः । अथो चतुर्थे सजसा सगणजगणसगणाः । अथ च जगौ जगणगुरू भवतस्तदोद्गतानामकं छन्दः ।
यथाविललास गोपरमणीषु तरणितनया प्रभोद्गता । कृष्णनयनचकोरयुगे दधती सुधांशुकिरणोर्मिविभ्रमम् ॥ उट्टवणिका यथा-१ ॥5, I51, ||51, २ II, Is, I51, 5, ३ I, III, 51, 5, ४ ॥S, II, IIs, 151, 5 अथ चप्रथमे सजौ यदि सलौ च नसजगुरुकाण्यनन्तरे । यद्यथ भजनलगाः स्युरथो सजसा जगौ प्रभवतीयमुद्गता ||
यथा प्रथमे चरणे सगणजगणसगणलघवः द्वितीये नसजगुरुकाणि । अथ तृतीये चरणे यदि भनजलगा भगणनगणजगणलघुगुरवः स्युः । चतुर्थे सजसा सगणजगणसगणाः । अथ च जगौ जगणगुरू यत्र भवतस्तदा तृतीयचरणमात्राजात भेदा भारविमाघयोरुपलभ्यमानत्वादियं प्रकारान्तरेणोद्गता प्रभवतीति ॥
- ततश्च किराते यथा
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लातिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ।। उट्टवणिका यथा-१ ॥5, II, IS, I, २, 1, 5, ISI, 5, ३ II, I, II, I, 5, ४ ।।5, 15, 15, 15, 1, 5, यथा वा माघेतव धर्मराज इति नाम सदसि यदपष्ट पठ्यते । भौमदिनमभिदधत्यथ वा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ उद्दवणिका समानैव । उद्गता निवृत्ता ।। अथ सौरभकच्छन्द:'त्रयमुद्गता सदृशमेव पदमिह तृतीयमन्यथा । जायते रनभगैर्ग्रथितं कथयन्ति सौरभकमेतदीदृशम् ॥
भोः शिष्याः, यत्र त्रयं प्रथमद्वितीयचतुर्थमिति पदत्रयमुद्गतासदृशमेव । इह सौरभके तृतीयपादमन्यथा । उद्गतापादाद्भिन्नमित्यर्थः । अन्यथात्वमेवाह-जायत इति । तृतीयपदं रनभगैः रगणनगणभगणगुरुभिर्ग्रथितं यत्रैतदीदृशं सौरभकनामक वृत्तं भवतीति च्छान्दसीयाः कथयन्तीति ॥
यथापरिभूतफुल्लशतपत्रवनविसृतगन्धविभ्रमा । कस्य हुन्न हरतीह हरे पद्मसौरभकला तवाद्भुता ।।
उट्टवणिका यथा-१ ॥5, ISI, IIS, I, २ , us, I51, 5, ४ sis, III, II, 51, ४ 515, III, sis, I, 5, सौरभकं निवृत्तम् ॥
अथ ललितं छन्दः'नयुगं सकारयुगलं च भवति चरणे तृतीयके । तदुदीरितमरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता' ।
भोः शिष्याः, यत्र तृतीयके चरणे नयुगं नगणद्वयं सकारयुगलं सगणयुग्मं च भवति तदुरुमतिभिर्ललितमिति नामकमुदीरितमिति । अस्य ललितस्य यदि शेषं सकलं प्रथमद्वितीयतुर्यपदं यथोद्गतातुल्यमित्यर्थः ॥
यथाव्रजसुन्दरीसमुदयेन कलितमनसा स्म पीयते । हिमकरगलितमिवामृतकं ललितं मुरारिमुखचन्द्रविच्युतम् ।।
उट्टवणिका यथा-१ ॥5, 151, 5, ।, २ ॥ ॥5, 151, 5, ३ ॥, II, Is, ॥s, ४ ॥5, ISI, IIS, I51, 5, ललितं निवृत्तम् ॥
भवत्यर्धसमं वक्त्रं विषमं च कदाचन । तयोर्द्वयोरुपान्तेषु छन्दस्तदधुनोच्यते ।। अथ वक्त्रं छन्दः-'वक्त्रं युग्भ्यां मगौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्' ।
भोः शिष्याः, युग्भ्यां दलाभ्यां पदाभ्यां मगौ मगणगुरू स्याताम् । अथ च-अब्धेश्चतुर्थाद् वर्णात् परतो यो यगणोऽनुष्टुभ्यष्टाक्षरप्रस्तारे यत्र यत्र ‘शेषेष्वनियमो मतः' इति वचनाच्चाष्टमो गुरुरेव यत्र तद्वक्त्रमिति वृत्तं ख्यातमिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org