________________
२७० ]
प्राकृतपैंगलम्
यत्र रेफो रगणः स्वेच्छया नव दशैकादश वा परं गुम्फितः स दण्डको मत्तमातङ्गलीलाकर इति नाम्ना स्मृतः ॥
यथा
हेमगौरे वसानांऽशुके शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किते
तारहारांशुवक्षोन भश्चित्रमाल्याञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा । अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासोर्मिकौतूहलैः
कंसरङ्गाद्रिगः पातु वश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः ॥
उट्टवणिका यथा - SIS, 515, 515, 515, 515, 515, 515, 515, 515, मत्तमातङ्गलीलाकरो निवृत्ताः ॥ अथानङ्गशेखरः–'लघुर्गुरुर्निजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः' ।
यत्र प्रथमं लघुरनन्तरं गुरुरेवं क्रमेणाशोकपुष्पमञ्जरीविपर्ययेण स्वेच्छया जगणरगणक्रमेण च जगणान्तं नव गणा लघ्वन्ता वसुनयनवर्णाश्चरणे यदा निवेश्यन्ते, स्वेच्छयोक्तक्रमेण दशैकादश वा प्रतिचरणं नियमेन जगणादिजगणान्तं लघ्ववसानं गणाः स्थाप्यन्ते यदैव दण्डकोऽनङ्गशेखराख्यो भवति ॥
यथा—
उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके विजृम्भमाणगौरदीधिती रतिस्वहस्तनिर्मितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु । इति प्रमोदकारिणीं प्रियाविनोदलक्षणां गिरं समुद्गिरन्मुरारिद्भुतां
प्रदोषकालसंगमोल्लसन्मना मनोजकेलिकौतुकी करोतु वः कृतार्थताम् ॥
उट्टवणिका यथा—ISI, SIS, ISI, SIS, ISI, SIS, ISI, SIS, ISI ऽ २८x४ = ११२ ॥ अत्र चरणत्रये पादान्तगुरोर्विकल्पेन लघुत्वं ज्ञेयमित्यनङ्गशेखरो निवृत्तः । इति दण्डकाः ॥
अथार्धसमवृत्तान्युदाह्रियन्ते तत्र चतुष्पदी पद्यम् । तद्द्द्विविधम् । वृत्तजातिभेदेन । तदप्यक्षरसंख्यातं वृत्तम् । मात्रासंख्याता जातिरिति द्विविधम् । तद्वृत्तं पुनस्त्रिविधम् । समार्धसमविषमभेदेनेति । तत्र समं समचतुश्चरणम् । अर्धसमं च यस्य प्रथमं तृतीयं च पदं समानमथ चतुर्थं द्वितीयं च तुल्यं भवति । भिन्नचिह्नचतुश्ञ्चरणं विषममिति । तदुक्तं छन्दोमञ्जर्याम्
'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्धसमं वृत्तं विषमं चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ॥' इति । तत्र मात्रावृत्तक्रमेण सममुक्त्वार्धसममुच्यते । तत्र प्रथमं पुष्पिताग्राच्छन्दःद्विजवरकररज्जुकर्णपूर्णौ प्रथमतृतीयपदौ यदा भवेतात् ।
द्विजपदगुरुरज्जुकर्णयुक्तौ यदि चरणावपरौ च पुष्पिताग्रा ॥ इदमप्युदाहरणम् । छन्दोमञ्जर्यां तु प्रकारान्तरेण लक्षणमुक्तम् ॥
'अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा' ।
अयुजि विषमे प्रथमे तृतीये चरणे नयुगलरेफतो नगणयुगलरगणतः परो यकारो यगणो भवति । युजि समे तु द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरगाः जगणरगणगुरवश्च यत्र भवन्ति तत्पुष्पिताग्रानामकं छन्दः ||
यथा
Jain Education International
करकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः । स्मितरुचिरविलासपुष्पिताग्रा व्रजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ उट्टवणिका यथा - वि० IIII, 15, 151, 55, स० IIII, 511, 5, 151, ऽऽ.
प्रसरति
पुरतः सरोजमाला तदनु मदान्धमधुव्रतस्य पङ्क्तिः । तदनु धृतशरासनो मनोभूस्तव हरिणाक्षि विलोकनं तु पश्चात् || प्रकारान्तरेणोट्टवणिका यथा - वि० III, III, SIS, ISS, स० III, 151, 151, 151, 5, इति पुष्पिताग्रा निवृत्ता ॥ अथोपचित्रं छन्दः - 'विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम्' ।
यत्र विषमे प्रथमे तृतीये च चरणे एवंविधे दलेऽर्धे यदि सौ सगणावथ च सलगाः सगणलघुगुरवो भवन्ति, किं च युजि समे द्वितीये चतुर्थे च चरणे यदि भौ भगणावथ च भात् भगणात् गुरुकौ भवतस्तदोपचित्राख्यमर्धसमं वृत्तमिति । द्विरावृत्त्या श्लोकः पूरयितव्यः ॥
For Private Personal Use Only
www.jainelibrary.org