________________
परिशिष्ट (२)
[२६९
यथाप्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया। कमलनयन रक्ष रक्षेति गर्जत्रसन्मुग्धगोपाङ्गनानन्दितो गलदभिनधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय वः ॥ उट्टवणिका यथा, I, III, SIS, SIS, 5I5, 55, 5, , 55, २७४४=१०८ ॥ चण्डवृष्टिप्रपातो निवृत्तः ॥ अथार्णादयः-'प्रतिचरणविवृद्धरेफाः स्युरार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ।
यदि नगणद्वयान्तरमेव प्रतिचरणं विवृद्धरेफा: क्रमात् समधिकरगणास्तदा अर्ण-अर्णव-व्याल-जीमूत-लीलाकर-उद्दामशङ्खादयो दण्डकाः स्युरिति । एतेन नगणयुगलवसुरेफेणाणः । ततः परे क्रमाद्रगणवृद्ध्या ज्ञेयाः । आदिशब्दादन्येऽपि रगणवृद्ध्या स्वबुद्ध्या नामसमेता दण्डका विधेया इत्युपदिश्यते ।। तत्राों यथा
जय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासाच्युतानन्त नारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव । गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वंभरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे
बलिदमन नृसिंह शौरे भवाम्भोधिघोरार्णसि त्वं निमज्जन्तमभ्युद्धरोपेत्य माम् ॥ उद्दवणिका यथा, III, II, SIS, SIS, SIS, SIS, SIS, SIS, 515, 515, ३०x४=१२० ॥ अर्णो निवृत्तः । एवमन्येऽपि क्रमाद्रेफविवृद्धचरणं दण्डकाः समुन्नेया इति ॥
अथ प्रचितको दण्डक:-'प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः' । नगणद्वयादुत्तरैः सप्तभिर्यगणैर्धारधीभिः सप्तविंशतिवर्णात्मकचरणः प्रचितकाख्यो दण्डकः स्मृतः ॥ यथामुरहर यदुकुलाम्मोधिचन्द्र प्रभो देवकीगर्भरत्नत्रिलोकैकनाथ प्रचितकपट सुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र । चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार प्रणतजनपरितापोगदावानलच्छेदमेघ प्रसीद प्रसीद प्रसीद ॥ उट्टवणिका यथा-II, II, 155, 155, 155, 155, 155, 155, 155, २७४४=१०८ ॥ प्रचितको निवृत्तः ।। अथाशोकपुष्पमञ्जरीदण्डकः-'यत्र दृश्यते गुरोः परो लघुः क्रमात्स उच्यते बुधैरशोकपुष्पमञ्जरीति' ।
यत्र गुरोः परः क्रमाल्लघुदृश्यते रगणजगणक्रमेण रगणान्तं नवगणा लघ्वन्ता वसुलोचनश्चरणे दृश्यन्ते यत्रासावशोकपुष्पमञ्जरीति नाम दण्डको बुधरुच्यते इति ।।
यथामूनि चारुचम्पकस्रजासलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु
कर्णयोरशोकपुष्पमञ्जरीवसंतको गलेऽतिकान्तकेसरोपक्लुप्तदाम । फुल्लनागकेसरादिपुष्परेणुभूषणं तनौ विचित्रमित्युपात्तवेष एष
केशवः सदा पुनातु नः सुपुष्पभूषितः स मूर्तिमानिवागतो मधुविहर्तुमत्र । उट्टवणिका यथा-515, 151, 515, 151, 515, 1515, 515, ISI, II, २८४४=११२ ॥ अशोकपुष्पमञ्जरी निवृत्ता । अथ कुसुमस्तबको दण्डक:-'सगणः सकलः खलु यत्र भवेत्तमिह प्रवदन्ति बुधाः कुसुमस्तबकम्' ।
यत्र खलु निश्चयेन सकलोपि सगण एव भवेत् । सगणनवकं भवेदतश्च सप्तविंशतिवर्णात्मकपदं तं दण्डकं बुधाः कुसुमस्तबकं प्रवदन्ति ।।
यथाविरराज यदीयकर: कनकद्युतिबन्धुरवामदृशां कुचकुड्मलगो भ्रमरप्रकरणे यथावृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः । स नवीनतमालदलप्रतिमच्छविबिभ्रदतीव विलोचनहारिवपुश्चपलारुचिरांशुकवल्लिधरो हरिरस्तु मदीयहदम्बुजमध्यगतः ॥ उट्टवणिका यथा, II, II, , |s, IIS, II, Is, ॥s, ||s, २७४४=१०८ ॥ कुसुमस्तबको निवृत्तः । मत्तमातङ्गलीलाकर:-'यत्र रेफः परं स्वेच्छया गुम्फितः सः स्मृतो दण्डको मत्तमातङ्गलीलाकारः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org