________________
२६८]
प्राकृतपैंगलम् यस्य स तथा । पुनः-डमरुकधरः । पुनः-नयनेन भालस्थतार्तीयलोचनेन दग्धोऽनङ्गो येन स तथा । पुनः-रिपोर्भङ्गो यस्मात्तादृशः । पुनः-गौरी पार्वती अर्धाङ्गे यस्य स तादृशः ॥ अथ चरमार्थेन हरिं स्तौति-जगति हरिविष्णुर्जयति च । कीदृशः । भुजयुगेन धृतो गोवर्धनो गिरिर्येन स तथा । पुनः दशमुखकंसविनाशनः । पीतवासाः पीताम्बरधर इत्यर्थः । पुनः-सागरवासः कृतक्षीरनीरधिशयन इत्यर्थः । येन वलिच्छलितो महीतले तादृशः । येन चासुराणां विलयः कृतः । यश्च मुनिजनानां मानसे हंस इवोपास्यमानः । अतएव शुभ्रभासः श्वेतकान्तिः सात्त्विकस्वभावत्वाद्वा तादृश इति ॥ उट्टवणिका यथा-II, II, II, II, II, II, II, II, II, II, 551, 55, ||s, s, s, I, I, 5, 5, ३४४४=१३६ ॥ ४२४४=१६८ ॥ मात्राप्रस्तारे एकस्य कथनाद् द्वितीयं त्रिभङ्गीवृत्तं निवृत्तम् ॥
२१४. अथ शालूरछन्द:
हे मुग्धे, यत्रैक: कर्णो गुरुद्वयात्मको गणः प्रथमं (पतित:) द्विजाश्चतुर्लघुका गणा, सरसपदाः ध्रुवं निश्चितं पदेषु पतिताः । ततः स्थापयित्वा करं गुर्वन्तं सगणं हे मनोहरणि हे रजनीप्रभुवदने चन्द्रानने, हे कमलदलनयने, तत् वरमतिसुन्दरं शालूरनामकं छन्दः सुतरां भणितम् । छान्दसिकरित्यर्थः । तव पदे मात्रानियममाह-पउ पदे द्वात्रिंशत् (३२) मउ मात्राः हु खलु ठव स्थापय । वर्णाः प्रत्यक्षा एव । प्रकारान्तरेणोट्टवणिकामाह-पअलिअ इति । तह अ तथा च करतलं सगणं प्रकटित इति प्राकट्यमवसानं लक्षयति । तथा च सगणोऽन्ते । तन्मध्ये द्विजगणाश्चतुर्लघुकाः । तान्विशनिष्टि-मात्राभिवर्णैश्च सुतरां ललिता मनोरमाः । चउकल चतुष्कला: छउ षट् किअ कृताः कविवरेण पिङ्गलेनेति । यत्र च दिणअरभु दिनकरभूः कर्णो द्विगुर्वात्मको गणः अअ आदौ परं पतितः । एवमुक्तं भवति-चतुष्कला: षड्गणा मध्ये, आदौ कर्णः, अन्ते सगणो यत्र तच्छालूरनामकं छन्द इति ॥ वाणीभूषणे तु–'कर्णद्विजवरगणतृ(त्रि ?)तयनगणमिह रचय ललितमतिकुसुमगणं नारीगणकलितकलितशरकुसुमसुकनककुसुमवरकृतरसनम् । नागाधिपतिगदितमिति च परिमुषितसकलकविनृकुलमतिरुचिरं शालूरममलमिह कलय कमलमुखि मुषितविबुधजनहृदयवरम् ॥'
२१५. शालूरमुदाहरति-जहा (यथा)
कश्चिद्वसन्तलक्षणेन प्राप्तं सुरभिसमयमुपवर्णयति-यत्र फुल्लं कमलवनम्, पवनः समीरणो लघु मन्दं वहति, भ्रमरकुलं दिक्षु विदिक्षु भ्रमति । किंच वने झंकारः पतति । यतः कोकिलगण: पिकप्रकरो विरहिगणानां मुखे संमुखेऽतिविरसं यथा स्यात्तथा रौति । कूजतीत्यर्थः । यत्र च आनन्दिता युवजनाः । उल्लसितं रभसान्मनो यस्मिन्नेवंविधः । सरसनलिनीदलकृतशयनः कुसुमसमय आगतो वने शिशिरर्तुः फल्लहु प्रत्यावृत्तः । अत एव वसन्तसमयारम्भाद्दिवसा दीर्घा जाता इति ॥ यथा वा[णीभूषणे]-'गोवर्धनगिरिधरमुपचितदितिसुतपरमहृदयमदशमनकरं व्यर्थीकृतजलधरगुरुवरष(र्ष ?)णभरगतभयनिजकुलदुरितहरम् । नन्दालयनिवसनकृतवनविलसनविहितविविधरसरभसपरं संवीतवसनधरमरुणकरचरणमनुसर सरसिजनयनधरम् ॥' उट्टवणिका यथा-55, III, IIII, III, IIII, 1, IIII, , २९x४=११६ ॥ शालूरो निवृत्तः ॥
अथ सवैया छन्दःछद्दह मत्तह पढमहि दिज्जइ मत्त एअत्तिस पाए पाअ, सोलहपञ्चदहहि जइ किज्जह अन्तर अन्तर ठाए ठाइ । चोबीसा स मत्त भणिज्जइ पिङ्गल जम्पइ छन्दसु सार अन्त अ लहूअ लहूअ दिज्जहु णाम सवैआ छन्द अपार ।।
भोः शिष्याः, षडधिका दश षोडश मात्रा: प्रथमं दिज्जह दीयन्ताम् । एतेन प्रथमा विरतिः षोडशमात्रासु कर्तव्येत्याशयः । पादे पादे प्रतिमादमेकत्रिंशन्मात्राः । तेन द्वितीया विरतिः पञ्चदशमात्रासु विधातव्येति भावः । अत एव षोडशपञ्चदशभ्यां यदि विरति: क्रियते अन्तरान्तरा स्थापयित्वा विरतिमित्युपरिष्टात् । समुदितमात्रासंख्यामाह-चतुर्विंशत्युत्तरं शतं मात्रा भण्यन्ते यत्र तत्पिङ्गलश्छन्दःसु सारं सारभूतमपारं नानाकविसंप्रदायसिद्धम्, अन्ते च लघुकं लघुकं नियमेन दत्त्वा सवैआनामकं छन्दो जल्पतीति ।। इदमेवोदाहरणम् । नानाकविबन्दिकृतं वा प्रोक्तलक्षणं संवार्य (?) समुदाहर्तव्यमिति उट्टवणिका यथा-50 50 || 15।। १६ + 5151555। १५=३१४४=१२४ ॥ सवैआ निवृत्ता ॥ अथ प्राकृतसूत्रेण [वर्णवृत्त] प्रोक्तानां वृत्तानां नामान्यनुकामति
एतानि पञ्चाधिकशतरूपाणि सर्वाणि स्थानकं कृत्वा ज्ञातव्यानीति ।
अन्यान्यपि प्रस्तारगत्या स्वबुद्ध्या सुधीभिरूह्यानि छन्दांसीत्युपरम्यते । अथ ग्रन्थान्तराद्दण्डकलक्षणानि सोदाहरणान्युच्यन्ते-'यदिहनयुगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः' ।
यदि नगणयुगलानन्तरं सप्त रेफाः सप्त सगणा यदि भवन्ति । तदा चण्डवृष्टिप्रपातो नाम दण्डको भवतीति । अतएव 'दण्डको नौरा-' इति पिङ्गलवृत्तौ भट्टहलायुधेनाभ्यधायि (?) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org