________________
परिशिष्ट (२)
[ २६७
उवणिका यथा - 511, 551, III, ॥5, 51, 51, 11, 155, २४४४ = ९६ ।। तन्वी निवृत्ता । अत्रापि प्रस्तारे 'चतुर्विंशत्यक्षरस्यैका कोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं (१६७७७२१६) भेदाः । तेषु दिड्मात्रमुदाहृतम् । शेषभेदाः शास्त्रोक्तरीत्या प्रस्तार्य सुधीभिरुदाहर्तव्या इत्यलमिति ॥
अथ क्रमप्राप्तं पञ्चविंशत्यक्षरप्रस्तारे ग्रन्थान्तरात्क्रौञ्चपदाछन्दो लक्ष्यते -'क्रौञ्चपदास्या द्धो मसभाश्चेदिषुशरवसुमुनियतिरनु
लघुगैः' ।
भोः शिष्याः, यत्र पूर्वं भो भगणः, ततो मसभा मगणसगणभगणा भवन्ति । अथ च - इषुभिः पञ्चभिः शरैः पञ्चभिः, वसुभिरष्टभिः, मुनिभिः सप्तभिश्चेद्यतिर्विश्रामः किंच भमसभानन्तरमनु लघुगैर्गुर्वन्तैर्द्वादशलघुभिः संभूय पञ्चविंशतिभिर्वर्णैर्यत्र पदं तदा सा क्रौञ्चपदा तन्नामकं वृत्तं भवतीति ॥
यथा
क्रौञ्चपदालीचित्रिततीरा मदकलखगकुलकलकलरुचिरा फुल्लसरोज श्रेणिविलासा मधुमुदितमधुपरवरमसकरी । फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिमकिरणजा ॥
उट्टवणिका यथा-SII, 555, ॥5, III II III II 5 २५x४ = १०० ॥ क्वचिदत्र नवमाक्षरलघुत्वम् । तत्रोट्टवणिकायां तृतीयो नगण इति वेदितव्यमिति । अत्रापि प्रस्तारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयं पञ्चत्रिंशल्लक्षाणि चतुःपञ्चाशत्सहस्राणि, द्वात्रिंशदुत्तराणि चतुःशतानि च ( ३३५५४४३२) भेदाः । तेषु दिगुपदर्शनार्थमेकं वृत्तमुक्तम् । वृत्तान्तराणि च प्रस्तार्य सूधीभिरूह्यानीति शिवम् ॥
अथ षड्विंशत्यक्षरप्रस्तारे ग्रन्थान्तरादेव भुजङ्गविजृम्भितं छन्दोऽभिधीयते - 'वस्वीशाश्वच्छेदोपेतं ममतननयुगरशलगैर्भुजङ्गविजृम्भितम्' ।
भोः शिष्याः, यद्वसुभिरष्टभिः ईशैरेकादशभिः, अश्वैः सप्तभिश्च छेदोपेतं विश्रामयुक्तम्, अथ मगणद्वयतगणनगणनयुगलरगणसगणलघुगुरुभिः षड्विंशत्यक्षरैः पदं तत्र तद्भुजङ्गविजृम्भितं नाम वृत्तं भवतीति ॥
यथा
हेलोदञ्चन्न्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालकश्चारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृक् । त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः पायान्नश्छिन्दन्कालिन्दीहदकृतनिजवसतिबृहद्भुजङ्गविजृम्भितम् ॥
वणिका यथा - SSS SSS, 551, III, III, III, SIS, II, I, 5, २६x४ = १०४ ॥ भुजङ्गविजृम्भितं निवृत्तम् ॥ तथापि प्रस्तारगत्या रसलोचन (२६) कर्णस्य कोटिषट्कमेकसप्ततिलक्षाणि वसुसहस्राणि चतुःषष्ट्युत्तराण्यष्टौ शतानि च (६७१०८८६४) भेदाः । तेष्वेको भेदोऽभिहितः शेषभेदा विशेषबुद्धिभिराकरात्प्रस्ताररीत्या वा प्रस्तार्य स्वेच्छया नामान्यारचय्य सूचनीया इति दिड्मात्रमुपदिश्यत इति सर्वमवदातमिति ॥
एवं चैकाक्षरादिषड्विंशत्यक्षरपर्यन्तं प्रत्येकं प्रस्तारपिण्डसंख्या 'रसलोचनसप्ताश्वचन्द्रदृग्वेदवह्निभिः । आत्मना योजितैर्वामगत्या ज्ञेया मनीषिभिः ।।' इति निर्दिष्टदिशा त्रयोदश कोटि (?) द्विचत्वारिंशल्लक्षाणि सप्तदश सहस्राणि षड्विंशशत्युत्तराणि सप्त शतानि च (१३४२१७७२६) समस्तप्रस्तारस्य 'छव्वीसा सत्त सआ तह सत्तारह सहस्साइं । बाआलीसं लक्खं तेरह कोडी समग्गाई ।' इति गाहूच्छन्दसा पूर्वोक्तपिण्डसंख्या सिंहावलोकनशालिभिरनुसंघातव्येति सर्वमनवद्यम् ॥
२१२. अथ प्रस्तारोत्तीर्णानि मुक्तकानि कानिचिद्वृत्तानि वर्णनियमसहितान्याहतत्र प्रथमं त्रिभङ्गीछन्द:
हे गजगमने हे शशिवदने । सकलपदेषु प्रथमं भण दश सुप्रियगणान् लघुद्वयात्मकगणान् भण । तथान्ते भगणः, ततो गुरुयुग्मं ततो हस्तः सगणः पतति । पुनरपि गुरुयुगलम् । अथ च लघुयुगलम् । ततो वलययुगलं गुरुयुगं कुरु । एवं यत्र चतुस्त्रिंशद्वर्णाः पदे पतन्ति । सुखान्यङ्गानि यस्य । सज्जनेषु सङ्गो यस्य तादृशः, सुन्दरकायो रमणीयशरीरः कविराजो नागः पिङ्गलस्तत्त्रिभङ्गीछन्द इति जल्पति । हे मुग्धे, पदे पदे एतावदेव कथय । अथ च द्विचत्वारिंशन्मात्रा युक्ताः कुरु । एतन्निरुक्तं गणयित्वा सर्वपदेषु द्विचत्वारिंशच्चतुर्गुणिताः वसवोऽष्टौ रसाः षट् एकं चेति वामगत्याष्टषष्ट्युत्तरशतं (१६८) मात्रा: पअपअ चतुः पदे. पअला पतन्तीत्यर्थः । पदैश्चतुस्त्रिंशद्वर्णचतुष्केण षट्त्रिंशदधिकं शतं (१३६) वर्णा यत्र तत्प्रोक्तलक्षणं त्रिभङ्गी नामकं छन्दो भवतीति समुदितोऽर्थः ॥
२१३. त्रिभङ्गीमुदाहरति-जहा (यथा) -
प्रथमार्धेन हरं स्तौति—जगति हरः शिवो जयति । कीदृशः । वलयिता विषधराः सर्पा येन । भुजगकङ्कण इत्यर्थः । पुनःतिलकितः सुन्दरश्चन्द्रो येन । चन्द्रशेखर इत्यर्थः । पुनः - मुनीनामानन्दः अत एव सुखकन्दः । पुनः - वृषभगमनः । पुनः - करे त्रिशूलं
Jain Education International
For Private Personal Use Only
www.jainelibrary.org