________________
२६६]
प्राकृतपैंगलम् २०८. अथ चतुर्विंशत्यक्षरप्रस्तारे दुर्मिलाछन्दोऽभिधीयते
भो: शिष्याः दुर्मिलाछन्दसि प्रकाशयति(त), वर्णान् विसेसह विशिष्टान् विशेषतो वा विशेषयत । तान्विशेषणविशिष्टान्कुरुतेत्यर्थः ॥ तान्विशिनष्टि-ये वर्णाः फणीन्द्रेण दर्वीकराधीश्वरेण पिङ्गलेन चारुगणत्वेन दीस दृष्टाः । ते च गणाः शेषेण द्वात्रिंशद्भिर्मात्राभिर्जायत इति भणिताः । तानाह-अष्टस्वपि स्थानेषु स्थापयित्वा सगणान् । अत्र चतुष्कलात्मकगणाष्टकस्थापनेन द्वात्रिंशन्मात्रात्मकं पदमिति भावः ॥ अथ च त्रिवर्णात्मकगणाष्टकविन्यासेनैव वेदलोचन(२४) वर्णात्मकश्चरणो भवतीति भावः ॥ इतरगणनिषेधमाह-गणेति । अन्यो गणः सगणातिरिक्तोऽस्मिन्वृत्ते न क्रियते । अत एवेतरगणव्यावृत्त्या सगणकरणेन कवेः कीर्तिः मुणिज्जइ ज्ञायत इत्यर्थः ॥ अन्यगणकरणे दोषा अनेके लगन्ति यत्र ॥ यद्यप्यन्यगणकरणे प्रकृतप्रस्तारवर्णसंख्या विद्यत एव । तथापि सगणस्य चतुष्कलत्वादष्टसगणविरचनेन प्रोक्तविरतिसहितनयनानल (३२) कलाकलितमेतत्पदम्, अन्यथाधिककलगणत्वात्प्रोक्तनियमहीनतश्छन्दोभङ्गमावहेदित्याशयः ॥ अथात्र यतिनियम माह-कहि इति कृत्वा विरामवयं विरतित्रयं पादे तत्र ताः विरतयः प्रथमं दशमात्रासु, पुनरष्टमात्रासु, ततश्चतुर्दशमात्रासु सही सत्यं भवन्तीत्यर्थः । तत्प्रोक्तलक्षणं दुर्मिलानामकं वृत्तमिति ।। भूषणेऽप्युक्तम्-'विनिधाय कर गुरुरत्नमनोहरबाहु युगं कुरु रत्नधरं सगणं च ततः कुरु पाणितलं वरपुष्पयुगं विनिधाय गुरुम् । इति दुर्मिलका फणिनायकसंरचिता किल वर्णविलासपरा चतुराश्रितविंशतिवर्णकृता कविता सुकृताश्रयशिल्पधरा ॥'
२०९. दुर्मिलामुदाहरति-जहा (यथा)
प्रभुणा नरपतिना दापितं वाद्यं प्रयाणार्थं दुन्दुभिनादः समाजप्त इत्यर्थः । ततश्च सज्जीकृतं टोप्परु शिरस्राणम् । 'टोपर मत्थअ' इति क्वचित्पाठः । तत्र शिरलं मस्तके दत्तम् । कङ्कणो बाहौ दत्तः । शीर्षे किरीटो मुकुटं दत्तम् । अपि च पातयित्वा कर्णयोः कुण्डलं यथा रविमण्डलं मार्तण्डमण्डलमिव भासमानं स्थापितो हारो लुठन्नुरसि, प्रत्यङ्गलि मुद्रिका हीरकैः सुन्दरी दत्ता । एवं च काञ्चनविद्युद्वत् सुसज्जा तनुर्ययोः, तथा द्वावपि सुन्दरौ। कौ तावित्याह-स्तावकः कविः, नायकश्च । तत्क्षणे सुन्दरसेष (शे०) धनुषौ विरेजतुरिर्थात् ॥ यथा वा[णीभूषणे]-'कति सन्ति न गोपकुले ललिताः स्मरतापहताश्च विहाय च ता रतिकेलिकलारसलालसमानसमुण्डितमान[समान] रसम् । वनमालिनमालिनमस्य नमस्य चिरस्य [चिरस्य] वृथा भविता परितापवती भवती [भवती] युवतीजनसंसदि हासकथा ॥' उट्टवणिका यथा-||s, Is, us, us, IIs, us, |s, ॥, २४४४=९६ ॥ दुर्मिला निवृत्ता ॥
२१०. अथ किरीटछन्दः
भोः शिष्याः, स्थापयतादौ शक्रगणमाद्यन्तस्थितगुरुकं षट्कलमित्यर्थः । तथा तस्याग्रे सल्ल विसज्जहु वे वि द्वौ शल्यौ लघुद्वयं विसर्जयत इत्यन्वयः । ततः शब्दयुगं लघुद्वयम् । तथा नूपूरं गुरुम् । एपरि अनया परिपाट्या षड्गणा पुनः कर्तव्याः । एवं द्वादश गणाः । आदौ शकगणं कृत्वान्ते काहलयुगलं लघुद्वयं कुरु । अनयैव च रीत्या चतुर्विंशतिवर्णान् प्रकाशयत । द्वात्रिंशन्मात्राश्च पदे पदे कुरुतेति शेषः ॥ प्रकारान्तरेण गणनियममाह-अष्टौ भगणान्गुर्वादिकान्गणान्विसर्जयत नान्यान् । एतदतिरिक्तगणदाने मात्रानियमभङ्गाच्छन्दोभङ्गत्वमिति भावः ॥........ ॥ वाणीभूषणे तु-'पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहरवज्रयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय पिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ।।'
२११. किरीटमुदाहरति-जहा (यथा)
येन रामेण पितृभक्तिः शिरसि गृहीता । यश्च राज्यं विसृज्य चलितो विना सोदरम् । येन सहैकलैव सुन्दरी सीता लग्ना। ततो येन विरोधः काकः कबन्धो योजनाबाहुर्धत्वा मारितः । ततो मारुतिर्हनुमान्मिलितो यस्य । वाली च येन व्यापादितः । तद्राज्यं सुग्रीवाय दत्तमकष्टेनानायासेनेत्यर्थः । बद्ध्वा च समुद्रं विघातितो रावणो दशकण्ठो येन । स राघवो दाशरथिस्तुभ्यं निर्भयं ददात्विति ॥ यथा वा[णीभूषणे]-'मल्लि लते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघट्टितकुड्मलकोटिविनिर्गतसौरभसंपदि न त्वयि कोऽपि विधास्यति सादरमन्तरमुत्तरनागरसंसदि ॥' उट्टवणिका यथा-50, 50, 50, 50, 50, 50, 51, 5, २४४४=९६ ॥ किरीटो निवृत्तः ॥
अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्तन्वीनामकं छन्दोऽभिधीयते-'भूतमुनीनैर्यतिरिह भतनाः स्भौ भानयाश्च यदि भवति तन्वी'
भोः शिष्याः, यत्र भूतैः पञ्चभिः, मुनिभिः सप्तभिः, इनैदशभिर्यतिर्विश्रामो भवति । अथ च-भतना भगणतगणनगणा: अथ च स्भौ सगणभगणौ, अथ च भगणनगणयगणा यदि भवन्ति तदा तन्वीनामकं छन्दो भवतीति ॥
यथामाधव मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यधिगततनुदाहा। पद्मपलाशैविरचितशयने देहजसंज्वरभरपरिदूनैनिश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org