________________
परिशिष्ट (२)
[ २६५
उणिका यथा - 511, 511, 511, 511, 511, 51, 51, 55 २२x४ = ८८ ॥ मदिरा निवृत्ता । अत्रापि प्रस्तारगत्या द्वाविंशत्यक्षरस्यैकचत्वारिंशल्लक्षाणि चतुर्नवतिसहस्राणि चतुरुत्तरं शतत्रयं च ४१९४३०४ भेदाः । तेषु भेदद्वयमुक्तम् । शेषभेदाः शास्त्ररीत्या प्रस्तार्य प्रतिभावद्भिरुदाहर्तव्या इति दिङ्मात्रमुपदिश्यते ॥
२०६. अत्र त्रयोविंशत्यक्षरप्रस्तारे सुन्दरीछन्द:
तदनन्तरं
भोः शिष्याः, यत्रादौ हस्तः सगणो भवति, तथा करतलं सगण एव ततः पादगणो भगणः, ततो लहूजुअ लघुद्वयमित्यर्थः । वङ्क तिआ वक्रास्त्रयः गुरुत्रयमित्यर्थः । ततः पहिल्ली प्रथमं शल्यमेव लघुमेव स्थापय स च शल्यो लघुः चमरहिहिल्लौ चमरगुरु मिलित्वैतदग्रे गुरुर्भवतीत्यर्थः । ततः सल्लजुअं शल्ययुगं लघुद्वयमित्यर्थः । पुनर्यत्र वङ्क ठिआ वक्रो गुरुः स्थितः । ततः पदे पदे प्रतिपदमन्ते हस्तगणः सगणः प्रभण्यते । एवं त्रयोविंशतिर्वर्णाः पादे यत्र प्रमाणीकृताः । तदेतन्मात्राभिर्वर्णैश्च प्राप्तं सुन्दरीनामकं छन्दो भणितमशेषैः कविभिः प्रभण्यते भवत्सु कथ्यते इत्यर्थः ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'करसङ्गि सुवर्णद्वयवलया ताटङ्कमनोहरशङ्खधरा कुसुमत्रयराजच्छ्रवणविलोलकुण्डलमण्डितरत्नधरा । भुजसंमतकेयूरजसुविलासा पिङ्गलनागसमालपिताकिल सुन्दरिका सा भवति तदा पद्मावतिका कविराजहिता ॥'
२०७. सुन्दरीमुदाहरति- जहा (यथा ) -
कश्चित्कविर्दशावताररूपेण विष्णुं स्तुवन्मङ्गलमभिनन्दति - येन विरचितमीनशरीरेण प्रलयजलधिमध्यतः पञ्चजनासुराद्वेदाः समुद्धृताः, येन च कृतकूर्मरूपेण पिट्टिहि पृष्टेन महीमण्डलं भूमण्डलं विधृतम् । किंच येन विधृतसूकररूपेण दन्ताभ्यां मेदिनीमण्डलमुद्धृतम् । येन च विरचितनरहरिरूपेण रिपोर्हिरण्यकशिपोर्वक्षो विदारितम् अथ च येन छलतनुधारिणा कृतवामनशरीरेण शत्रुर्बलिर्बद्ध्वा पाताले धृतः । अपि च प्राकृते पूर्वनिपातानियमात्क्षत्रियकुलं येन धृतजामदग्न्यविग्रहेण तापि (कम्पितम् । येन च विरचितरामावतारेण दश मुखानि दशमुखस्य कर्तितानि । खण्डितानीत्यर्थः । येन च कृतरामकृष्णावतारेण कंसकेशिनोर्विनाशः कृतः । येन च धृतबुद्धशरीरेण करुणा दया प्रकटिता । येन च कृतकल्किरूपेण म्लेच्छा विलापिता विलीनाः कृताः । स नारायणो युष्मभ्यं वरममिलषितफलं ददात्विति । यथा वा [णीभूषणे ] - ' शरदिन्दुसमानं व्यपगतमानं गायति दिक्षु तवैव यशः स्वरसामुनिदेवी विगलितनीवीकामकलाविकला बहुशः । पृथुवेपथुयुक्ता स्वगृहवियुक्ता स्वदेकलावलिमुग्धमुखी धरणीरमणेन्दो विकसदमन्दोदारसभासंवर्तिमुखी ॥' उट्टवणिका यथाII5, 115, 51, 11, ऽऽऽ, I, 15, 51, 5, 15, २३x४ = ९२ ॥ सुन्दरी निवृत्ता ॥
अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरादद्रितनयानामकं वृत्तमुच्यते - 'नजभजसाजभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया' । यत्र नगणजगणभगणजगणभगणा भवन्ति । अथ च जभौ जगणभगणौ, अथ च लघुगुरू भवतः साद्रितनया निगदिता । तन्नामकं छन्द इत्यर्थः ॥
यथा
खरतरशौर्यपावकशिखापतङ्गनिभभग्नदृप्तदनुजो जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा ।' भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह यः क्षितिवलयेऽस्ति कंसशमनस्तवेति तमवोचदद्रितनया ||
यथा वा- 'विलुलितपुष्परेणुकपिशप्रशान्तकलिकापलाशकुसुमम्' इत्यादि भट्टिकाव्ये । उट्टवणिका यथा - III, 151, 511, 151, 5l, Iऽ|, ऽII, I, ऽ, २३x४ = ९२ ॥ क्वचिदिदमेवश्वललितमिति नामान्तरेणोक्तम् ॥ अद्रितनया निवृत्ता ||
अथ मत्ताक्रीडं छन्दः - 'मत्ताक्रीडं वस्वक्षाशायति मयुगगयुगमनुलघुगुरुभिः' ।
यत्र वसुभिरष्टभिः, ततोऽक्षैः पञ्चभिः, तत आशाभिर्दशभिर्यतिर्यत्र तत् । किंच भगणद्वयं गुरुद्वयं यत्र तदनु चतुर्दशलघूनामन्ते गुरुः । एवं त्रयोविंशतिभिर्वर्णैः पदं यत्र तन्मत्ताक्रीडं नाम छन्दः ॥
यथा
Jain Education International
मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरसं गाने पाने किंचित्स्पन्दत्पदमरुणनयनयुगलसरसिजम् । रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयरचितभुजरसं सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघपदपरिचयदम् ॥
वणिका यथा - SS5, 555, 5, 5, III ||| || | ||| ||, ८, २३x४ = ९२ ॥ मत्ताक्रीडं निवृत्तम् ॥ अत्रापि प्रस्तारगत्या त्रयोविंशाक्षरस्य वृत्तस्य त्र्यशीतिलक्षाण्यष्टाशीतिसहस्राण्यष्टोत्तराणि षट्शतानि (८३८८६०८) भेदा: । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदाः शास्त्रोक्तरीत्या प्रस्तार्य सूचनीयाः सुधीभिराकरतो वा समुदाहर्तव्या इति दिगुपादिश्यते ॥
For Private Personal Use Only
www.jainelibrary.org