________________
२६४]
प्राकृतपैंगलम् आम्रवृक्षा मञ्जर्या तेजिता जातमञ्जरीका जाता इत्यर्थः । किंच दक्षिणो वातो मलयानिलः शीतो भूत्वा प्रवहति । अतः कम्पते वियोगिनीहृदयम् । अथ च केतकीधूलिः सर्वदिक्षु प्रसृता । अतः पीतं सर्वतो भासते इत्यादिलक्षणवशतो वसन्त आगतः । अत: कारणात्सखि, किं करिष्यामि कथं वा नेष्यामि दिवसानेतान् । कान्तः पार्श्वे न तिष्ठति ॥ यथा वा[णीभूषणे]-'पङ्कजकोषपानपरमधुकरगीतमनोज्ञतडागः पञ्चमनादवादपरभृतकाननसत्परभागः । वल्लभविप्रयुक्तकुलवरतनुजीवनदानदुरन्तः किं करवाणि वक्षि मम सहचरि संनिधिमेति वसन्तः ॥' उट्टवणिका यथा-51, 55, I, I, I, III, S, I, II, I, I, 55, २१४४८४ ॥ नरेन्द्रो निवृत्तः ॥
अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरात्सरसीछन्दो लक्ष्यते-'नजभजजाजरौ यदि तदा गदिता सरसी कवीश्वरैः' ।
यत्र नगणजगणभगणजगणजगणा भवन्ति । अथ च जरौ जगणरगणौ भवतो यदि तदा कवीश्वरैः सा सरसी गदिता । तन्नामकं छन्द इत्यर्थः ॥ यथा
चिकुरकलापशैवलकृतप्रमदासु लसदसोर्मिषु स्फुटवदनाम्बुजासु विकसद्भुजवालमृणालवल्लिषु ।
कुचयुगचक्रवाकमिथुनानुगतासु कलाकुतूहली व्यरचयदच्युतो व्रजमृगीनयनासु विभ्रमम् ॥ यथा वा-'तुरगशताकुलस्य परितः परमेकतुरंगजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता । परिचलतो बलानुजबलस्य पुरः सततं धृतश्रियश्चिरगलितधियो जलनिधेश्च तदाभवदन्तरं महत् ॥' इति माघे ॥ उट्टवणिका यथा-II, I51, 5॥, 151, 11, 151, 55, २१४४८४ ॥ इदमेव ग्रन्थान्तरे 'सिद्धकम्' इति नामान्तरेणोक्तम् ॥ सरसी निवृत्ता । अत्रापि प्रस्तारगत्यैकविंशत्यक्षरस्य नखलक्षं सप्तनवतिसहस्राणि द्विसमधिकपञ्चाशदुत्तरं च शतं २०९७१५२ भेदा भवन्ति । तेषु भेदत्रयं प्रदर्शितम् । शेषभेदाः सुधीभिः स्वबुद्ध्या प्रस्तार्य सूचनीया इति दिक् ॥
२०४. अथ द्वाविंशत्यक्षरप्रस्तारे हंसीछन्दः
भोः शिष्याः, यत्र विद्युन्मालाया वसु (८) गुरुचरणायाः पादपाते सति त्रयो द्विजगणाश्चतुर्लध्वात्मकगणाः, तथा बहुगुणयुक्ताः पतन्तीत्यर्थः । तस्यान्ते वसुगुरुद्विजगणत्रयान्ते कर्णेन द्विगुर्वात्मकेन गणेन शुद्धौ वर्णौ यत्र यत्र च पदे पदे प्रतिपदं गुरुदशकद्वैगुण्येन विंशतिः (२०) द्विजत्रयाणां (?) दिनकर (१२) लघवः संभूय द्वात्रिंशन्मात्राः प्रकटिताः । एवं यत्र गुरूणां लघूनां प्रकटितणेमा (शोभा) स(त)देतद्धंसीनामकं छन्दः सकलबुधजन्ममनोहरणे मोहा मोहरूपं पण्डितजनमनोविस्मायकमिदं गुणयुक्तः कविवरः फणिपतिर्भणतीति जानीत । वाणीभूषणेऽप्युक्तम्-'यस्यामष्टौ पूर्वे दीर्घास्तदनु कमलमुखि दिनकरसंख्या ह्रस्वा वर्णाः पीनोत्तुङ्गस्तनभरविनमितसुभगशरीरे । दीर्घावृत्त्या लीलालोले यतिरिह विरमति कुलगिरिषष्ठ्ठाविंशत्या वर्णैः पूर्णा प्रभवति कुसुममृदुलतरहंसी ।' छन्दोमञ्जर्यामपि-'मौ गौ नाश्चत्वारो गो गो भवति वसुभुवनयतिरिह हंसी।' यत्र मौ मगणद्वयम्, अथ च गौ गुरुद्वयम्, तदनन्तरं चत्वारो ना नगणचतुष्टयमित्यर्थः । ततश्च गो गो गुरुद्वयमेव यत्र भवति । यतिस्तु प्रथमं वसुष्वष्टसु ततो भुवनैश्चतुर्दशभिर्भवतीति विश्रामभेदेनोक्तम् ॥
२०५. हंसीमुदाहरति-जहा (यथा)
काचित्प्रौढा नायिका शरत्समयमुवर्णयन्ती निजसखीमाह-हे सखि, नेत्रानन्दो लोचनानन्दकारी चन्द्र उदेति, किं च धवलचमरसमशीतकरबिन्दव इव तारा तेआ यस्या रजन्या हारा इव उद्यन्ति । अथ च-विकसितं कमलवनम्, अत एव परिमला: सुगन्धाः कन्दा यत्र तादृशम् । अपि च सर्वाशासु काशाः भासन्ते मधुरश्च पवनः लहलहं करोति । मन्दमन्दसंचरणे 'लहम्' इत्यनुकरणम्। किं च हंसः सदू कूजतीत्यर्थः । अतः पुष्पबन्धुः शरत्समयः सखि, हृदयं हरति रसोद्दीपकत्वेन हृदयहारको भवतीत्यर्थः ॥ यथा वा[णीभूषणे]-'श्रीकृष्णेन क्रीडन्तीनां क्वचिदपि वनभुवि मनसिजभाजां गोपालीनां चन्द्रज्योत्स्नाविशदरजनिजनितरतरतीनाम् । धर्मभ्रश्यत्पत्रालीनामुपचितरभसविमलतनुभासां रासक्रीडायासध्वंसी मुदमुपनयति मलयगिरिवातः ॥' उट्टवणिका यथा-55555555, II, III, 55, २२४४८८ ॥ यथा वा ग्रन्थान्तरे-[--]सार्धं कान्तेऽसौ विकचकमलमधु सुरभि पिबन्ती कामकीडाकूतस्फीतप्रमदसरसतरमलघु वसन्ती । कालिन्दीये पद्मारण्ये पवनपतनतरतरलपरागे कंसाराते पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी ॥' हंसी निवृत्ता ॥
अथास्मिन्नेव प्रस्तारे ग्रन्थान्तरान्मदिरानामकं छन्दोऽभिधीयते-'सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा' । यत्रैको गुरुन्ते वर्तमानः सप्तभकारयुक् भगणसप्तकयुक्तो भवति तन्मदिराभिधानं छन्दो भवतीति ।। यथा
माधवमासि विकस्वरकेसरपुष्पलसन्मदिरामुदितै ङ्गकुलैरुपगीतवने वनमालिनमालि कलानिलयम् । कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं त्वं भज माधविकामृदुनर्तकयामुनवातकृतोपगमा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org