________________
परिशिष्ट (२)
[२६३
यथा
सदा पूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां तयोरूवं राजत्तरलकिसलया श्लिष्टसुस्निग्धशाखा ।
लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रबिम्बाञ्चिताग्रा महो शोभा मौलौ मिलदलिपटलैः कृष्ण सा कापि वल्ली ॥ उट्टवणिका यथा-155, 555, , , s, sis, 55, 5, २०x४=८० ॥ शोभा निवृत्ता ।। अथ सुवदना छन्दः-'ज्ञेया सप्ताश्वषड्भिर्मरभनययुता म्लौ गः सुवदना' ।
यत्र सप्तभिरश्वैः सप्तभिरेव, ततश्च षड्भिविरतिः, अथ च मगणरगणभगणनगणयगणाः, ततो भ्लौ भगणलघू ततश्चान्ते गुरुयंत्र सा सुवदना ज्ञेया ॥ यथा
प्रत्याहत्येन्द्रियाणि त्वदितरविषयान्नासास्रनयना त्वां धायन्ती निकुञ्जे परतरपुरुषं हर्षोत्फुल्लपुलका ।
आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका कामात त्यक्तुकामा ननु नरकरिपो राधा मम सखी ॥ उद्दवणिका यथा-555, 55, SI, m, Iss, I, I, 5, २०x४८० ॥ सुवदना निवृत्ता ॥
अत्रापि प्रस्तारगत्या विंशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्च शतानि १०४८५७६ भेदा भवन्ति । तेषु विस्तरभीत्या कियन्तो भेदा भवन्ति । शेषभेदास्तु सुबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य सूचनीया इति दिक् ॥
२००. अथैकविंशत्यक्षरप्रस्तारे स्रग्धराछन्दोऽभिधीयते
भोः शिष्याः, यत्र प्रथमं द्वौ कौँ गुरुद्वयात्मको गणौ, ततो गन्धो लघुः, ततो हारो गुरुः, ततो वलयो गुरुः, ततो द्विजगणश्चतुर्लध्वात्मको गणः, ततो हस्तः सगणः, ततो हारो गुरुः पतति, तत एकल एको लघुः, शल्यो लघुः, अनन्तरं कर्णः, ततो ध्वज आदिलघुस्त्रिकलस्तत्सहितः, ततः कङ्कणो गुरतिक्रान्तोऽन्ते यस्य एवमेकाधिका विशतिर्वर्णाः पदे यत्र तत्र विवेक:-लघवो नव, द्वादश दीर्घा गुरवो भवन्ति । एतेन गुरुद्वैगुण्येन चतुर्विंशतिः, अथ च-नव लघवः संभूय त्रयस्त्रिंशन्मात्रा: पदे तत्पिण्डो द्वात्रिंशदधिकशतमात्रको यत्र (यथा) सा शुद्धा स्रग्धरानामकं वृत्तं भवतीति फणिपतिः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् ‘कर्णं ताटङ्कयुक्तं वलयमपि सुवर्णं च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नूपुरद्वन्द्वयुक्ता । शङ्ख हारं दधाना सुललितरसनारूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात्स्रग्धरा कामिनीव ।।' कामिनीपक्षेऽर्थः स्पष्टः । छन्दोमायाँ तु 'म्रनैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीतितेयम्' इत्युक्तमिति ॥
२०१. स्रग्धरामुदाहरति-जहा (यथा)
कर्पूरमञ्जरीसाटकस्थं नान्दीपाठकस्य वचनम्-ईर्ष्यारोषप्रसादप्रणतिषु स्वर्गगङ्गाजलैरामूलं बहुशो मुहुः पूरितया तुहिनकरकलारूप्यशुक्त्या शिरसि निहितं ज्योत्स्नामुक्ताफलयुक्तं द्वाभ्यामग्रहस्ताभ्यां शीघ्रमयं ददद्रुद्रः शिवो जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः ॥ यथा वा[णीभूषणे]-'अन्त्रप्रोतास्थिमालावलयविलसद्बाहुदण्डप्रचण्डा वेगव्यालोलमुण्डावलिकलितरणत्कारकण्ठोपकण्ठाः । कुर्वन्तो गर्वमत्युद्गलगहनवलद्घर्घरध्वानमुच्चैरुत्कृत्तैरुत्तमाङ्गैर्विदधति च शिर: कन्दुकक्रीडितानि ॥' उट्टवणिका यथा-55, 55, I, 5, 5, IIII, |s, s, I, 55, IS, 5, २१४४८४ ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्-'व्याकोषेन्दीवराभा कनककषलसत्पीतवासा सुहासा बहरुच्चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा । अंसव्यासक्तवंशध्वनिसुखितजगबल्लवीभिर्लसन्ती मूर्तिगोपस्य विष्णोरवतु जगति वः स्रग्धराहारिहारा ॥' स्रग्धरा निवृत्ता ॥
२०२. अथ नरेन्द्रच्छन्दः
भोः शिष्याः, यत्रादौ पादगणो भगणः प्रकटितो भवति, ततो जोहलो रगण: स्थाप्यते, तत: काहलो लघुः, ततः शब्दो लघुः, ततो गन्धो लघुरेव, एवं मुनिगणश्चतुर्लघुको गणः, ततः कङ्कणो गुरुयंत्र क्रियते, ततः शब्दो लघुरेको यत्र तथ्यं सत्यम्, ततो नरपतिर्जगणश्चलति, तत: सुभव्यः शङ्खो लघुः पूर्यताम्, ततश्चामरयुग्मं गुरुद्वन्द्वमन्ते यत्र प्रकटितम् एतन्नरेन्द्राख्यं काव्यं छन्द इत्यर्थः ।। अथ च यदा नरपतिश्चलति तदैतत्सर्वं भवति । यथा पूर्वं गणाः प्रचरन्ति, तत: काहलशब्दो भवति, तदनन्तरं गन्धस्य कर्पूरागुरुसारदेनिम्, तदनन्तरं गन्धस्य कर्पूरागुरुसारादेनिम्, तदनन्तरं कङ्कणादिभूषणं प्रसन्नेन नरेन्द्रेण महावीरेभ्यो दीयत इत्यादि तादृशध्वनिविशेषरूपेऽर्थे यथायुक्तं योजनीयं सुमतिभिरित्युपरम्यते ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसंगतगन्धः । चारुसुवर्णकुण्डलयुगललितरोचिरलंकृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ।।'
२०३. नरेन्द्रमुदाहरति-जहा (यथा)काचित्प्रोषितपतिका निजसखीमाह-हे सखि, पुष्पितं किंशुकम् । चम्पकमपि तथा प्रकटितं विकसितमित्यर्थः । चूता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org