________________
२६२]
प्राकृतपैंगलम् अत्रापि प्रस्तारगत्यैकोनविंशत्यक्षरस्य बाणलक्षं चतुर्विंशतिसहस्राण्यष्टाशीत्युत्तरं च शतद्वयं (५२४२८८) भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदा विशेषशेमुषीकैराकराद्विचारेण वा प्रस्तार्य प्रस्तावनीया इति दिङ्मात्रमुपलक्षितमस्माभिरित्युपरम्यत इति ।।
१९६. अथ विंशत्यक्षरप्रस्तारे गीताच्छन्दः
हे मुग्धे, यत्रादौ हस्तं सगणं, णरेन्दवि नरेन्द्रद्वयं च ठवि स्थापयित्वा ततः पादगणो भगणः, ततः पञ्चमो जोहलो रगणः, यत्र च ठाइछट्ठहि प्राकृते पूर्वनिपातानियमात् षष्ठे स्थाने हस्त: सगणो दृश्यते, ततः शब्दो लघुः, तदन्ते नूपुरो गुरुः, तत् गीअउ गीतेति नामकं छन्दः सर्वलोकै... ज्ञातं कविसृष्ट्या सृष्टं सृष्ट्या च दृष्टं पिङ्गलेन व्याख्यातं च त्वयि प्रकाशितमित्याचार्यः त्वप्रियतमां प्रत्याहेति योजनीयम् । अतएव च्छन्दोमञ्जर्यामुक्तम्-'सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका' ।
वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'वरपाणिशोभिसुवर्णकङ्कणरत्नरज्जुविभूषिता सुपयोधरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ।' कामिनीपक्षेऽर्थः स्पष्टः ।।
१९७. गीतिकामुदाहरति-जहा (यथा)
कश्चित्कामुक: कामिनीगतभावोद्दीपनाय वसन्तमुपवर्णयन्नाह-हे सुन्दरि, यत्र वसन्ते प्राकृते पूर्वनिपातानियमात् चारुकेतकीचम्पकचूतमञ्जरीवञ्जुलानि पुष्पितानि । किंच-सर्वदिक्षु किंशुककानने फुल्लनवपलाशवने पानेन तत्तन्मकरन्दास्वादनेन व्याकुला भ्रमरा यत्र दृश्यन्ते । अथ च यत्र गन्धबन्धुः सुगन्धप्रायकत्वात्सुरभिसोदरस्तादृशश्चासौ विशिष्टो बन्धः स्कन्धकविन्यासो यस्य । अत एव बन्धुर उच्चनीचो भूत्वा मन्दमन्दं समीरणो मलयानिलो वहति । अतश्चैवंविधमदनमहोत्सवसदनरूपे समये तरुणीजनाः प्रियेण सह केलिकौतुकं निधुवनकौतुकं तस्य यो लासो विलासस्तल्लग्गिमनि तत्कान्तौ लग्ना यत्र तादृशोऽयं वसन्तसमयः प्राप्तः । तस्मात्त्वमपि यथासुखं विहरेति ॥ यथा वाणीभूषणे]-'अलमीशपावकपाकशासनवारिजासनसेवया गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया । करुणापयोनिधिरेक एव सरोजदामविलोचन: स परं करिष्यति दुःखशेषमशेषदुर्गतिमोचनः ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्'करतालचञ्चलकङ्कणस्वनमिश्रणेन मनोरमा रमणाय वेणुनिनादलङ्गिमसंगमेन सुखावहा । बहलानुरागनिवासराससमुद्भवा भवरागिणं विदधौ हरिं खलु बल्लवीजनचारुचामरगीतिका ॥' 'अथ सालतालतमालवञ्जुलकोविदारमनोहरा-' इत्यादि शिको (?) काव्ये ।। उट्टवणिका यथा-IIS, II, ISI, II, II, ISIS, २०x४=८० ॥ गीतिका निवृत्ता ।
१९८. अथ गण्डकाच्छन्दः
हे मुग्धे, यत्रादौ रगणो मध्यलघुर्गणः पतति, पुनरिन्द्रो जगणः कान्तोऽतिसुन्दरः, ततः सुष्टु एवंभूतो (तेन) रगणादिजगणान्तेन षट्केन सह हारमेकं गुरुं देहि । तदनन्तरं सुतक्कएण स्वशक्त्या निजकवितासामर्थ्येन सुशब्दं लघु पादे कुरु । तदेतद्वक्रशङ्खशृंखलया गुरुलघुशृङ्खलाबन्धक्रमेण फणीन्द्रः पिङ्गलो गण्डकाभिधानमिति छन्दो गायति (णय) यत्र पादे गुरुदशकद्वैगुण्येन लघुदशकेन त्रिंशमात्राः पतिताः । अत्र च हारशब्दाभ्यां ए एक: तीअभाअ त्रिकलभागः आउ आगत इत्यर्थः । यदि च त्रिकलानां सामस्त्येन संख्या क्रियते तदा दशत्रिकलैरादिगुरुकैरेव गण्डका निष्पाद्यत इति भावः । वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तालचामरध्वजं पयोधरं च कुण्डलं शरं विधाय नूपुरं च नायकं सपक्षिराजगन्धचामरं निधाय । रूपमन्त्यगं विदेहि वर्णितेन पन्नगेन्द्रपिङ्गलेन गण्डका कवीन्द्रमण्डलीविनोदकारिणी सुमङ्गलेन ।' ग्रन्थान्तरे त्विदमेव चित्रवृत्तमिति नामान्तरेणोक्तम् । अत एव च्छन्दोमञ्जर्याम्-चित्रवृत्तमीरितं तदा रजौ रजौ रजौ गुरुर्लघुश्च' || ..... ||
१९९. गण्डकामुदाहरति-जहा (यथा)
कश्चित्स्वमित्रं प्रत्याह-तावबुद्धिः, तावच्छुद्धिः, तावद्दानम्, तावन्मानः, तावद्गर्वः, यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युरेखावातिचञ्चलमेकं द्रव्यम् । अत्रान्ते द्रव्याभावे आत्मदोषो दैवरोषो वा कारणं भवति नष्टास्त एव सर्वे वस्तुतस्तु का बुद्धिः, का शुद्धिः, किंवा दानम्, को वा मानः, को वा गर्वः ॥ यथा वा[णीभूषणे]-'दृष्टमस्ति वासुदेव देव विश्वमेतदेव शेषकं तु वाजिरत्नभृत्यदारसूनुगेह वित्तमादिवन्नवं तु । त्वत्पदाब्जभक्तिरस्तु चित्तसीम्नि वस्तुतस्तु सर्वदैव शेषकाललुप्तकालदूतभीतिनाशिनीह हन्त सैव ॥' उट्टवणिका यथा-515, II, 55, ISI, 55, ISI, S, I, २०४४%3८० ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्चित्तवृत्तलीलया निसर्गरम्यदेशरूपविभ्रमेण राजमानसद्वयोविलाससंपदा कलाकुतूहलेन । यः समं व्रजाबलाजनैः सुरङ्गानानिभैः सुखं समेत्य विष्णुरुल्ललास चित्तपद्मकोषषट्पदः स मे सदास्तु ॥" गण्डका निवृत्ता ॥
अथास्मिन्नेव प्रस्तारे शोभानामकं वृत्तं ग्रन्थान्तरादाकृष्य लिख्यते-'रसाश्वाश्चैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत्' ।
यत्र रसैः षड्भिः, अश्वैः सप्तभिः पुनस्श्वैविरचितविरतिः, अथ च मेघविस्फूर्जिता चेत् यगणमगणानन्तरं नगणद्वयगुरुजठरा भवति । शेष समानं यत्र तच्छोभानामकं वृत्तं भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org