SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (२) [२६१ च करपादं संभृत्य गृह्यते अन्तरन्योन्यं निलीयते ॥ यथा वाणीभूषणे-'जय मायामानवमूर्ते दानववंशध्वंशव्यापारी बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसनकर्मा गोगोपीगोपानन्दी वलिलक्ष्मीनाशनलीलावामनदैत्यश्रेणीनिष्कन्दी ॥' उट्टवणिका यथा-15, 5s, us, 55, 05, 5, 555, 55, १९x४-७६ ॥ शंभुनिवृत्तः ॥ अथैकोनविंशत्यक्षरप्रस्तार एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्तेतत्र प्रथमं मेघविस्फूर्जिताछन्दः-'रसर्वश्वैय्मौ न्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात्' । यत्र रसैः षड्भिः, ऋतुभिः, षड्भिरेव, अश्वैः सप्तभिः कृतविरतिः, अथ च टमौ यगणमगणौ, अथ च न्सौ नगणसगणौ, रगणद्वयगुरुयुतौ चेद्भवतस्तदा मेघविस्फूर्जिताछन्दः स्यादिति ॥ यथा कदम्बा मोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्रा कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः । निशानृत्यद्विद्युत्प्रसरविलसन्मेघविस्फूर्जिताश्चेत्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मान्न किंचित् ॥' यथा वा 'उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः कुहूकण्ठी कण्ठीरवरलवत्रासितप्रोषितेभाः । अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्लीचलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥' इति राक्षसकविकृतं दक्षिणानिलवर्णनम् ॥ उट्टवणिका यथा-155, 55s, III, IIS, 55, 55, 5, १९x४७६ ॥ मेघविस्फूर्जिता निवृत्ता ॥ अथ छाया छन्द:-'भवेत्सैवच्छाया तयुगलयुता स्याद् द्वादशान्ते यदि' भोः शिष्याः, सैव मेघविस्फूर्जितैव यदि द्वादशान्ते यदि द्वयान्ते सगणान्त इति यावत् । तत्र रेफयुगस्थाने तयुगलयुता तगणद्वयसहिता । आदेशन्यायेनेति भावः । विरतिश्च सैव । शेषं समानम् । यत्र भवेत्तच्छायानामकं छन्दो भवतीति ॥ यथा 'अभीष्टं जुष्टो यो वितरति लसद्दोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नः स्तबकिततनुश्चित्रांशुकालम्बितः । न यस्याङ्ग्रेश्छायामुपगतवतां संसारतीव्रातपस्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ।। उट्टवणिका यथा-155, 555, III, Is, 51, 551, 5 १९x४७६ ॥ छाया निवृत्ता || . अथ सुरसाछन्दः-'म्रो भनौ यो नो गुरुश्चेत् स्वरमुनिकरणैराह सुरसाम्' भोः शिष्याः, यत्र नौ मगणरगणौ, अथ च भ्रौ भगणनगणौ भवतः, ततो यो यगणः, ततो नो नगणः, अनन्तरं गुरुश्चेत् । अथ च-स्वरैः सप्तभिः, मुनिभिः सप्तभि, करणैः पञ्चभिः कृतविश्रामां सुरसामाह नागराज इति शेषः ॥ यथा 'कामक्रीडासतृष्णो मधुसमयसमारम्भरभसात्कालिन्दीकूलकुञ्ज विहरणकुतुकाकृष्टहृदयः । गोविन्दो बल्लवीनामधररससुधां प्राप्य सुरसां शङ्के पीयूषपानप्रभवकृतसुखं व्यस्मरदसौ ॥' उट्टवणिका यथा-555, 55, 51, III, 155, 1, 5, १९४४%D७६ सुरसा निवृत्ता ।। अथ फुल्लदामच्छन्दः भोः शिष्याः, यत्रादौ मो मगणः, ततो गौ गुरुद्वयम्, ततश्च नौ नगणद्वयम्, ततोऽपि तौ तगणौ भवतः, ततो गौ गुरुद्वयं भवति । किंच-शरहयतुरगैः पञ्चसप्तसप्तभिः पूर्वविपरीतैविरचितविरतिकं फुल्लदामनामकं प्रसिद्धं विख्यातं वृत्तं भवतीति वित्त ॥ यथा शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं हृष्यच्चेतोभिस्त्रिदिववसतिभिर्कोमसंस्थैविमुक्तम् । मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं मौलौ दैत्यारेन्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥' उट्टवणिका यथा-55s, ss, III, II, 551, 551, 55, १९x४=७६ ॥ फुल्लदाम निवृत्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy