________________
२६०]
प्राकृतपैंगलम् हे सुन्दरि, प्रथम स्थापयित्वा द्विजवरयुगलम् चतुर्लघुकगणयुगं मध्ये करतलं कुरु पुनरपि द्विजवरयुगलम् । एवं कृते मध्यतः करतलं कुरु सरसान् गणान्विमलानतिविशदान् सुण्णि श्रुत्वा मनोगतिः स्थाप्यते निश्चलीक्रियते तत्र तां विमलमतिरुरगपतिः पिङ्गलश्चन्द्रमालामिति कथयति ॥ भूषणेऽप्युक्तम्-'द्विजवरगणयुगमुपधाय परिकलय करमथ नगणयुगलमिह गन्धयुगमनुविहर । फणिनृपतिभणितमिति चन्द्रमिदमिति शृणुत सकलकविकुलहृदयमोदकरमवत नुत ॥'
१९१. चन्द्रमालामुदाहरति-जहा (यथा)
काचिदतिनिसृष्टार्था दूती कामपि प्रोषितपतिकामाह-हे सखि, अमृतकरस्य पीयूषभानो: किरणान्धारयति । ओषधीनाथत्वात्तस्य। तादृशं फुल्लबहुकुसुमं नानाविधसुरभिप्रसूनं वनमिदं जातमित्युद्दीपनम् । किंच कामोऽप्यवसरं प्राप्य कुपितो भूत्वा प्राकृते पूर्वनिपातानियमाद्वहटु (?) भाषाकृतयमकानुरोधाद्वा विन्यासः । वस्तुतस्तु मदनोऽतिरोषणो भूत्वा शरान्सुलभकुसुमत्वात्कौसुमत्वात्कौसुमानेव बाणान्निजे धनुषि स्थापयित्वा धरइ धारयति । अर्थाद्धनुस्तादृशमायोजितकाण्डमण्डलीभूतकोदण्डं निजबाहुदण्डेन धृतवानिति भावः । अपि च पिकोऽपि खइ रौति पञ्चमं कूजतीत्यर्थः । अतोऽयं समयो णिक परमरमणीय इत्यर्थः । अतश्च हे सखि, तवापि हृदयं किं स्थिरम् । अपि तु स्थिरमिति काक्वा । गमितानि दिनानि न पुनर्मिलन्ति । किं च सखि, प्रियो भर्ता निकटे नास्त्यतः परमं सुखमिति भावः । अत एवोक्तमभियुक्तेन-'मेघच्छन्ने दिवसे दुःसंचारासु नगरवीथीसु । भर्तुविदेशगमने परमसुखं जघनचपलायाः॥' इति ॥ यथा वा[णीभूषणे]-'अनुपहतकुसुमरस तुल्यमिदमधरदलममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति तदपि तव रतिवलितमेत्य वनतटमटति ॥' उट्टवणिका यथा-II, II, III, IIS, II, III, १९x४७६ ॥ इति चन्द्रमाला निवृत्ता ॥
१९२. अथ धवलाच्छन्दः
हे युवति, विमलमतिर्वासुकि: पिङ्गलो महीतले करोति धवला धवलाख्यं वृत्तमिति । तत्त्वं शृणु यत्रादौ हे रमणि, स्थापयित्वा सरसगणान् पदे पदे पतितांस्तानाह-दिअइ [ति] द्विजगणांश्चतुर्लघुकांश्चतुरश्चतुष्पदे (धां) फणिपतिः सही सत्यं भणति पठतीत्यर्थः । द्विजगणचतुष्टयपाठानन्तरं कमलगणो गुर्वन्तः सगणः करः पाणिः 'कमल हत्थम्' इत्यत्रैवोक्तत्वात्स देयः । हे सरसमानसे सुमुखि, एवमुक्तप्रकारेण गणसंनिवेशो यत्र तद्धवलनामकं छन्दः वही कथ्यते इत्यर्थः ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणत्रि (?) तयमिह हि नगणयुगलकं विमलवलयमपि च कलय सकलजनसुखम् । फणिपतिवरभणितममलधवलमिह हितं विमलकविकुलहदि वलितमिति भुवि वलितम् ॥'
१९३. धवलामुदाहरति-जहा (यथा)
काचित्स्वयंदूती पथिकासक्ता तमाह-तरुणस्तरणिः सूर्यः तपति । धरणी प्रचण्डमार्तण्डकरप्रकरसंपर्कात्क्षितितलमतितप्तमित्यर्थः । किंच-पवनः खरो वहति । निकटे जलं च नास्ति । महामरुस्थलं जनजीवनहरमिदं विद्यते मारवं वर्मेति शेषः । दिशो हरितोऽपि तिग्ममरीचिनिचयसंयोगाच्चलन्तीव । अतो हृदयं कम्पते । अहमेकला वधूः, गृहे च प्रियः स्वामी नास्ति । हे पथिक, शृणु तव मनः कुत्रापीच्छति । स्थातुमिति शेषः । निवासं कर्तुं चेन्मनस्तव विद्यते तदात्रैवास्स्वेति वाक्येन व्यज्यते इति ।। यथा वा[णीभूषणे]'उपगत इह सुरभिसमय इति सुमुखि वदे निधुवनमधि सह पिब मधु जहि रुषमपदे । कमलनयनमनुसर सखि तव रभसपरं प्रियतमगृहगमनमुचितमनुचितमपरम् ॥' उट्टवणिका यथा-II, IIm, mIm, IIS, १९x४७६ ॥ धवला निवृत्ता ॥
१९४. अथ शंभुच्छन्द:
हे सुपिअं सुतरां प्रिय शिष्य, अव इदानी लोकानां ए एतच्छन्दो भण येन शंभुच्छन्दसा मनोमध्ये सुखं संवृत्तम् । तत्र अग्रे प्रथमं हस्तं सगणं देहि । कीदृशं हस्तम् । कुन्तीपुत्रसंयुक्तं गुरुद्वयसहितमित्यर्थः । ततोऽग्रे एवं गणं देहि सगणं गुरुद्वययुक्तं पुनर्देहीत्यर्थः । ततश्च द्वौ शरौ लघुद्वयं देहि । अन्ते सत्ता सप्त हारा गुरवो देया इत्यर्थः । एवं च पदे एकोनविंशत्यक्षराणि द्वात्रिंशन्मात्राश्च । त्रयोदशगुरूणां द्विगुणाभिप्रायेण षड्विंशतिः, रससंख्या लघवश्च । संभूयेति प्रकारेण द्वात्रिंशन्मात्रा पतिता यत्र तदिदं शंभुनामकं छन्दो भवतीति विद्धि ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कुरु पाणि कंकणयुग्मालंकृतमग्रे रत्नं हारं च चरणं सन्नूपुरसंयुक्तं कुरु कर्णं भ्राजत्ताटङ्कम् । रसनामायोजय मञ्जीद्धयमेवं शंसवृत्तान्तं भुवि कान्तं गौरि चिरं संभावय तन्नागाधीशेनोक्तम् ॥
१९५. शंभुमुदाहरति-जहा (यथा)
कश्चित्कविः शीतभरं वर्णयतिः-अनेन शीतकालेन शीतवृष्टिस्तथा कृता यथा जीवो गृहीतः । बाला वृद्धाश्च कम्पन्ते । किंच वाति पाश्चात्यो वातः । सर्वा दिश आच्छादयन्ती कायेषु लगति । यद्वा-काअ मिहीकार्थे देशी । तत्र सर्वा दिशः आच्छादायन्ती मिहिका लगति । यदा-जाड्यं (झञ्झावातः सवृष्टिकः) रुष्यति प्रबलं भवति तदा चिन्ता भवति सदा अग्निः पृष्ठे चेत्तिष्ठति । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org