SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (२) [२५९ ऋतुभिः षड्भिञ्च विरतिर्यत्र तच्छार्दूलललितं छन्दो भवतीति । यथा कृत्वा कंसमृगे पराक्रमविधि शार्दूलललितं यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदरम् । संतोषं परमं च देवनिवहे त्रैलोक्यशरणं श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः ॥ उद्रवणिका यथा-555, 15, 151, ||5, 551, 15, १८x४-७२ ॥ शार्दलललितं निवृत्तम् । अत्रापि प्रस्तारगत्याष्टादशाक्षरस्य लक्षद्वयं द्विषष्टिसहस्राणि चतुश्चत्वारिंशदुत्तरं च शतं २६२१४१ भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदा विशालबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य स्वयमूहनीया इत्यलं पल्लवेन । १८६. अथैकोनविंशत्यक्षरप्रस्तारे शार्दूलविक्रीडितं छन्द: भोः शिष्याः, यत्र प्रथमं मो मगणः, ततः सो सगणः, ततो जो जगणः, ततः सो सगणः, ततो जो जगणः, ततोऽपि सगण एव, अनन्तरं तगणः, ततः तो तगणः, समन्तगुरवो सम्यगन्ते गुरुर्येषामेवं षड्गणा यत्र । अत एवैकोनविंशतिवर्णाश्चतुःपदे षट्सप्ततिः पतन्ति । किं च पद एकादश गुरवः, अष्टौ लघवः, पदचतुष्टये चतुश्चत्वारिंशद्गुरवो द्वात्रिंशल्लघवः, एतस्य छन्दस: पदचतुष्टयस्य मात्रापिण्डसंख्या विंशत्युत्तरशतमात्रात्मिका भणिता। एतदुक्तं भवति-चतुश्चत्वारिंशद्गुरूणां द्विगुणाभिप्रायेणाष्टाशीतिर्मात्राणां यत्र निष्पन्ना द्वात्रिंशच्च-लघवो विद्यन्त एव, संभूयैक(व) विंशत्युत्तरशतमात्रात्मकम् अर्क(१२)मुनि(७)विश्राममिदं शार्दूलविक्रीडितमिति साटकं पिङ्गलकविर्जल्पति तत् मुणो जानीत इत्यर्थः ॥ अथ चैकस्मिश्चरणे एकादशगुरूणां द्विगुणाभिप्रायेण द्वाविंशतिः कलाः, लघवश्चाष्टौ, इति संभूय त्रिंशतक्लाः, तच्चतुष्केणापि प्रोक्तैव कलापिण्डसंख्या भवतीति यथा-३०+३०+३०+३०=१२० ।। तथा च छन्दोमञ्जर्याम्'अश्वैिर्यदि मः सजौ सततगा: शार्दूलविक्रीडितम्' इत्युक्तम् ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णः कुण्डलसंगतः करतलं चामीकरणान्वितं पादान्तो रखनूपुरेण कलितो हारौ प्रसूनोज्ज्वलौ । गुर्वानन्दयुतो गुरुय॑ति भवेत्तन्नूनविंशाक्षरं नागाधीश्वरपिङ्गलेन भणितं शार्दूलविक्रीडितम् ॥' १८७. शार्दूलसाटकमुदाहरति-जहा (यथा) कर्पूरमञ्जरीसाटके देवीनियुक्ता विचक्षणा राजानं श्रावयन्ती वसन्तवर्णनानन्तरं दक्षिणानिलमुपवर्णयति-ये दक्षिणानिला: प्रथम लङ्कागिरिमेखलातस्त्रिकूटाचलकटकात् स्खलिताः तदनन्तरं संभोगेन निधुवनेन खिन्नानामुरगीणां स्फारोत्फुल्लफणावलीकवलनेन पानेन दरिद्रत्वं मन्दत्वं प्राप्ताः, त एवेदानीं मधुसमये मलयानिलाः विरहिणीनां नि:श्वासैः सह संपकिणः सन्तः शिशुत्वे सति तारुण्यपूर्णा इव झटिति बहला जाताः ॥ उट्टवणिका यथा-555, 5, 151, ||s, 551, 551, 5, १९x४७६ ॥ यथा वाणीभूषणे]-'सौमित्रे किमु मृग्यते प्रतिलताकुजं कुरुङ्गेक्षणा हन्तैतद्विपिने मनागपि न वा नेत्रातिथिमैथिली । एणी निस्त्रपमीक्षते मधुकरश्रेणी समुज्जृम्भते निःशङ्ख चमरी चरत्यपि निरातङ्कं पिकी गायति ॥' । १८८. अथ प्रकारान्तरेण शार्दूललक्षणमेव लक्षयति हे मुग्धे, यत्र प्रस्तारे क्रियमाणे प्रथनं पूर्वोक्तरीत्यैव त्रयश्चामरवर्णा वर्णोज्ज्वला: श्वेतवर्णाश्चामरपक्षे, गुरुपक्षे-'वरक्षरैरुज्ज्वला मनोहरा गुरवस्त्रयो दृश्यन्ते । तच्चेअ तदनन्तरं मगणानन्तरमित्यर्थः । लहुविण्णि लघुद्वयम्, तथा चामर एको गुरुः, तेन सगणो भवतीत्यर्थः । तत उत्तिष्ठतो गन्धुग्गुरे लघुगुरु तदनन्तरं तिण्णे दिण्णसु गन्धु त्रीन् गन्धांल्लघून्देहीत्यर्थः । ततो वे चामरं चामरद्धयं गुरुद्वयं रेहन्ता रेखान्तं लघ्वन्तं देहीत्यर्थः । एवमष्टादश वर्णाः तस्यान्ते फणिवण्ण करणे गुरुर्वर्ण: करणीयः । एवं तत्र प्रस्तारः, तच्छार्दूलसाटकं मुणे जानीहीत्यर्थः ॥ १८९. जहा (यथा) कर्पूरमञ्जरीसाटकस्थं भैरवानन्दसमाकृष्टकर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम्-यस्या धौताञ्जनत्वाच्छोणमारक्तं कोकनदानुकारि लोचनयुगम्, अथ च यस्या मुखं लग्नान्यलकाग्राणि यत्र तादृशम् किं च हस्तालम्बितकेशपल्लवचये यस्या बिन्दवो घूर्णन्ते। अपि च-यदैवैकं सिचयाञ्चलं निवसितं परिधृतमासीत् तं तथै(दै)वार्द्रभावाल्लग्नचेलाङ्गयष्टिः स्नानकेलिस्थिता जलक्रीडापरायणा अद्भुतानामाश्चर्यरसानामेका जननी सकललोकविस्मयभूमिरियं कुन्तलाधिपकन्यका कर्पूरमञ्जरी अमुना प्रत्यक्षस्थितेन योगीश्वरेण कौलिकवरेण भैरवानन्देनानीता दक्षिणापथस्थवैदर्भनगराद्ध्यानवर्त्मना समाकृष्टेत्यर्थः ॥ यथा वा-'गोविन्दं प्रणमोत्तमाङ्गरसने ते (तं) घोषयाहर्निशं पाणी पूजय तं मनः स्मर पदे तस्यालयं गच्छतम् । एवं चेत्कुरुथाखिलं मम हितं शीर्षादयस्तध्रुवं न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ।' उट्टवणिका यथा-555, ॥, 5, 1, 5, , 555, 1, 5, 5, I, 5, १९x४७६ ॥ शार्दूलविक्रीडितं निवृत्तम् ॥ १९०. अथ चन्द्रमालाच्छन्दः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy