________________
२५८]
प्राकृतपैंगलम् तीक्ष्णश्चक्षुःकटाक्षो यस्याः सेवमेवंविधा सुन्दरी कस्य सुकृतिनः पुरुषस्य गेहं मण्डयतीति तादृशीति प्रेक्षस्व तावदिति तद्रूपमुपवर्णयन्तं वयस्यं प्रति कस्यचिद्वचनमिति ॥ यथा वा[णीभूषणे]-'कोकिला कलकूजितं न शृणोषि संप्रति सादरं मन्यसे तिमिरापहारिसुधाकर न सुधाकरम् । दूरमुज्झसि भूषणं विकलासि चन्दनमारुते कस्य पुण्यफलेन सुन्दरि मन्दिरं न सुखायते ॥' उट्टवणिका यथा-515, ॥5, 1, 5, 1, 5, , 5, 1, 5, ।, 5, १८४४=७२ ॥ चर्चरी निवृत्ता ॥
अथाष्टादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं कुसुमितलतावेल्लिताछन्द:-'स्याद्भूतावश्वैः कुसुमितलतावेल्लिता म्नौ नयौ यौ' ।
यत्र भूतैः पञ्चभिः ऋतुभिः षड्भिः, अश्वैः सप्तभिश्च विश्रामो भवति । अथ च म्तौ मगणतगणौ, अथ च नयौ नगणयगणौ, अनन्तरं यौ केवलौ यगणावेव भवतः । षड्भिर्गणैरष्टादश वर्णाः पदे पतन्ति यत्र तत्कुसुमितलतावेल्लितानामकं छन्दो भवति ॥ यथा
कीडत्कालिन्दीललितलहरीवाहिभिर्दाक्षिणात्यैतिः खेलद्भिः कुसुमितलता वेल्लिता मन्दमन्दम् ।
भृङ्गालीगीतैः किसलयकरोल्लासितैास्यलक्ष्मी तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार ।। उट्टवणिका यथा-555, 551, III, 155, 155, 155, १८x४=७२ ॥ यथा वा-'गौडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम्' इत्यादि वाग्भटचिकित्साग्रन्थे ॥ कुसुमितलतावेल्लिता निवृत्ता ॥
अथ नन्दनछन्दः-'नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम्'
यत्र नगणजगणभगणजगणरगणै रेफेण रगणेन सहितैरेतैः षड्भिर्गणैः अथ च शिवैरेकादशभिः, ततो हयैः सप्तमिः, विश्रामो यत्र तन्नन्दनमिति छन्दो भवतीति ॥ यथा
तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं मधुरिपुपादपङ्कजरज:सुपूतपृथ्वीतलम् ।
मुरहरचित्रचेष्टितकलापसंस्मारकं क्षितितलनन्दनं व्रज सखे सुखाय वृन्दावनम् ॥ उद्दवणिका यथा-11, ISI, SI, ISI, SIS, SIS, १८x४-७२ ॥ यथा वा-'अकृत धनेश्वरस्य युधि यः समेतमायोधनम्' इति भट्टिकाव्ये ॥ नन्दनं निवृत्तम् ॥ । अथ नाराचछन्दः-'इह ननरचतुष्कसृष्टं तु नाराचमाचक्षते'
भोः शिष्याः, इहाष्टादशाक्षरप्रस्तारे नान्तगणद्वयरगणचतुष्टयाभ्यां सृष्टम्, अथ च दिनकररसविश्राम छान्दसीया नाराचमित्याचक्षते ॥ षोडशाक्षरप्रस्तारे नराचः, अत्र तु नाराचः, इत्यनयोर्भेदः ॥ यथा
दिनकरतनयातटीकानने चारुसंचारिणी श्रवणनिकटकृष्टमेणेक्षणा कृष्ण राधा त्वयि ।
ननु विकिरति नेत्रनाराचमेषातिहच्छेदनं तदिह मदनविभ्रमोद्घान्तचित्तां विधत्स्व द्रुतम् ॥ उद्दवणिका यथा-II, III, 515, 15, 15, 15, १८x४-७२ ॥ यथा वा-'रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियाम्' इत्यादि रघौ ॥ नाराचो निवृत्तः ॥
अथ चित्रलेखाछन्दः-'मन्दाकांता ययुगलजठरा कीर्तिता चित्रलेखा'
भोः शिष्याः, सप्तदशाक्षरप्रस्तारे सम(न)न्तर्गतमन्दाकान्ताछन्दसि यत्र यगणयुगले अर्थाद् गुरुद्वयस्थाने । (यस्या) एवंविधं जठरं यस्याः । तथा च गुरुद्वयस्यादावेको लघुरधिको दातव्यः । तेन ययुगलजठरा अन्त:स्थितयगणा चेत्स्यात् तदा सैव चित्रलेखा कीर्तिता । एवं च-मगणभगणनगणयगणत्रयैरम्बुधि(४)हय(७) मुनि(७)भिर्विरचितविरतिश्चित्रलेखेति फलितोऽर्थः ॥ यथा
शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासीदाकृष्येदं व्रजयुवतिसमा वेधसा सा व्यधायि ।
नैताक्चेत्कथमुदधिसुतामन्तरेणाच्युतस्य प्रीतं तस्या नयनयुगमभूच्चित्रलेखाद्भुतायाम् ॥ उट्टवणिका यथा-555, 5, II, 155, 155, 155, १८४४७२ ॥ चित्रलेखा निवृत्ता ।। अथ शार्दूलललितं छन्दः-'म: सोजः सतसा दिनेशऋतिभिः शार्दूलललितम्' भोः शिष्याः, यत्र प्रथमं मगणः, ततः सगणः, ततो जगणः, ततः सतसाः सगणतगणसगणा भवन्ति । दिनेशैदशभिः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org