________________
परिशिष्ट (२)
. [२५७ उट्टवणिका यथा-555, 50, II, sis, Is, 1, 5, १७४४६८ || भाराकान्ता निवृत्ता ॥
अत्रापि प्रस्तारगत्या सप्तदशाक्षरस्यैकं लक्षमेकत्रिंशत्सहस्राणि द्विसप्ततिश्च १३१०७२ भेदाः । तेषु कियन्तो भेदा उक्ताः शेषभेदाः सुधीभिः प्रस्तार्याकरादुदाहर्तव्याः । इत्यलमतिविस्तरेण ॥
१८०. अथाष्टादशाक्षरप्रस्तारे मञ्जीराछन्दः
भोः शिष्याः, यत्र मन्था मस्तके । आदावित्यर्थः । तत्र त्रयः कुन्तीपुत्राः कर्णा गुरुद्वयात्मकागणा दीयन्त इत्यर्थः । ततः पादे एकं हारं गुरुं ततो हस्तः सगणः, तदन्ते दुण्णा कङ्कणु द्विगुणः कङ्कणो गुरुद्वयम्, ततो गन्धयुग्मं लघुद्वयं संस्थाप्यते, यत्र पादान्ते भव्याकाराश्चत्वारो हारा गुरवः सज्जीकृताः प्राप्ता यत्र, एतन्मञ्जीरानामकं छन्दः शुद्धकाय: सर्पराजः पिङ्गलो जल्पतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'आदौ कृत्वा कर्णं कुण्डलयुक्तं हारयुगं दत्त्वाथो कुर्यात्ताटङ्कं पादे कुरु सन्मञ्जीरयुगाभ्यां युक्तम् । कृत्वा तातं कुन्तीपुत्रसमेतं वै गुरुयुग्मं दत्त्वा मञ्जीरा सा नागाधीशनिदिष्टा राजति सैषा वक्त्रे ॥
१८१. मञ्जीरामुदाहरति-जहा (यथा)
काचित्प्रोषितपतिकां सखीमाह-हे सखि, नीलाकारा मेघा गर्जन्ति । उच्चारावा मयूराः शब्दं कुर्वन्ति अतिदीर्घा केकामुच्चारयन्तीत्यर्थः । स्थाने स्थाने पिङ्गदेहा विद्युद्राजते । हाराः स्रजः कियन्ते । यतः नीपाः कदम्बा: फुल्लाः । भ्रमरा मधुकरास्तेष्वेव गुञ्जन्ति । किं च दक्षो मारुतो वाति । अतो हंहे ह) नीचे कथं क्रियते आगता प्रावृट् कान्तो नागतः, अतः क्रीड तावत् । मनोभिलषितालिङ्गननिधुवनादिकं यथा भवति तथाभिसारयास्मिन्नवसरे कंचन युवानमिति भावः ॥ यथा वाणीभूषणे]'प्रौढध्वान्ते गर्जद्वारिदधाराधारिणि काले गत्वा त्यक्त्वा प्राणानग्रे कौलसमाचारानपि हित्वा यन्ती । कृत्वा सारङ्गाक्षी साहसमुच्चैः केलिनिकुञ्ज शून्यं दृष्ट्वा प्राणत्राणं भावि कथं वा नाथ वद प्रेयस्याः ॥' उट्टवणिका यथा-55, 55, 55, 5, 15, 5, 5, I, ।, 5, 5, 5, 5, १८४४७२ ॥ मञ्जीरा निवृत्ता ॥
१८२. अथ क्रीडाचन्द्रछन्दः
भोः शिष्याः, यत्रेन्द्रासनमादिलघुः पञ्चकलो गणोऽर्थाद्यगणः स एवैक: पादे पादे भवति षड्भिर्यगणैः पाद इत्यर्थः । पादे चाष्टादश वर्णाः सुखयन्ति । दण्डा लघवः स्थाने स्थाने भवन्ति । यत्र मात्राश्च दश त्रिगुणितास्त्रिंशत् पदे भवन्ति तन्मात्राभिनिबद्धं क्रीडाचन्द्र इति छन्दः फणीन्द्रः पिङ्गलो भणतीति वित्त || भूषणे तु प्रकारान्तरेणोक्तम्-'ध्वजं चामरं गन्धको रसः कुण्डलं तोमरं च तथा तालताटङ्कतूर्याणि शेषे गुरुद्वन्द्वमत्र । तत्रा क्रीडया चिह्नितं चन्द्रमेतद्भुजंगाधिराजः कविश्रेणिविस्मापकं सर्वलोकप्रियं स जगाद ।।'
१८३. क्रीडाचन्द्रमुदाहरति-जहा (यथा)
कश्चित्कविर्वीरहम्मीरस्य भीषणसमराङ्गणप्रयाणमनुवर्णयति-यत्र समरसीमनि भूता वेतालाश्च नृत्यन्ति गायन्ति खादन्ति च कबन्धानपमूर्धकलेवरान् महावीरान् । यत्र च शिवानां फेरवाणां स्फारा अतिदीर्घाः फेक्कारहक्काः फेत्कारशब्दाश्चलन्ति प्रसरन्ति । अत एव कर्णरन्ध्राणि स्फुटन्ति । किंच कायस्रुट्यति, मन्था मस्तकं स्फुटति, कबन्धाः शिरोरहिता वीरा नृत्यन्ति हसन्ति च । अत्र तु कबन्धा नृत्यन्तीति बहुवचनमहिम्ना स्फुटमेवातिभीषणत्वं समराङ्गणस्येति भावः । तहाँ तादृशातिभयजनकरणभूमौ वीरहम्मीर: संग्राममध्ये त्वरितं युक्तः प्रविष्ट इत्यर्थः ॥ उट्टवणिका यथा-|ऽऽ, 155, 155, 155, 155, 155, १८४४=७२ ॥ क्रीडाचन्द्रो निवृत्तः ॥
१८४. अथ चर्चरी छन्दः
हे सुन्दरि, यत्रादौ रगणो मध्यलघुको गणो भवति, ततो हस्तः सगणः, ततः काहलो लघुः, ततस्ताल आदिगुरुरित्रकलो मध्ये दातव्यः, तदनन्तरं शब्दो लघुः, ततो हारा गुरुः ततो विण्णवि द्वावेव शब्दहारौ पततः, ततो वे वि द्वावेव काहलौ लघू, ततो हारं गुरुं पूरय । तदनन्तरं शङ्खो लघुः, ततः शोभनः कङ्कणो गुरुरेव यत्र तत्सर्वलोकविबुद्धां समस्तच्छान्दसिकप्रसिद्धां मनोमोहनां श्रुतिसुखत्वाच्चर्चरीनामकं छन्दो नागराजः पिङ्गलो भणतीति विद्धि ।। भूषणे तु प्रकारान्तरेणोक्तम्-'हारयुक्तसुवर्णकुण्डलपाणिशङ्कविराजिता पादनूपुरसंगता सुपयोधरद्धयभूषिता । शोभिता वलयेन पन्नगराजपिङ्गलवर्णिता चर्चरी तरुणीव चेतसि चाकसीति सुसंगता ॥' तरुणीपक्षेऽर्थः स्पष्टः ॥
१८५. चर्चरीमुदाहरति-जहा (यथा)
कश्चित्कविः परमरमणीयां कामपि कामिनीमनुवर्णयतिः-यस्याः पादे नूपुरं झणझणायते । कीदृशम् । हंसशब्दवत्सुशोभनम् । यस्याश्चैतस्याः स्तोकस्तोकयोरभिनवोत्थितयोः स्तनयोरग्रे मनोहरं मुक्तादाम नृत्यति । अपि च वामदक्षिणयोः पार्श्वयोर्बाण इव धावति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org