________________
२५६]
प्राकृतपैंगलम्
उट्टवणिका यथा-III, Is, 5, 55, 5, ISI, I, II यथा वा
'व्यधित स विधिर्ने नीत्वा ध्रुवं हरिणीगणाव्रजमृगदृशां संदोहस्योल्लसन्नयनश्रियम् ।
यदयमनिशं दूर्वाश्यामे मुरारिकलेवरे व्यकिरदधिकं बद्धाकाङ्क्षो विलोलविलोचनम् ।।' यथा वा-'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे' इत्यादि रघौ ॥ हरिणी निवृत्ता ॥ अथ वंशपत्रपतितं छन्दः-"दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ।
यत्र दिक्षु दशसु मुनिषु सप्तसु च विश्रामः, तथा भरनभनलगैः भगणरगणनगणभगणनगणलघुगुरुभिर्वंशपत्रपतिताख्यं छन्दो भवति ॥ यथा
'नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द मौक्तिकमिवोत्तममरकतगम् ।
एष च तं चकोरनिकरः प्रपिबति मुदितो वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥' 'संप्रति लब्धजन्मशतकैः कथमपि लघुनि' इति भारवौ ॥ वंशपत्रपतितेति केचित् । वंशवदनमिति शंभौ नामान्तरमुक्तमिति ।। उट्टवणिका यथा-50, 515, III, , III, I, 5, १७४४६८, वंशपत्रपतितं निवृत्तम् ।।
अथ नर्दटकं छन्दः-'यदि भवतो नजौ भजजलागुरु नर्दटकम्' यदि प्रथमं नजौ नगणजगणौ भवतः, ततो भगणजगणजगणलघवः, अथ च गुरुर्भवति यत्र तन्नर्दटकं छन्दः ।। यथा
'व्रजवनितावसन्तलतिकाविलसन्मधुपं मधुमथनं प्रणम्रजनवाञ्छितकल्पतरुम् ।
विभुमभिनौति कोऽपि सुकृती मुदितेन हृदा रुचिरपदावलीघटितनर्दटकेन कविः ॥' उट्टवणिका यथा-11, ISI, SI, II, 15, 1, 5, १७४४६८ ॥ यथा वा भागवते दशमस्कन्धे-'जय जय जह्यजामजितदोषगृभीतगुणाम्' इत्यादि ॥ नर्दटकं निवृत्तम् ॥
अथ कोकिलकं छन्द:-'हयऋतुसागरैर्यतियुतं वद कोकिलकम्'
हयाः सप्त, ऋतवः षट् सागराश्चत्वारः, तैर्विरतियुक्तमिदमेव कोकिलकमिति वृत्तं वदेति । अत्र च विश्रामकृतो भेदः, गणास्त एवेति विवेकः ॥ यथा
'लसदरुणेक्षणं मधुरभाषणमोदकरं मधुसमयागमे सरसि केलिभिरुल्लसितम् । अतिललितद्युति रविसुतावनकोकिलकं ननु कलयामि तं सखि सदा हृदि नन्दसुतम् ॥'
उद्दवणिका सैव, यतिकृत एव भेदः ॥ कोकिलकं निवृत्तम् ॥ अथ हारिणी छन्दः-'वेदवश्वैर्मभनमयलागश्चेत्तदा हारिणी'
यदि प्रथमं वेदैः, तत ऋतुभिः, तदनन्तरमश्वैविरतिः, अथ च मभनमयला मगणभगणनगणमगणयगणलघवः, ततश्चेद्गो गुरुर्भवति, तदा हारिणी छन्दो भवतीति । यथा
यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम् ।
गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छदा सा कंसारेरजनि न कथं राधा मनोहारिणी ॥' उट्टवणिका यथा-555, SI, II, 555, Iss, I, 5, १७४४=६८ ॥ हारिणी निवृत्ता ॥ अथ भाराकान्ता छन्दः-'भाराकान्ता मभनरसला गुरुः श्रुतिषड्हयैः' यत्र मगणभगणनगणरगणसगणलघवः, अथ च गुरुयंत्र, श्रुतिषड्हयैविरतिश्च यत्र तद्भाराकान्ताछन्दः । यथा
'भाराकान्ता मम तनुरियं गिरीन्द्रविधारणात्कम्पं धत्ते श्रमजलकणं तथा परिमुञ्चति । इत्थं शृण्वन्नयति जलदस्वनाकुलबल्लवी संश्लेषोत्थं स्मरविलसितं गुरुं विलोक्य हरिः ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org