________________
परिशिष्ट (२)
[२५५ मालाधर इति छन्दो भणति जानीत तदिति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'द्विजवरगणान्वितो गजपतिः श्रिततूर्यवान्करतलपरिस्फुरत्कनककङ्कणेनान्वितः । सुरपतिगुरुश्रिया परिगतः समन्तात्सखे जयति भुवि वृत्तभूपतिरयं तु मालाधरः ।'
१७९. मालाधरमुदाहरति-जहा (यथा)
काचिद्रूती कान्तानुनयमनुगृह्णती नायिकामाह-मलयानिलो दक्षिणानिलो वहति । कीदृशः । विरहिणां चेतः संतापयति तादृशः संतापनः । किंच पिकोऽपि पञ्चमं कूजति । प्राकृते पूर्वनिपातानियमात् । फुल्लकिंशुकं वनं विकसितं नवपलाशं वनमपि विकसितम् । तरूणां पल्लवा अपि तरुणा नवीना जाताः । माधवी वासन्ती मल्लिका मधुरातिमनोहराभूत् । अतो हे सखि, नेत्रं वितर, अस्मिन्प्राणनाथे यतो माधवसमयोऽयं प्राप्त इति ॥ यथा वा[णीभूषणे]-'क्वचिदपि वयस्यया सह विनोदमातन्वती कतिपयकथारसैनयति वासरीयां रुजम् । सुभग तव कामिनी समधिगम्य सा यामिनीमनुभवति यामिनी मदनवेदनामन्ततः ॥' उट्टवणिका यथा-III, ISI, SII, 151, 55, 15, १७४४६८ ॥ मालाधरो निवृत्तः । अथ सप्तदशाक्षरप्रस्ताक्षर एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं शिखरिणी छन्दः-[वाणीभूषणे]
'ध्वजः कर्णो हारौ द्विजवरगणस्थो रसयुतः समुद्रो रत्नं च प्रभवति यदा सप्तदशभिः ।
भुजंगेन्द्रोद्दिष्टा विबुधहृदयाह्लादजननी रसै रुद्रैर्यस्या विरतिरिह सैषा शिखरिणी ॥' यगणमगणनगणसगणभगणलघुगुरुभी रसै रुदैश्च कृतयतिः शिखरिणीति फलितोऽर्थः । तदुक्तं छन्दोमञ्जर्याम्-'रसै रुद्वैश्छिन्ना यमनसभला ग: शिखरिणी' इति ॥ यथा
निविष्टायाः कोपाद्गुरुसदसि पङ्केरुहदृशः पदोपान्ते छायामुपनयति मूर्ध्नः प्रणयिना ।
तया चक्षुर्लीलाकमलरजसा दूषितमिति द्रुतं मुक्ता मुक्ताफलपरिणता बाष्पकणिकाः ॥' यथा
'कसदस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशोविलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ।
इति त्रस्योद्गोपानुचितनिभृतालापजनितं स्मितं बिभ्रद्देवो जगदवतु गोवर्धनधरः ॥' उद्दवणिका यथा-155, 555, II, ||s, s, I, 5, १७४४=६८ ॥ शिखरिणी निवृत्ता ॥ अथ मन्दाक्रान्ता छन्दः
'मन्दाक्रान्ता हरति हृदयं कर्णताटङ्कयुग्मा प्रोद्यद्भावा करतललसत्कङ्कणा शङ्कयुक्ता ।
हारोत्कृष्टा ललितवलया राववन्नूपुराभ्यां विभ्राजन्ती सकलहृदयाह्लादिनी कामिनीव ॥' कामिनीपक्षे स्पष्टोऽर्थः ॥ छन्दोमायाँ तु गणभेदेनोक्तम्-'मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्मम् ।' यत्र मो भगणः, ततो भनौ भगणनगणौ भवतः, ततोगौ गुरुद्वयं ययुग्मं यगणद्वयं च यत्र भवति, अम्बुधयश्चत्वारः, रसाः षट्, नगाः सप्त, एतेषु च विश्रामो यस्यां सा मन्दाक्रान्ता तन्नामकं वृत्तमिति ।। यथा
'कर्णाभ्यणे हितमवहिता वर्णयन्तश्चिरेण द्रागस्यन्तो हृदि कलुषितामानने शोणिमानम् ।
यान्तो भूमिं नयनपयसां बिन्दवो मानवत्याः पादाम्भोजप्रणतमधुना कान्तमुत्थापयन्ति ॥' उट्टवणिका यथा-55, 55, III, Is, 5, 1, 5, 5, I, 5, 5, १७x४=६८ ॥ मन्दाक्रान्ता निवृत्ता ।। अथ हरिणी छन्दः
द्विजवरमुखी भास्वद्रूपा सकुण्डलकर्णका, ललितवलया हारोत्कृष्टा पयोधरभूषिता ।
कनकरसनारावैर्युक्ता लसद्वरनूपुरा, हरति हरिणी केषां चित्तं न योषिदिवाधुना ।' योषापक्षेऽर्थः स्पष्टः । छन्दोमञ्जर्यां गणभेदेनोक्तम्-'नसमरसलैर्गः षड्वेदैर्हयैर्हरिणी मता' । नगणसगणमगणरगणसगणलघुगुरुभिः षभिर्वेदैश्चतुभिर्हयैः सप्तभिर्जातविश्रामा हरिणी तन्नामकं वृत्तमित्यर्थः ॥ यथा
सुरभिरजनी याता भूयः कृशो भविता शशी परभृतयुवा मूको भावी विरंस्यति पञ्चमः । कुसुमविशिखः संहर्ता स्वं धनुः पतिरेष्यति प्रियसखि परावृत्तं न स्याद्गतं मम जीवितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org