SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५४ ] प्राकृतपैंगलम् उवणिका यथा - III, 151, 51, 151, 515, 5 १६x४ = ६४ ॥ वाणिनी निवृत्ता ॥ अथ प्रवरललितं छन्द:--' यमौ नः स्त्रौ गश्च प्रवरललितं नाम वृत्तम्' यत्र यमौ यगणमगणौ । अथ च नगणः, ततः स्रौ सगणरगणौ भवतः, ततश्चेद्गुरुर्भवति तदा प्रवरललितं नाम वृत्तं भवति ॥ यथा 'भुजोत्क्षेपः शून्ये चलवलयझंकारयुक्तो मुधापादन्यासप्रकटिततुलाकोटिनादः । स्मितं वक्त्रेऽकस्माद् दृशि पटुकटाक्षोर्मिलीला हरौ जीयादीदृक्प्रवरललितं बल्लवीनाम् ॥' उवणिका यथा - ISS, ऽऽऽ, III, 15, 515, 5 १६x४ = ६४ ॥ प्रवरललितं निवृत्तम् ॥ अथ गरुडरुतं छन्द:- 'गरुडरुतं नजौ भजतगाः यदा स्युस्तदा' यदा नजौ नगणज्जगणौ भवतः, ततो भजतगाः भगणजगणतगणगुरवः स्युः, तदा गरुडरुतं नाम वृत्तं भवतीति ॥ यथा उणिका यथा - III, 151, 511, 151, 551, 5, १६x४ = | | गरुडरुतं निवृत्तम् ॥ अथ प्रस्तारान्त्यभेदमचलधृतिवृत्तमभिधीयते - 'द्विगुणितवसुलघुभिरचलधृतिरिति' । यत्र द्विगुणिता वसुलघवः षोडशापि वर्णा लघवोऽर्थाद्भवन्ति, तदचलधृतिरिति वृत्तं भवतीति लघ्वन्तेन नगणपञ्चकेति फलितोऽर्थः ॥ यथा— 'अमरमयूरमानसमुदे पयोदध्वनिर्गरुडरुतं सुरारिभुजगेन्द्रसंत्रासने । धरणिभरावतारविधिडिण्डिमाडम्बरः स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥' 'तरणिदुहितृतरुचिरतरवसतिरमरमुनिजनसुखविहितधृतिरिह । . मुररिपुरभिनवजलधररुचितनुरचलधृतिरुदयति सुकृतिहृदि खलु ॥' उट्टवणिका यथा—III, III, III, III, III, I, १६x४ = ६४ अचलधृतिर्निवृत्ता । अत्रापि प्रस्तारगत्या षोडशाक्षर पञ्चषष्टिसहस्राणि पञ्च शतानि षट्त्रिंशदुत्तराणि ६५५३६ भेदा:, तेषु कियन्तो भेदा लक्षिताः । शेषभेदास्तीक्ष्णमतिभिराकरान्निजबुद्धया वा प्रस्तार्य लक्षणीया इति दिक् ॥ १७६. अथ सप्तदशाक्षरप्रस्तारे पृथ्वीछन्दः भोः शिष्याः, यत्र पयोधरो जगणो मुखे स्थितः, तत एकः सगणः पुनरपि तथैव जगणसगणावेव तयोरग्रे स्थितावित्यर्थः । तथा च गन्धो लघुः सज्जीकृतः, ततो गुरुद्वयम्, ततो हारो गुरुः । पदे च चतस्रः कलाः । अथ च विंशतिः कलाः संभूय चतुर्विंशतिः । यत्र वसुभिर्ग्रहैश्च जातविश्रामं पृथ्वीनामकं छन्दो भवतीति मुणउ ज्ञेयमित्यर्थः । तथा च - जसद्वययगणलघुगुरुभिरष्टरन्ध्रकृतयतिः पृथिवीति फलितोऽर्थः । तदुक्तं छन्दोमञ्जर्याम् -' जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्'पयोधरयुता स्फुरत्कनकयुग्मताटङ्किनी सुवर्णरुचिकङ्कणा ललितभावसन्नूपुरा । सुगन्धरुचिरा लसच्छ्रवणरूपवत्कुण्डला भुजंगपतिवर्णिता हरति हन्त पृथ्वी मनः ॥' कर्णपर्यायत्वाच्छ्रवणस्य गुरुद्वयात्मको गणो गृह्यते ॥ १७७. पृथ्वीमुदाहरति--जहा (यथा) - कश्चित्कविः कस्याप्यगण्य [ पुण्य] पुञ्जस्य विलासिनो मदनविनोदसदनमुपवर्णयति - युवतिसहितमेतादृशं मन्दिरं रेहई शोभ इत्यर्थः । कीदृशम् । झणज्झणितमित्यनुकरणम् । तादृशं भूषणं यत्र । पुनः रणरणावित्यनुकृत्या तादृशः काञ्चीगुणो मेखलाकलापो यत्र तत्तथा । पुनः मदनकेलिलीलासरः श्रमापहारकत्वात् । कंदर्पकेलिसरसीत्वेनोपन्यस्तमित्यजहल्लिङ्गत्वेन सर इति व्याख्येयम् । पुनः निशासुखमनोहरं रजनीजनितालिङ्गननिधुवनान्तसुखजातालम्बनत्वेन परममनोहरमिति सहृदयवेद्यः पन्था इति ॥ यथा वा [णीभूषणे ] - 'क्षताधरतटी घनश्वसितमङ्गरागव्ययो दृशोरपि च शोणिमा भवति कारणादन्यतः । इदं तव परप्रियानिभृतसंगमव्यञ्जकं मुखे यदिदमञ्जनं रहसि चार्धचन्द्रं गले ॥' उट्टवणिका यथा - 151, 15, 151, 15, Iss, 1, 5, १७x४ = ६८ ॥ पृथ्वी निवृत्ता ॥ १७८. अथ मालाधरच्छन्दः भोः शिष्याः, यत्र प्रथमं दीयते विप्रश्चतुर्लघ्वात्मको गणः, तथापि भूपतिर्जगणः स्थाप्यते, ततश्चरणो भगणस्तृतीयः, तथा भूपतिर्जगणो दीयते, युगेनाधिको विमलोऽतिसुन्दरो गन्धो लघुः, ततो हारो गुरुर्यत्र तत्फणिणाहरा फणिव्याघ्रः फणिश्रेष्ठः पिङ्गलो Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy