________________
[२५३
परिशिष्ट (२) . १७४. अथ सर्वगुर्वात्मकं कलासंख्यवर्णकं प्रस्तारादिभूतं ब्रह्मरूपकं छन्द:
भोः शिष्या, जो यद् ब्रह्मरूपकं छन्दः अपरं ब्रह्मणो रूपमिव । वर्तते इति शेषः । ब्रह्मच्छन्दसोः साधर्म्यमाह-यच्छन्दः, ब्रह्म वा लोकानां वक्षसि बिम्बोष्ठे विद्युत्स्थाने दन्तेषु हंसस्थाने शिरसि सूद्याने ब्रह्मरन्ध्रे महापद्मवने वा णाऊ ज्ञातम् । तथा च छन्द इत्युच्चार्यमाणः शब्दस्तत्तत्स्थानं गमयतीति सहृदयैकगम्योऽर्थः ॥ अथ च शब्दस्य ब्रह्मरूपत्वात्तत्प्रोक्तस्थाने ज्ञातं मननशीलैर्मुनिभिरिति । किंच-कण्ठट्ठाणे कण्ठस्थाने कर्णस्थाने च सारस्थाने जिह्वायां मूलाधारे वा छन्दो वृत्तमुद्गायता 'अष्टौ स्थानानि वर्णानामुरः कण्ठशिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च ॥ इति पाणिनिकृतशिक्षोक्तरीत्या कथयता पन्नगपतिना पिङ्गलेन संमानितमिदं छन्दो ब्रह्मरूपकनामकं कर्णैर्गुरुद्वयात्मकगणैर्यत्सर्ववृत्तं निष्पन्नशरीरं तल्लोकानां व्याख्यातमिति ॥
१७५. ब्रह्मरूपकमुदाहरति-जहा (यथा)
कश्चिद्बन्दी कस्यचिन्नृपतेयुद्धमुपवर्णयति-उन्मत्ता वीररसाविष्टा उत्थितकोधा उपर्युपर्यहमहमिकया युध्यमानाः सन्तो मेनकारम्भादिभिर्नाथवरणे सदम्भाभिरप्सरोभिः अप्पाअप्पी अन्योन्यं मयायं वरणीयः, त्वया चायमिति बोध्यमानाः शक्तिछिन्नकण्ठाः कबन्धा मस्तकं पृष्ठमेव शेषो येषामेवंविधा अपि वीरा धावन्त इतस्ततः समराजिरे व्रजन्त: समग्रा एकत्रीभूय जायाग्रे मेनकारम्भादीनामग्रे लुब्धास्तद्दर्शनेप्सवो विस्मिता ऊर्ध्वमेव पश्यन्तोऽवतस्थिर इति वाक्यशेषः ॥ उट्टवणिका यथा-55, 55, 55, 55, 55, 55, 55, 55, १६x४६४ ॥ ब्रह्मरूपकं निवृत्तम् ॥
अथ षोडशाक्षर एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथममृषभगजविलसितं छन्द:-'भत्रिनगैः स्वराङ्गमृषभगजविलसितम्' ।
भ्रत्रिनगैर्भगणरगणनगणत्रयगुरुभिः सप्तनवविश्राममृषभगजविलसितं वृत्तमिति ।। यथा
'यो हरिरुच्चखान खरतरनखशिखरैर्दुर्जयदैत्यसिंहसुविकटहृदयतटम् ।
किंत्विह चित्रमेतदखिलमपहृतवत: कंसनिदेशहप्यदृषभगजविलसितम् ॥ 'गजतुरगविलसितम्' इति शंभावेतस्यैव नामान्तरमुक्तम् ॥ उट्टवणिका यथा-I, SIS, II, II, II, 5, १६x४=६४ ॥ ऋषभगजविलसितं निवृत्तम् ।।
अथ चकिताछन्दः-'भात्समतनगैरष्टच्छेदे स्यादिह चकिता' इह षोडशाक्षरप्रस्तारे भाद्भगणात्समतनगैः सगणमगणतगणनगणगुरुभिः अष्टच्छेदेऽष्टमाक्षरजातविश्रामैश्चकिताख्यं छन्दो भवतीति । यथा
'दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता यद्धजपरिघत्राता याता साध्वसविगमम् ।
दीव्यति दिविषन्माला स्वैरं नन्दनविपिने गच्छत शरणं कृष्णं तं भीता भवरिपुतः ।।' उट्टवणिका यथा-II, Is, sss, 551, III, 5, १६x४६४ ॥ चकिता निवृत्ता ॥ अथ मदनललिताछन्दः-'म्भौ नो म्नौ गो मदनललिता वेदैः षड्तुभिः'
यत्र म्भो मगणभगणौ । अथ च नो नगणः, ततो म्नौ मगणनगणौ भवतः प्रथमं चतुर्भिः ततः षड्भिः पुनरपि षभिरेव विरतिर्यत्र तन्मदनललिता छन्दः ॥ यथा
"विभ्रष्टस्रग्गलितचिकुरा धौताधरपुट म्लायत्पत्रावलिकुचतटोच्छ्वासोर्मितरला ।
राधात्यर्थं मदनललितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥' उट्टवणिका यथा-ऽऽऽ, I, II, Iss, III, 5, १६x४=६४ ॥ मदनललिता निवृत्ता ॥ अथ वाणिनी छन्दः-'नजभजरैः सदा भवति वाणिनी गयुक्तैः' नगणजगणभगणजगणरगणैः गयुक्तैर्गुरुसहितैः पञ्चभिरेतैर्गणैर्वाणिनीछन्दः ।। यथा
'स्फुरतु ममाननेऽद्य ननु वाणि नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् । भवजलराशिपारकरणक्षम मुकुन्दं सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम् ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org