________________
२५२]
प्राकृतपैंगलम् यत्रेति । तथा च–अत्रैवाष्टाक्षरप्रस्तारप्रस्तावेऽभिधीयमाने प्रमाणिकाछन्दोलक्षणे-'लहूगुरू णिरन्तरा पमाणि अट्ठ अक्खरा । पमाणिदूण किज्जए णराउ सो भणिज्जए।' इत्युक्तम् । तदव सिंहावलोकनन्यायेन संचारणीयमिति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्'ध्वजेन नायकेन कुण्डलेन यद्विभूषितं पयोधरेण वीणया शरेण पक्षिणाङ्कितम् । नराचवृत्तमत्र षोडशाक्षरं समीरितं मनीषिमण्डलीहितं फणीन्द्रपन्नगोदितम् ॥' इदमेव ग्रन्थान्तरे पञ्चचामरमिति नामान्तरम् । अत एव छन्दोमञ्जर्याम्-'प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्' इत्युक्तम् ।।
१६९. नराचमुदाहरति-जहा (यथा)
कश्चिद्बन्दी सङ्ग्रामाङ्गणमनुवर्णयति-योधाः सुभटाश्चलन्ति समरभूमावितस्ततः संचरन्ति । कीदृशाः । शत्रूणामहितानां क्षोभकाः । पुनः रणकर्माग्रेसराः, रणकर्मण्यधिका वा । ततश्च कृपाणबाणशल्यभल्लचापचक्रमुद्गराश्चायुधविशेषाश्चलन्तीत्यनेनैवान्वयः । पुनः कीदृशाः भटाः । पर्वताकारतुरगैर्मारणार्थं योधारः समन्ताद्वर्तुलीभूय धावनं तत्रासनवल्गासु पण्डिता अतिदक्षाः सादिन इत्यर्थः । पुनः प्राकृते पूर्वनिपातानियमात् दन्तदष्टप्रकृष्टोष्ठया तथा सेनया ध्वजिन्या मण्डिताः ॥ यथा वा[णीभूषणे]-'निशुम्भशुम्भचण्डमुण्डरक्तबीजघातिनी लुलायरूपदैत्यभूतघातपक्षपातिनी । नवीनपीनबद्धजालकालमेघसंनिभा चिरं चरीकरोतु नः प्रियं पिनाकिवल्लभा ।' उट्टवणिका यथा-151, ISI, ISI, SIS, II, 5 १६x४=६४ ॥ नराचो निवृत्तः ॥
१७०. अथ नीलच्छन्द:
हे रमणि, तन्नीलस्वरूपं नीलनामकं छन्दो लक्षं (?) जानीहीत्यर्थः (?) । यत्र पदे द्वाविंशतिर्मात्राः पञ्च भगणा गुर्वादिगणा: पदे पतन्ति, एतादृशेरैव पदैराश्रितमिति छन्दोविशेषणम् । अन्ते पञ्चभगणान्ते स्थितो हारो गुरुयंत्र ज्ञायते तदेतद्विपञ्चाशदधिकं कलाशतत्रयात्मकं ध्रुवं निश्चितमीदृशं रूपं मुणी ज्ञातव्यमित्यर्थः । एतदुक्तं भवति-चरणस्थितद्वाविंशतिमात्रात्मकमिदं नीलाख्यं वृत्तं चतुश्छन्दोभिप्रायेण षोडशचरणात्मकम् । तत्रैकस्य छन्दसश्चरणो द्वाविंशतिश्चतुर्गुणितोऽष्टाशीतिकलात्मकः । यथा-२२+२२+२२+२२८८ ॥ एवमष्टाशीतिकलात्मकचरणचतुष्टयेन द्विसमधिकपञ्चाशदुत्तरकलाशतत्रयात्मकमिदं नीलस्वरूपं भवतीति यथा-८८+८८+८८+८८=३५२ ॥ वाणीभूषणे तु प्रकारान्तरेण लक्षणं लक्षितम् 'तालपयोधरनायकतोमररत्नधरं पाणियुतं च विभावय भामिनि वृत्तवरम् । नीलमिदं फणिनायकगायकसंलपितं पण्डितमण्डलिकासुखदं सखि कर्णगतम् ।।'
१७१. नीलमुदाहरति-जहा (यथा)
कश्चित्कविः कर्णनरपतिप्रयाणमुपवर्णयति-विवर्धितक्रोधा योधाः सुभटाः सज्जिताः संनद्धा सन्तः क्षिपन्ति धनुः । अथ चवाहोऽपि पक्खरु संनद्ध इत्यर्थः । ततश्च स्फुरत्तनुर्वीररसावेशात् । एवं चमूनरनाथोऽपि चलितः । अनन्तरं च सुखगकराः करे कुन्तान्धृत्वा पत्तयोऽपि चलन्ति । एवं सुतरां सज्जीभूय कर्णनरेन्द्रे चलति सति धराः पर्वता अपि चलन्ति । पर्वतानां क्षोभोऽभूदिति भावः । यथा वा[णीभूषणे]-'सुन्दरि सुन्दरिपौ नतिशालिनि किं कुरुषे मानिनि मानिनि काममिदं हृदयं पुरुषे । हारिणि हारिणि ते हृदये निहितो दयितो भाविनि भाविनिवासिमनोऽस्य चिराय यतः ॥' उट्टवणिका यथा-51, SI, SI, SI, SII, 5 १६x४=६४ ॥ नीलो निवृत्तः ॥
१७२. अथ चञ्चलाछन्दः
भोः शिष्याः यत्रादौ सुपर्णो रगणो लघुमध्यमो गणो दीयते । तो ततः-एकः पयोधरो जगणो गुरुमध्यमो गणः हिण्णिरूअ पञ्च एवंरूपाणि पञ्च सुपर्णपयोधरानन्तरं रगणजगणरगणास्रयोपि गणा देयाः एवं (पञ्च) वक्रा गुरवः सर्वे, लो लघवश्च तैर्मनोहरेति चञ्चलाविशेषणम् । अन्ते गणपञ्चकान्ते गन्धो लघुर्वर्णो यत्र (दीयते) । यदि चाक्षराणि षोडश यस्याः सा फणीन्द्रेण चञ्चला विनिर्मिता । तदेतदतिदुर्लभं चञ्चलाभिधानं छन्दो विजानीतेति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'तूर्यतालपक्षिराजमेरुहारनायकेन चामरध्वजेन चापि वर्णिता सुपर्णकेन । वर्णितातिसुन्दरेण पन्नगेन्द्रपिङ्गलेन चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥' समानिका पदद्वयेन चञ्चलेति फलितोऽर्थः ॥ ग्रन्थान्तरे चित्रसङ्गमिति नामान्तरम् । अतएव छन्दोमञ्जर्याम्-'चित्रसङ्गमीरितं समानिकापदद्वयं नु' इत्युक्तम् ।।
१७३. चञ्चलामुदाहरति-जहा (यथा)
कश्चित्कविः कर्णार्जुनयोर्युद्धमुपवर्णयति-उभावपि कर्णपार्थों संग्रामभूमावेकदा ढुक्कु रथेन युक्तौ जातावित्यर्थः । अस्मिन्नवसरे सूर्यो दिनकरोऽपि बाणसंघातेन लुकु लीनः शरजालाच्छादितो भूदित्यर्थः । अत एवान्धकारसंचयेन शब्दवेधित्वात्तयोर्यस्य कस्यापि घाव: प्रहारो लग्नः । एत्थ अत्र व्यतिकरेऽनयोर्मध्ये पार्थोऽर्जुनस्तेन कण्णपूरि आकर्णं पूरयित्वा षष्टिर्बाणस्त्यक्ताः । अन्तरा पततस्तान्बाणान्प्रेक्ष्य । प्राकृते पूर्वनिपातानियमात् । धन्या कीर्तिर्यस्यैवंविधेन कीर्त्या धन्यस्तेन वा, कर्णेन राधेयेन ते सर्वे बाणाः कर्तिताः खण्डशः कृता इत्यर्थः ॥ यथा वा[णीभूषणे]-आलि याहि मञ्जकुञ्जगुञ्जितालिलालितेन भास्करात्मजाविराजिराजितीरकाननेन । शोभितस्थलस्थितेन संगता यदूत्तमेन माधवेन भाविनी ताडिल्लतेव नीरदेन ॥' उट्टवणिका यथा-sis, ISI, SIS, ISI, 15, 1 १६x४=६४ ॥ चञ्चला निवृत्ता ॥
एवं चमूनरमजताः संनता,
भूय कर्णन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org