________________
परिशिष्ट (२)
[२५१
१६७. शरभमुदाहरति-जहा (यथा)
कश्चित्कामुकः कामपि कामिनीमुपवर्णयति-तरलकमलदलसदृशनयना शरत्समयशशिसुसदृशवदना मदकलकरिवरसालसगमना इयं रमणी येन सुकृतफलेन पुण्यपुञ्जेन सृष्टा किं तत्सुकृतफलमिति न जानीमहे । इति वितर्कालंकारः ॥ यथा वा[णीभूषणे]'अमलकमलदलरुचिरधरनयनो जलनिधिमधिफणिपतिफणशयनः | दनुजविजयसुरपतिनतिमुदितो हरिरपहरतु दुरितेततिमुदितः ॥' उट्टवणिका यथा-II, ॥ ॥ ॥ ॥ ॥ ॥, 5, १५४४=६० ॥ इदमेव ग्रन्थान्तरे शशिकलेति नामान्तरेणोक्तम् । शशिकलापि रस ६ नव ९ रचितविरतिश्चेत्, तदा स्रगिति नामान्तरं लभते । तथा च छन्दोमञ्जर्याम्-'स्रगियमपि च रसनवरचितयतिः' इति । यथा'अपि सहचरि रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला । स्रगिव निवसति लसदनुपमरसा सुमुखि मुदितदनुजदलनहृदये ॥' उट्टवणिका यथा-1, 0, , ६, ॥, II, II, II, 5, ९, १५x४=६० ॥ इयमेव च यदा वसु ८ मुनि ७ यतिः तदा मणिगुणनिकर इति संज्ञान्तरं लभते । तदुक्तं तत्रैव-'वसु ८ मुनि ७ यतिरिति मणिगुणनिकरः ॥ यथा-'नरकरिपुरवतु निखिलसुरगतिरमितमहिमभरसहजनिवसतिः । अनवधिमणिगुणनिकरपरिचित: सरिदधिपतिरिव धृततनुविभवः ॥' उट्टवणिका यथा-II, II, II, II, ८ ॥ ॥, , 5 ७, १५४४६० ॥ एतौ च यतिकृतौ शरभभेदौ प्रकृतिप्रस्तारसंख्यायामेवावगन्तव्याविति ॥ शरभो निवृत्तः ॥
अत्रास्मिन्नेव प्रस्तारे कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं विपिनतिलकं छन्द:-'विपिनतिलकं नसनरेफयुग्मैर्भवेत्।
नगणसगणनगणरगणयुगलैर्विपिनतिलकं वृत्तं भवेदिति ॥ यथा
'विपिनतिलकं विकसितं वसन्तागमे मधुकृतमदैर्मधुकरैः क्वणद्भिर्वृतम् ।
मलयमरुता रचितलास्यमालोकयन्त्रजयुतिभिर्विहरति स्म मुग्धो हरिः ॥" उट्टवणिका यथा-II, IIS, Im, sis, 515, १५x४=६० ॥ विपिनतिलकं निवृत्तम् ॥ अथ चन्द्रलेखा छन्दः-'म्रो मो यौ चेद्भवतां सप्ताष्टकैश्चन्द्रलेखा' ।
यदि प्रथमं नौ मगणरगणौ भवतः, ततो मो मगणः, ततश्च यौ यगणौ भवेतां सप्ताष्टकैवर्णविरतिश्च भवेत्, तदा चन्द्रलेखा तन्नामकं वृत्तमित्यर्थः ।। यथा
'विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा ।
राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा किंचार्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥' उट्टवणिका यथा-555, 55, 55s, Iss, Iss, १५४४-६० ॥ चन्द्रलेखा निवृत्ता । अथ चित्रं छन्दः-'चित्रानाम छन्दश्चित्रं चेत्रयो मा यकारौ' । तच्चित्रानामकं चित्रं नाम यस्य यत्र त्रयो मा मगणत्रयं यकारौ यगणद्वयं च यत्र भवेत्तत्कथितनामद्वयं छन्दो भवतीति ।। यथा
गोपालीलीलालोला यद्वत्कलिन्दात्मजान्ते खेलन्मुक्ताहारारण्यस्रग्लसन्मूर्धचित्रा ।
कंसारातेर्मूर्तिस्तद्वन्मे हृदि क्रीडन्तीयं कोऽन्यः स्वर्गो मोक्षो वा स्याद्विद्यते तन्न जाने ॥ उद्दवणिका यथा-555, 555, 555, ISS, ISS, १५४४६० ॥ अत्रापि प्रस्तारगत्या पञ्चदशाक्षरस्य द्वात्रिंशत्सहस्राणि सप्तशतान्यष्ट्युत्तराणि ३२७६८ भेदाः । तेषु कियन्तो भेदाः प्रोक्ताः । शेषभेदास्तीक्ष्णशेमुषीकैराकरान्निजबुद्ध्या वा प्रस्तार्य सूचनीया इत्युपरम्यते ।।
१६८. अथ षोडशाक्षरप्रस्तारे नाराचछन्दोऽभिधीयते
भोः शिष्याः, यत्र नरेन्द्रो जगणो गुरुमध्यमो गणः शबलश्चित्रितो वर्तते । तथा च सुपर्णो रगणो लघुमध्यमो गणः वेवि सुपर्णावेव द्वौ गणौ दृश्येते नान्य इति नियमः । पइकश्चतुष्कलोऽर्थाद्गुरुमध्यो जगण एव । ठामपञ्चमे प्राकृते पूर्वनिपातानियमात् पञ्चमस्थाने नायको देय इत्यर्थः । तद्दानं गणान्तरनिरासार्थम् । रगणस्य पञ्चकलत्वादिति भावः । एवं गणपञ्चकेन पञ्चदशाक्षराणि, ततश्च हारो गुरुः यथा स्यात्तया सारभूतोऽन्ते यस्य पतितो वर्तते । एतत् प्रसिद्ध नाराचनामकम् । कलाश्चतस्रः सविंशतयः पदे यस्य चरणस्थितचतुर्विंशतिकलात्मकमिदं छन्द: फणीन्द्रो जल्पति ।। तत्र लघुगुरुनियममाह--गन्धवङ्कअट्ठए गन्धवक्रयोलघुगुर्वोः क्रमेणाष्टकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org