________________
२५०]
प्राकृतपैंगलम्
१६१. निशिपालमुदाहरति-जहा (यथा)
कश्चिद्बन्दी समरमुपवर्णयति-युद्धे समरे भटा योधा भूमौ पतन्ति, उत्थाय पुनर्लगन्ति च । अभ्यमित्रमिति [शेषः । ततश्च तादृशमहावीराहवे सकलोऽपि वीरवर्गः स्वर्गमनाः सन्नभिमुखं खड्गेनैव धारातीर्थाशया हन्ति । अतश्च न कोऽपि हि पलायितः । अथ च वीरैस्तीक्ष्णफलाः शरा बाणा: कर्णे गुणं कृत्वा कर्णान्ताकृष्टशिञ्जिनीकं कार्मुकं विधायार्पिताः । परेष्वित्यर्थात् । इत्थं बाणपातनेनैव तथा दश योधा दशसंख्याकाः सुभटाः पादेन चरणेन सह कप्पिआ कतिताः । खण्डश: कृता इत्यर्थः । उट्टवणिका यथा-II, III, SI, SIS, १५४४-६० ॥ यथा वाणीभूषणे]-'चन्द्रमुखि जीवमुषि वाति मलयानिले याति मम चित्तमिव पाति मदनानले । तापकरकामशरशल्यवरकीलितं मानमिह पश्य नहि कोपमतिशीलितम् ॥' निशिपालो निवृत्तः ॥
१६२. अथ मनोहंसं छन्दः
भोः शिष्याः, यत्रादौ हस्तः सगणो गुर्वन्तगणः ततो नरेन्द्रद्वयं जगणद्वयं दीयते, अनन्तरमेको गुरुः । तक्कइ तदनन्तरम् । काहलवेवि काहलद्वयं लघुद्वयं क्रियते, ततो गुरुं स्थापयित्वा गन्धं च लघुमपि स्थापयित्वेत्यर्थः । तथा अन्ते यत्र हारो गुरुः स्थाप्यते तन्मनोहंसमिति प्रसिद्ध छन्दः पिङ्गलेन जल्पितमिति जानीत ॥ वाणीभूषणे तु-'सगणं विधाय पयोधरद्धयसुन्दरं भगणं ततो विनिधाय चामरतोमरं । मनहंसवृत्तमिदं च पञ्चदशाक्षरं भणितं भुजंगमनायकेन मनोहरम् ॥'
१६३. मनोहंसमुदाहरति-जहा (यथा)
काचिद्वसन्तमुपवर्णयन्ती प्रोषितपतिका निजसखीमाह-हे सखि, यत्र पुष्पिता: किंशुका अशोकाश्चम्पका वञ्जुलाश्च । वसन्ते पुष्पिता इति । किंच-सहकारकेसरगन्धलुब्धा भ्रमराः । वर्तन्ते इति शेषः । अथ च-वहति दक्षो दक्षिणो वातः मानानां भञ्जनः, अतश्च मधुमासो वसन्तः समागतो लोकलोचनरञ्जनः ॥ यथा वा[णीभूषणे]-'नवम वञ्जलकुञ्जकूजितकोकिले मधुमत्तचञ्जलचञ्चरीककुलाकुले । समयेऽतिधीरसमीरकम्पितमानसे किमु चण्डि मानमनोरथेन विखिद्यसे ।' उट्टवणिका यथा-15, ISI, I51, 5, II, 5, 1, 5, १५x४=६० ॥ मनोहंसो निवृत्तः ॥
१६४. अथ मालिनी छन्दः
भोः शिष्याः यत्र प्रथमं परमतिप्रसिद्ध परमो द्विलघ्वात्मको गणस्तादृशैस्त्रिभिः परमैः प्रसिद्धम्, रससहितं शृङ्गारादिरससहितं मालिनीति नाम तद्वृत्तं सरसम् । अत एव चित्तमध्ये निहितं छन्दः फणीन्द्रो भणतीति । कीदृशम् । वीअ ठामोणिबद्धं परमत्रिकानन्तरं यद्वितीयस्थानं तत्र मोनिबद्धं मगणेन गुरुत्रयात्मकेन गणेन निबद्धम् । पुनः शरो लघुः, ततो गुरुयुतं ततोऽपि गन्धो लघुः तस्याप्यन्ते कर्णेन द्विगुर्वात्मकेन गणेन नितरां बद्धं संयुक्तमित्यर्थः ॥ भूषणे तु-प्रकारान्तरेण लक्षितम्-द्विजकुसुमसुरूपा कर्णताटङ्कयुक्ता कनकवलयहारैर्मण्डिता युक्तशङ्खा । सुललितरसनासौ नूपुरश्रीसमेता हरति रसिकचित्तं मालिनी कामिनीव ॥' कामिनीपक्षेऽर्थः स्पष्टः ।। नगणद्वयमगणयगणयुग्मयुक्तं वसुस्वरकृतविरामं मालिनी वृत्तमिति फलितोऽर्थः ॥ अत एव छन्दोमञ्जर्याम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इत्युक्तमिति ॥
१६५. मालिनीमुदाहरति-जहा (यथा)
काचित्प्रोषितपतिका सखीमाह-हे हळे नीचसखि संबोधने । 'हले हण्डे हलाह्याने नीचां चेटीं सखी प्रति' इत्यमरनिर्देशात् । मलयवातो दक्षिणानिलो वहति । अत एव हन्त इति खेदे । कम्पन्ते गात्राणि । अथ च कोकिलालापबन्धः श्रवणरन्धं हन्ति पिकपञ्चमस्वरप्रबन्धः कर्णरन्ध्र भिनत्तीत्यर्थः । किंच दशसु दिक्षु भ्रमरझंकारभाराः श्रूयन्ते । अत एव जातबलश्चण्डोऽतिकठोराशयश्चाण्डाल इव मारो मारात्मकः कामो हन्ति हन्ति मा मितिशेषः । हन्तीति वीप्सया निर्दयत्वमेतस्य मदनस्य सूचितमिति भावः ॥ यथा वा[णीभूषणे]-'नयनविगलदस्रुस्रोतसा कृष्यमाणे नवकिसलयतल्पे हन्त सुप्ता मृगाक्षी। प्रबलमदनबाधालोलदोर्वल्लिरेषा विरहजलधिपारं गन्तुमभ्यस्यतीव ॥' उट्टवणिका यथा-II, I, II, 55s, 1, 55, 1, 55, १५४४=६० ॥ मालिनी निवृत्ता ॥
१६६. अथ शरभछन्दः
भोः सुप्रियाः सुतरां प्रियाः शिष्याः, प्राकृते पूर्वनिपातानियमात् फणिगणानां पतिना (त्या) पिङ्गलेन कथितं तच्छरभाख्यं छन्दः । कीदृशम् । यत्र सुप्रियगणो लघुद्वयात्मको गणो रसयुगेन लघुद्वयेन सहितः पूर्वं भणितः पठितः, तथा-विहु द्वौ सुप्रियगणौ रसयुगेनैव सहितौ कार्यों ततः करतलं सगण: पदे पदे प्रतिपदं लब्धः । यत्र चैवं प्रकारेण पदे पदे चतुश्चतुष्कला गणाः सुतरां हिताः, तादृशं वृत्तं शरभनामकमिति । भूषणेऽपि 'द्विजवरत्रि(?)तयकलितमिह सगणं कलय शरभमतिरतिरतिकरणम् । कविवरसकलहृदयकृतहरणं फणिवरनरपतिवदनविहरणम् ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org