________________
परिशिष्ट (२)
[२४९
इदानींतनैराचार्यैरिति ।। वाणीभूषणे तु-भुजसंगतशङ्कयुगा वलयाकलिता करपुष्पसुगन्धवती रसना रुचिरा । कनकद्वयनूपुरचारुतरा जयति भ्रमरावलिका भुजगाधिपदुर्ललिता ॥' द्वितीयोर्थः स्पष्टः ॥
१५५. भ्रमरावलीमुदाहरति-जहा (यथा)___ कश्चिद्भक्तः शिवं प्रार्थयते-हे चन्द्रकलाभरण चन्द्रशेखर देव, यदि तव दुरितगणहरणः पापसमूहविनाशकश्चरणः (?) शरणं प्राप्नोमि, तदा लोभे मनस्त्यक्त्वा भवनं गृहं निरन्तरं परिपूजयामि । अतो मह्यं तादृशं सुखं देहि हे रमण नित्यविहारशील येनाहं त्रिविधशोकविनाशमनाः । स्यामिति शेषः । यथा वा[णीभूषणे]-'सखि संप्रति के प्रति मौनमिदं विहितं मदनेन धनुः सशरं स्वकरे निहितम् । नतिशालिनि का वनमालिनि मानकथा रतिनायकसायकदुःखमुपैमि वृथा ॥' उट्टवणिका यथा-115, , 15, 15, 15, १५४४=६० ॥ भ्रमरावली निवृत्ता ॥
१५६. अथ सर्वगुरुसारङ्गिकाछन्दः- भोः शिष्याः, यत्र कर्णा द्विगुरवो गणाः सप्त दीयन्ते, अन्ते एको हारो गुरुर्मान्यते पूज्यते । अभ्यर्हितः क्रियत इत्यर्थः । एवं पदे पञ्चदशापि हारा गुरवो यत्र तत्सारङ्गिकाछन्द इति ज्ञातव्यम् । तत्र शिष्यव्युत्पत्तिसिद्धये पादपूरणार्थं वा मात्रानियममाहयत्र पदे गुरूणां द्विगुणाभिप्रायेण त्रिंशन्मात्राः प्राप्ताः, तद्भोगिराजो जल्पति एवं छन्दः क्रियते कीर्तिरपि तेन गृह्यते । किं बहुनायच्छ्रुत्वा मस्तकं कम्पते ॥ एतस्या एव ग्रन्थान्तरे लीलाखेल इति नामान्तरम् ॥ तथा च छन्दोमञ्जर्याम्-'एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः' इति ॥ .
१५७. सारङ्गिकामुदाहरति-जहा (यथा)
कश्चिद्बन्दी कस्यचिन्नरपतेः संग्राममुपवर्णयति-यत्र योधा भटा वर्धितकोपाः सन्तोऽत एव वीररसावेशेन मत्ताः, अप्पाअप्पी अहमहमिकया गर्विता: साहंकारा जाताः । कीदृशाः । रोषेणारक्तसर्वगात्रां, तदनन्तरं तादृशसंग्रामे शल्यं भल्लाश्चायुधविशेषा उत्थापिताः । अथ च-हस्तियूथानि गजसमूहाः सञ्जीभूतानि । अत एव संचरच्चतुरङ्गबलपादेन भूमिः कम्पिता । किं च तादृशसंकुलीभूतसमरसीमनि सर्वे शूराः शूरान्तरं प्रति 'गृहाण, देहि त्यज, प्रतीक्षस्व' इत्यादि संग्रामसंपादकं वचनं जल्पन्ति-इति ॥ यथा वा-पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके रासोल्लासक्रीडद्गोपीभिः सार्धं लीलाखेलः । मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो यद्वद्देवानामीश: स्वर्वेश्याभिः खेलन्तीभिः ॥' उट्टवणिका यथा-55, 55, 55, 55, 55, 55, 55, 5, १५४४=६० ॥ यथा वा-'मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सी: [कान्तं वक्र वृत्तं पूर्णं चन्द्रं गत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः क्रूरः प्राद्यात्तस्माद्भ्रान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥]' इति ज्यौतिषिकाणां कालपरिमाणसूचकमुदाहरणमिति ॥ सारङ्गिका निवृत्ता ।
१५८. अथ चामरच्छन्द:
हे कामिनि, चामरस्य छन्दसस्त्र्यधिका विंशतिस्त्रयोविंशतिर्मात्राः पदे भवन्ति । तत्राष्टौ हारा गुरवः, शरा लघवस्ते च सप्त, स्थाने स्थाने निर्मला दृश्यन्ते यत्रेति नियमः । नियमान्तरमाह-आइअन्तहारसार आद्यान्तयोर्हारो गुरुः सारो यत्रैवंरूपाणि पञ्चदशाक्षराणि पदे ज्ञायन्ते, तत्पिङ्गलेन नागराजेन चामरमिति छन्दो भण्यत इति योजना ॥ भूषणे तु प्रकारान्तरेणोक्तम्-'हारवत्पयोधरत्रयं निधाय सुन्दरं चामरध्वजेन मण्डितं विधाय चामरम् । वृत्तराजमेतदेव नागराजभाषितं पण्डितावलीविनोदकारि चारुभाषितम् ॥' एतस्यैव ग्रन्थान्तरे (छन्दोमञ्जर्यां) तूणकमिति नामान्तरम् ॥
१५९. चामरमुदाहरति-जहा (यथा)
कश्चित्कविर्देवासुरसंग्राममुपवर्णयति-भो योधाः सुभटाः, झटिति सज्जीभवत । यतो वाद्यानि डिण्डिमतूर्यादीनि गर्जन्ति तत्क्षणे रोषारक्तसर्वगात्राः पूत्कुर्वन्ति । भीषणा अतिभयानका दानवाः किंच धावित्वा आगत्य खड्गं पातयित्वा चलन्ति । समराङ्गण इति शेषः । अत एव वीराणां पादेन भूतलान्तर्भूमीतलमध्ये नागराजः शेषोऽपि कम्पितोऽभूदिति ॥ यथा वा[णीभूषणे]-'रासलास्यगोपकामिनीजनेन खेलता पुष्पपुञ्जम कुञ्जमध्यगेन दोलता । तालनृत्यशालिगोपबालिकाविलासिना माधवेन जायते सुखाय मन्दहासिना ॥' उट्टवणिका यथा-5। । । । । । । 5, १५४४=६० चामरं निवृत्तम् ॥
१६०. अथ निशिपालछन्दः
हे सखि, पूर्वं हारं गुरुं धारय ततस्त्रयः शराः । लघुत्रयमित्यर्थः । हिण्णि परि अनया परिपाट्या त्रयो गणा गुर्वादि त्रिकलाः । पञ्चकला इत्यर्थः । अन्ते पञ्च [गण]कलगणत्रयावसाने रगणं मध्यलघुकं पञ्चकलमेव गणं कुरु ॥ तत्राक्षरनियममाह-अत्र छन्दसि पञ्च गुरवः, पञ्चद्विगुण [दश] लघवः । पदे । पतन्तीति शेषः । मात्रानियममाह-हे चन्द्रमुखि, एत्थ निशिपालनाम्नि वृत्ते विंशतिर्लघुमालाः (कला:) तदेतन्निशिपालाख्यं छन्द: कविषु वरो महाकवीन्द्रसर्पः पिङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्'तालशररज्जुधररत्नवरसुन्दरं भावयुततालगतमन्त्यकृतचामरम् । शुद्धमतिनागपतिहृदयकृतसंगम वृत्तनिशिपालमसिताक्षि हृदयंगमम् ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org