________________
२४८]
प्राकृतपैंगलम् उट्टवणिका यथा-555, 551, III, ऽऽऽ, ऽऽ, १४४४५६ ॥ अथासंबाधाछन्दः-'मो गो गो नौ मः शरनवभिरसंबाधा' ।
यत्र पूर्वं मगणस्ततो गुरुद्वयम् ततश्च नौ नगणद्वयम्, अनन्तरं मगणो भवति, शराः पञ्च, तेन पञ्चभिर्नवभिश्च यत्र विरतिर्भवति तदसंबाधाछन्दः ॥ यथा
'वीर्याग्नौ येन ज्वलति रतिरसाक्षिप्ते दैत्येन्द्र जाता धरणिरियमसंबाधा ।
धर्मस्थित्यर्थं प्रकटिततनुरभ्यर्थ्यः साधूनां बाधां प्रशमयतु कंसारिः ॥' उट्टवणिका यथा-555, 55, III, III, 555, १४४४=५६ ॥ असंबाधा निवृत्ता ॥ अथापराजिता छन्दः-'ननरसलघुगैः स्वरैरपराजिता' । नगणयुगलरगणसगणलघुगुरुभिः स्वरैः सप्तभिः कृतविश्रामापराजिता ॥ यथा
'यदनवधिभुजप्रतापकृतास्पदा यदुनिचयचमू: परैरपराजिता ।
व्यजयत समरे समस्तरिपुव्रजं स जयति जगतां गतिर्गरुडध्वजः ॥' उट्टवणिका यथा-III, II, I, II, I, 5, १४४४=५६ ॥ अपराजिता निवृत्ता ॥ अथ प्रहरणकलिका छन्दः- 'ननभननलगिति प्रहरणकलिका' ।
नगणद्वयभगणनगणलघुगुरुभिः प्रहरणकलिकाछन्दः ।। यथा
व्यथयति कुसुमप्रहरण कलिका प्रमदवनभवा तव धनुषि तया ।
विरहविपदि मे शरणमिह ततो मधुमथनगुणस्मरणमविरतम् ॥ उट्टवणिका यथा-II, III, II, II, I, 5, १४४४५६ ॥ प्रहरणकलिका निवृत्ता ॥ अथ लोलाछन्दः-'द्विः सप्तच्छिदि लोला म्सौ म्भौ गौ चरणे चेत्' । यदि चरणे द्विः सप्तच्छिदि सप्तभिश्छेदयुक्ते म्सौ मगणसगणौ, अथ च म्भो मगणभगणौ, ततश्च गौ गुरु भवतः, तल्लोलानामकं
यथा
मुग्धे यौवनलक्ष्मीविद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ।
तवृन्दावनकुळे गुञ्जद्धृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरुकेलिम् ॥ उद्दवणिका यथा-555, 5, 555, 51, 55, १४४४५६ ॥ लोला निवृत्ता ।। अथ नान्दीमुखी छन्दः-'स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ' ।
यदि स्वरैः सप्तभिर्भेदोऽवच्छेदो यत्र तादृशे चरणे नौ नगणौ, अथ च तौ तगणौ, ततश्च गौ गुरू भवति यत्र, तन्नान्दीमुखी छन्दः ॥ यथा
सरसखगकुलालापनान्दीमुखीयं लहरिभुजलयाचारुफेनस्मितश्रीः ।
मुरहरकलयासत्तिमासाद्य किं ते प्रमुदितहृदया भानुजा नृत्यतीह ॥ उट्टवणिका यथा-II, III, 551, 551, 5, 5, १४४४-५६ ॥ नान्दीमुखी निवृत्ता ॥ अत्रापि प्रस्तारगत्या चतुर्दशाक्षरस्य चतुरशीत्यधिकानि त्रिशतानि षोडशसहस्राणि च भेदानाम् । तेषु कियन्तो भेदाः प्रदर्शिताः । शेषभेदाः सुधीभिराकारतः स्वमत्या वा प्रस्तार्य स्वयमूहनीया इति दिक् ॥
१५४. अथ पञ्चादशाक्षरप्रस्तारे भ्रमरावली छन्दो लक्ष्यते
भोः शिष्याः, यत्र करैः पञ्चभिः सगणैर्गुर्वन्तगणैर्विशेषेण लब्धं वरं रचनं यत्र तत् मनोहरं छन्दस्सु [उत्तमं] रत्नमाचार्याः प्रभणन्ति। अथ च-यत्र गुरवः पञ्च, लघवो दश, तदेतादृशं छन्दो भ्रमरावलीति रचितं पिङ्गलेन प्रसिद्धं कृत्वा स्थापितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org