SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (२) [२४७ इति भारवौ ॥ क्वचिदियमेव 'उत्पलिनी' । उट्टवणिका यथा-II, II, 551, 551, 5, १३x४=५२ ॥ चन्द्रिका निवृत्ता ।। अथ कलहंसछन्द:-'सजसा: सगौ च कथितः कलहंसः' सगणजगणसगणा यत्र सगणगुरू च, स कथितः कलहंसः ॥ कुत्रचिदयमेव 'सिंहनादः' इति ॥ यथायमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः । जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः ॥ उट्टवणिका यथा-15, II, Is, 05, 5, १३४४= ५२ ॥ कलहंसो निवृत्तः ॥ अथ प्रबोधिता छन्दः-'सजसाजगौ च भवति प्रबोधिता' सगणजगणसगणाः, अथ च जगौ जगणगुरू यत्र भवतः, तत्प्रबोधिताछन्दः ॥ यथाशयिता मृषा चटुलमाननिद्रया रतिकेलिकुञ्जनिलये विलासिनी । मुरवैरिणा वदनचुम्बनादिना स्मितमाततान सपदि प्रबोधिता ॥ उट्टवणिका यथा-15, ISI, Is, I51, 5, १३४४-५२ ॥ प्रबोधिता निवृत्ता ॥ अत्रापि प्रस्तारगत्या त्रयोदशाक्षरस्य द्विनवत्युत्तरशतमष्टौ सहस्राणि च भेदाः । तेषु कियन्तो भेदा उक्ताः । शेषभेदा: सुधीभिः प्रस्तार्याकारात्स्वबुद्धितो वा सूचनीया इति ॥ १५०. अथ चतुर्दशाक्षरप्रस्तारे वसन्ततिलका छन्दः भोः शिष्याः, यत्र प्रथमो गणः कर्णः पतति, जगणो मध्यगुरुको गणो द्वितीयः, ततस्तुरङ्गः सगणः, पुनश्च सगण एव, तथा पादे यश्च आदिलघुर्यगणश्चेत्यर्थः । एवं यत्र चतुर्दशाक्षरं पदं भवति सा फणिनोत्कृष्टा वसन्ततिलकोक्ता तां छेका विदग्धाः सुरसां सुकवीन्द्रदृष्टां पठन्तीति ॥ कुत्रचिदियमेव सिंहोद्धता ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्णस्फुरत्कनककुण्डलमण्डिता या भावान्विता चरणसंगतनूपुरश्रीः । गन्धान्विता सुरसना वलयावनद्धा कान्ता वसन्ततिलका मुदमातनोति ॥' कान्तापक्षे स्पष्टोऽर्थः ॥ १५१. वसन्ततिलकामुदाहरति-जहा (यथा) कर्पूरमंजरीसाटकस्थं कर्पूरमञ्जरीवर्णनपरं विदूषकं प्रति राज्ञो वचनमिदम् ॥ ये लोकास्तस्यास्तीक्ष्णेन चक्षुषस्त्रिभागेन कटाक्षेण दृष्टा वीक्षिताः, ते कामचन्द्रमधुपञ्चमैरिणीया जाताः, येषु पुनर्निपतिता सकलापि दृष्टिः, ते तु तिलाञ्जलिदानयोग्यास्तिष्ठन्ति पूर्वमेव मृता इत्यर्थ । उट्टवणिका यथा-55, ISI, 15, 15, 155, १४४४=५६ ॥ यथा वा[णीभूषणे]-'शंभोः करेण पुलकाङ्करदन्तुरेण सस्मेरमामृशति कुम्भमिभाननस्य । रोमाञ्चितकुचान्तचलाञ्चलायाः पायात्रपातरलमीक्षितमम्बिकायाः ॥' वसन्ततिलका निवृत्ता ॥ १५२. अथ चक्रपदच्छन्दः हे मुग्धे, यत्र मुखे आदौ चरणगणो भगणो गुर्वादिगणो यत्र पतति, ततश्च संस्थापय, पुनरपि द्विजवरयुगलं चतुर्लघुकगणद्वयम्, ततश्च यत्र करतलं सगणो गुर्वन्तगणो यत्रैवं पदे पदे प्रतिचरणं ज्ञातः, तच्चक्रपदं वृत्तमिति फणिपतिर्भणतीति त्वं संभणेति ॥ भूषणे तु प्रकारान्तरेण लक्षणं लक्षितम्-'कुण्डलकलितनगणमिह तृ(त्रि?)तयं गन्धकुसुमरसविरचितवलयम् । चक्रमुरगपतिवरपरिगणितं षोडशकलमतिसुललितभणितम् ॥' आदावन्ते च गुरुद्वयम्, मध्ये द्वादशलघुभिः पिण्डिता वर्णचतुर्दशात्मकः षोडशकलश्चरणो यत्रेति फलितोऽर्थः ॥ १५३. चक्रपदमुदाहरति-जहा (यथा) प्राकृते पूर्वनिपातानियमात्खञ्जनोपमनयनयुगलेन वरात्युत्कृष्टा चारुकनकलतासुषमाभुजयुगा। अथ वा भुजयुगे चारुकनकलतायाः सुषमा यस्याः । अथ च-फुल्लकमलमुखी गजवरगमना मत्तगजराजगामिनी रमणी विधिना कस्य सुकृतफलं सृष्टा । उट्टवणिका यथाडा, I, III, IIS, १४४४५६ ॥ यथा वा[णीभूषणे]-'सुन्दरि नभसि जलदचयरुचिरे देहि नयनयुगमतिघनचिकुरे । मानमिह न कुरु जलधरसमये किं तव भवति हृदयमिदमदये ॥' चक्रपदं निवृत्तम् ॥ अथ चतुर्दशाक्षरप्रस्तार एव कानिचिवृत्तानि लिख्यन्ते । तत्र प्रथमं वासन्ती छन्दः- 'मस्तो मो मो गौ यदि गदिता वासन्तीयम्' । मगणतगणनगणमगणैर्गुरुद्वयेन च वासन्तीछन्दः ॥ यथा भ्राम्यद्धृङ्गीनिर्भरमधुरालापोद्गीतैः श्रीखण्डारेरद्भुतपवनैर्मन्दान्दोला । लीलालोला पल्लवविलसद्धस्तोल्लासैः कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy