________________
२४६]
प्राकृतपैंगलम् अथ त्रयोदशाक्षरे प्रस्तार एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं मृगेन्द्रमुखं छन्दः-'भवति मृगेंद्रमुखं नजौ जरौ गः' । यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः, ततो गो गुरुर्भवति तन्मृगेन्द्रमुखं छन्दः ॥ यथा
गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः ।
क्षुधितमृगेन्द्रमुखं मृगा उपेत्य क्व मु(नु?) खलु विभ्रति जीवनस्य योगम् ॥ उट्टवणिका यथा-III, ISI, III, 55, 5, १३४४=५२ ।। मृगेन्द्रमुखं निवृत्तम् ॥ अथ प्रहर्षिणीछन्दः-'त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम् ।' मगणनगणजगणरगणगुरुभिः, त्र्याशाभिर्विरतिर्यत्र भवति तत्प्रहर्षिणीछन्द इत्यर्थः ।। यथा
गोपीनामधरसुधारसस्य पानैरुत्तुङ्गस्तनकलशोपगूहनैश्च ।
आश्चर्यैः सुखरसविभ्रमैर्मुरारेः संसारे मतिरभवत्प्रहर्षिणीह ॥ उट्टवणिका यथा-555, II, ISI, 55, 5, १३x४-५२ ॥ प्रहर्षिणी निवृत्ता । अथ रुचिराछन्दः-'जभौ सजौ गिति रुचिरा चतुर्ग्रहै:'
यत्र जमौ जगणभगणौ, अथ च सजौ सगणजगणौ भवतः ततो गुरुः चतुर्भिः, ग्रहैवभिश्च विश्रामो यत्र तद्रुचिरानामकं छन्द इति ॥ यथा
पुनातु वो हरिरतिरासविभ्रमी परिभ्रमन्त्रजरुचिराङ्गनान्तरे ।
समीरणोल्लसितलतान्तरालगो यथा मरुत्तरलतमालभूरुहः ॥ उट्टवणिका यथा-151, 51, 5, 151, 5, १३ x ४ =५२ ॥ रुचिरा निवृत्ता । अथ चण्डी-नयुगलसयुगलगैरिति चण्डी' यन्नगणद्वयसगणयुगलगुरुभिर्युक्तं भवति तच्चण्डीनामकं वृत्तमिति ॥ यथा
जयति दितिजरिपुताण्डवलीलाकुपितकवलकरकालियमौलौ ।
चरणकमलयुगचापलचण्डी पदनखरुचिजनिभोगमणिश्रीः ॥ उट्टवणिका यथा-11, 1, ॥s, us, 5, १३४४=५२ ॥ चण्डी निवृत्ता । अथ मञ्जुभाषिणी-'सजसा जगौ च यदि मञ्जुभाषिणी' । यत्र सगणजगणसगणाः, अथ च जगौ जगणगुरू भवतः, तन्मञ्जुभाषिणीछन्दः इति । इयमेव सुनन्दिनीति शंभौ ॥ यथा
अमृतोर्मिशीतलकरेण लालयं-स्तनुकान्तिचोरितविलोचनो हरेः ।
नियतं कलानिधिरसीति वल्लवी मुदमच्युते व्यधित मञ्जुभाषिणी ॥ उट्टवणिका यथा-115, ISI, IIS, I51, 5, १३४४=५२, मञ्जुभाषिणी निवृत्ता ॥ अथ चन्द्रिका छन्द:-'ननततगुरुभिश्चन्द्रिका चर्तुभिः'
नगणद्वयतगणयुगलगुरुभिश्चन्द्रिका सप्तषट् विरचितविरतिर्भवतीति ।। यथाशरदमृतरुचश्चन्द्रिकाक्षालिते दिनकरतनयातीरदेशे हरिः । विहरति रभसाद्वल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवो यथा ।। यथा वा
'इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । असुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org