________________
परिशिष्ट (२)
[२४५ लघुद्वयमित्यर्थः । ततोऽपि वीहा दीहा गुरुद्वयम्, ततोऽपि गन्धयुगं लघुद्वयं प्रकटितम् । अन्ते एतदन्ते चामरो गुरुः, हारोऽपि गुरुरेव भवति । शिष्यबोधनार्थं पदपूरणार्थं वा चरणे मात्रानियममाह-शुभकाया शुद्धशरीरा द्वाविंशतिर्मात्रा गुणयुक्ता यत्र तं तां मायां मायानामकं वृत्तं भण पठेत्यर्थः ॥ वाणीभूषणे तु-'कृत्वा कर्णौ कुण्डलयुक्तौ कुरु रत्नं धृत्वा पादं नूपुरयुक्तं कुरु हारम् । मायावृत्तं पिङ्गलनागोदितमेतज्जानीतादः पण्डितवक्त्राम्बुजसारम् ॥ क्वचिदस्याः ‘पदमत्तमयूरः' इति नामान्तरम् ।
१४३. मायामुदाहरति-जहा (यथा)
कश्चित्स्वयमतिनिर्विण्णः स्वमित्रमुपदिशति-हे वयस्य, एतदस्थिरं शरीरं पश्य गृहं सदनं, जाया कलत्रं, वित्तं धनं, पुत्रास्तनयाः, सोदरा भ्रातरः, मित्रमित्येतानि सर्वाणि माया । हे बर्बर, किनिमित्तामाकारयसि माम् । अतः कारणादेकां युक्तां कीर्ति कुरु यदि सुज्झे जानासि ॥ उट्टवणिका यथा-55, 55, 5, 4, 55, 0, 55, १३४४=५२ ॥ यथा वा[णीभूषणे]-'उद्यद्बाधा संप्रति राधा मधुमासे शङ्के संकेतं प्रति याता किमुदास्से । केलिकुञ्ज शून्यमवेक्ष्यास्तरहस्या प्राणत्राणं भावि कथं वा वदतास्याः ।।' 'हा तातेति कन्दितमाकर्ण्य विषण्णः' इत्यादि रघौ ॥ माया निवृत्ता ।
१४४. अथ तारकछन्द:
हे सखि, स्थापयित्वा आदौ लघुद्वयं, ततः पादे यत्र गुरुशल्यौ, गुरुः अथ च लघुद्वयमित्यर्थः । पुनरपि गुरुशल्यौ, ततोऽपि जे यत् पूर्वं गुरुशल्यद्वयमुक्तम्, तदेवाग्रे देयमिति ॥ पदान्ते च गुरुयुगं क्रियते तच्छन्दोनाम तारकमिति भण्यते । सगणचतुष्टयेनान्तगुरुणा तारकमिति फलितोऽर्थः । तथा च भूषणे-'यदि तोटकवृत्तपदे गुरुरेको भवतीह तदा किल तारकवृत्तम् । फणिनायकपिङ्गलवर्णितमेतद्वरपण्डितमण्डलिकाहतचित्तम् ॥'
१४५. तारकमुदाहरति-जहा (यथा)
हे सखि; चूतवृक्षेण नवमञ्जरी गृहीता । किं च (प्राकृते पूर्वनिपातानियमात्) नवकिंशुकवनमतिसुन्दरं यथा भवति तथा परिपुष्पितम् । यदि तस्मिन्समये कान्तो दिगन्तरं यास्यति तदा किं मन्मथो नास्ति किं वा वसन्त एव नास्ति, इति सखी प्रति नायिकावचनम् ॥ उट्टवणिका यथा-1, 5, 1, 5, 1, 5, II, 5, 5, १३x४-५२ ।। यथा वा[णीभूषणे]-'अतिभारतरं हृदि चन्दनपङ्क मनुते सरसीपवनम् विषशङ्कम् । तव दुस्तरतारवियोगपयोधेहि पारमसौ भविता परमाधेः ॥ 'तारको निवृत्तः ॥
१४६. अथ कन्दच्छन्दः
भोः शिष्याः, यत्र प्रथमं ध्वज आदिलघुस्त्रिकलः क्रियते, ततस्तूरमादि गुरुस्त्रिकलः ततो हारो गुरुः, पुनरपि तूर्यमादि गुरुस्त्रिकल एव ततो हारो गुरुः, पुनरपि गुरुरेव, ततः शब्दो लघुः, ततोऽप्येकस्तकारस्तगण इत्यर्थः । एवं पदे एकविंशतिः कला यत्र तत् नागेन पिङ्गलेन कन्द इति छन्दोनाम जल्पितम् । समुदितमात्रासंख्यामाह-सर्वपादे[न] पादचतुष्टये न] चतुरधिका अशीतिः कलाः भवन्तीति | भूषणे तु-"ध्वजं चामरं मण्डितं गन्धहारेण मृगेन्द्रद्वयं चापि युक्तं समुद्रेण । तदा भावियोगीन्द्रवक्त्राब्जगीतेन जनानन्दकन्देन वृत्तेन कन्देन ।'
१४७. कन्दमुदाहरति-जहा (यथा)
रे कंस, अहं एक: चञ्चल: बाल इति मा जानीहि । अहं तु देवकीपुत्रस्तव वंशकाल इति बुध्यस्व । जनानन्दकन्देन देवकीनन्देन तथा गृहीतः कंसो यथा हत एव दृष्टो निजनारीवृन्देनेति ॥ उट्टवणिका यथा 15, 51, 5, 51, 5, 5, I, 551, १३४४=५२॥ यथा वा[णीभूषणे]-'हृतं ते मनो नन्दगोपालबालेन नवीनाम्बुवाहावलीचारुदेहेन । सुधावीचिसंबाधबिम्बाधराग्रेण स्फुरद्धर्हशोभालसत्कान्तिपूरेण ॥' कन्दो निवृत्तः ॥
१४८. अथ पङ्कावलीछन्दः
हे मुग्धे, यत्र प्रथमं चामरो गुरुः, ततः पापगणः पञ्चकलः सर्वलघुको गणः ध्रुवं निश्चितम्, ततः शल्यो लघुः ततः पश्चाच्चरणगणजुअ भगणद्वयं स्थापय । एवं च षोडशकलाः पदे पदे ज्ञायन्ते यत्र तत् पङ्कावली छन्द इति पिङ्गल: प्रभणति ॥ वाणीभूषणे तु-'पादे कुसुमरसगन्धमतः शरगण्डकयुगलकरूपमुपाहर । नागनृपतिवरभाषितमुयुति वृत्तममलमिह पङ्कावलिरिति ।
१४९. पङ्कावलिमुदाहरति-जहा (यथा)
स एव जगति जातः, स एव गुणवान्, य: करोति परोपकारं हसन्ननायासेन । यः पुनः परोपकार विरुध्यते तस्य जननी किमिति वन्ध्यैव न तिष्ठति । यथा वा[णीभूषणे]-'शारदविशदनिशामपि निन्दति संप्रति हृदयभिदामनुविन्दति । मन्मथविशिखभयेन निमीलति माधव तव विरहेण विषीदति ॥' उट्टवणिका यथा-5, || II, I, SI, SI, १३४४५२ ॥ पङ्कावली निवृत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org