SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४४] प्राकृतपैंगलम् अथ मन्दाकिनी छन्दः-'ननरघटिता तु मन्दाकिनी' । या नगणद्वयरगणद्वयघटिता सा मन्दाकिनी तन्नामकं वृत्तमित्यर्थः ॥ यथाबलिदमनविधौ बभौ संगता पदजलरुहि यस्य मन्दाकिनी । सुरनिहितसिताम्बुजस्रग्निभा हरतु जगदधं स पीताम्बरः ॥ 'सहशरनिधिजं तथा कार्मुकम्' इत्यादि भारवौ । 'अतिसुरभिरभाजि पुष्पश्रिया' इति माघे ॥ उट्टवणिका यथा-II, III, 515, 515, १२४४-४८ ॥ मन्दाकिनी निवृत्ता ॥ अथ कुसुमविचित्राछन्दः-'नयसहितौ न्यौ कुसुमविचित्रा' यत्र नगणयगणसहितौ न्यौ नगणयगणावेव भवतः, तत्कुसुमविचित्रानामकं वृत्तं भवतीति ।। यथा विपिनविहारे कुसुमविचित्रा कुतुकितगोपी पिहितचरित्रा। मुररिपुमूतिर्मुखरितवंशा चिरमवताद्वस्तलवतंसा ॥ उट्टवणिका यथा-II, ISS, III, I55, १२४४=४८ ॥ कुसुमविचित्रा निवृत्ता । अथ तामरसच्छन्द:-'इह वद तामरसं नजजा यः' । हे कान्ते, यत्र नगणजगणजगणाः, अथ च यो यगणो यदि भवति, तदा तामरसाख्यं वृत्तं वद ॥ यथास्फुटसुषमा मकरन्दमनोज्ञं व्रजललनानयनालिनिपीतम् । तव मुखतामरसं मुरशत्रो हृदयतडागविकासि ममास्तु ॥ उट्टवणिका यथा-11, ISI, I51, 155, १२४४=४८ ॥ तामरसं निवृत्तम् ॥ अथ मालतीछन्दः-'भवति नजावथ मालती जरौ' । यत्र नजौ नगणजगणौ, अथ च जरौ जगणरगणौ भवतः सा मालतीछन्दो भवतीति ।। यथाइह कलयाच्युत केलिकानने मधुरससौरभसारलोलुपः । कुसुमकृतस्मितचारुविभ्रमामलिरपि चुम्बति मालती मुहुः ।। कुत्रचिदियमेव 'यमुना' इति ॥ 'अपि विजहीहि दृढोपगृहनम्' इति भारवौ ॥ उट्टवणिका यथा 1, ISI, ISI, 55, १२४४४८ ॥ मालती निवृत्ता ॥ अथ मणिमालाछन्दः-'त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः' यत्र प्रथमं त्यौ तगणयगणौ, अथ च त्यौ तगणयगणावेव भवतः सा गुहवक्त्रैः षडाननाननैश्छिन्ना जातविश्रामा मणिमाला तन्नामकं वृत्तमित्यर्थः ।। यथा प्रह्ममरमौलौ रत्नोपलयुक्त जातप्रतिबिम्बा शोणा मणिमाला। गोविन्दपदाब्जे राजी नखराणामास्ते मम चित्ते ध्वान्तं शमयन्ती ।। उद्दवणिका यथा-551, 155, 551, ISS, १२४४४८ ॥ मणिमाला निवृत्ता ॥ अथ जलधरमालाछन्द:-'म्भौ सगौ गौचे ज्जलधरमालाब्ध्यङ्गैः' यत्र प्रथमं म्भौ मगणभगणौ, अथ च सगौ सगणगुरू भवतः, ततश्च गौ गुरुद्वयं चेद्भवति । किं च-अब्धयश्चत्वारः, अङ्गान्यष्टौ, अष्टाङ्गयोगाभिप्रायेण, तैः कृतविरतिः, तदा जलधरमाला तन्नामकं वृत्तमित्यर्थः ॥ यथाया भक्तानां कलिदुरितोत्तप्तानां तापोच्छित्त्यै जलधरमाला नव्या। भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः ।। उट्टवणिका यथा-555, SI, Is, 5, 55, १२४४-४८ ॥ अत्रापि प्रस्तारगत्या द्वादशाक्षरप्रस्तारस्य षण्णवत्यधिकं सहस्रचतुष्टयं भेदा भवन्ति तेषु कियन्तः प्रदर्शिताः ॥ १४२. अथ त्रयोदशाक्षरप्रस्तारे मायानामकं छन्दो लक्ष्यतेहे मुग्धे, जं यत्र प्रथमं कण्णा दुण्णा द्वौ कौँ गुरुद्वयात्मको गणौ भवतः, ततश्चामरो गुरुरेव, तदनन्तरं शल्ययुगं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy