________________
परिशिष्ट (२)
[२४३ वनितापक्षे-सुगमोऽर्थः । वृत्तपक्षे सगणजगणाभ्यां (सगणाभ्यां च) प्रमिताक्षरेति फलितोऽर्थः । अत एव छन्दोमायाँ 'प्रमिताक्षरा सजससैः कथिता' इत्युक्तमिति ॥
यथा [वाणीभूषणे]अभजद्भयादिव नभो वसुधां दधुरेकतामिव समेत्य दिशः । अभवन्मही पदयुगप्रतिमा तिमिरावलीकवलिते जगति ॥ अत्र तुरीयचरणे पादान्तलघोविकल्पेन गुरुत्वमिति ।। यथा वा
अमृतस्य शीकरमिवोगिरती रदमौक्तिकांशुलहरीछुरिता । प्रमिताक्षरा मुररिपोर्भणितिव्रजसुध्रुवामभिजहार मनः ॥ 'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' इति माघकाव्येऽपि ॥ उट्टवणिका यथा ॥5, 3, 5, , १२४४=४८ ।। प्रमिताक्षरा निवृत्ता ॥ अथ द्रुतविलम्बितं छन्दः-'द्रुतविलम्बितमाह नभौ भरौ । नभौ नगणभगणौ, अथ च भरौ भगणरगणौ यत्र तद्रुतविलम्बितवृत्तम् इति शेषनाग: पिङ्गल आहेति ॥ यथातरणिजापुलिने नवबल्लवीपरिषदा सह केलिकुतूहलात् । द्रुतविलम्बितचारुविहारिणं हरिमहं हृदयेन सदा वहे ।। यथा वा माघकाव्ये षष्ठसर्गे'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमशोभयत्स सुरभि सुरभि सुमनोभरैः ॥' इति ॥ उट्टवणिका यथा-1, 50, 50, 55, १२x४४८ ॥ द्रुतविलम्बितं निवृत्तम् ॥ अथ चन्द्रवर्त्मच्छन्दः-'चन्द्रवर्म निगदन्ति रनभसैः' रगणनगणभगणसगणैश्चन्द्रवर्माख्यं वृत्तमाचार्या निगदन्तीति । चन्द्रवर्त्म पिहितं घनतिमिरै राजवर्त्म रहितं जनगमनैः । इष्टवर्त्म तदलंकुरु सरसे कुञ्जवर्त्मनि हरिस्तव कुतुकी ॥ उट्टवणिका यथा-515, II, sh, ॥5, १२४४४८ ॥ चन्द्रवर्त्म निवृत्तम् । अथ वंशस्थविलछन्दः-'वदन्ति वंशस्थविलं जतौ जरौ' । यत्र जतौ जगणतगणौ अथ च जरौ जगणरगणौ भवतः, तद्वंशस्थविलं वृत्तमित्याचार्या वदन्ति । यथाविलासवंशस्थविलं मुखानिलैः प्रपूर्य यः पञ्चमरागमुगिरन् । व्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु वः॥ उट्टवणिका यथा-151, 551, ISI, 55, १२४४=४८ ॥ वंशस्थविलं निवृत्तम् ॥ अथेन्द्रवंशाछन्दः-'तच्चेन्द्रवंशा प्रथमाक्षरे गुरौ'।
तद्वंशस्थविलमेव प्रथमाक्षरे गुरौ सतीन्द्रवंशाख्यं तगणद्वयजगणरगणाभ्यां(णैः) वृत्तं भवतीति वेदितव्यम् ॥ अथ चैतयो वंशस्थविलेन्द्रवंशयोरुपजातयश्चतुर्दश भवन्तीति तद्भेदाः सुधीभिः पूर्वप्रदर्शितप्रक्रियया स्तवनीया इत्युपदिश्यते । एते चोपजातिकृतचतुर्दशभेदाः प्रकृतप्रस्तारपिण्डसंख्यातोऽधिका वेदितव्या इति ॥ इन्द्रवंशा यथा
'दैत्येन्द्रवंशाग्निरुदीर्णदीधितिः पीताम्बरोऽसौ जगतीतमोहरः ।
यस्मिन्नधाक्षुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः ॥ उट्टवणिका यथा-551, 551, 151, SIS, १२४४=४८ ॥ इन्द्रवंशा निवृत्ता ॥ अथ वैश्वदेवीछन्दः-'बाणाश्वैश्छिन्ना वैश्वदेवी ममौ यौ' ।
यत्र ममौ मगणद्वयम्, अथ च यौ यगणद्वयम् च, यत्र बाणा: पञ्च अश्वाः सप्त, तैश्छिन्ना जातविश्रामा सा वैश्वदैवी तन्नामकं वृत्तं भवतीति ।।
यथाअर्चामन्येषां त्वं विहायामराणामद्वैतं नैकं कृष्णमभ्यर्च्य भक्त्या । तत्राशेषात्मन्यचिते भाविनी ते भ्रातः संपन्नाराधना वैश्वदेवी॥ उट्टवणिका यथा-555, 55s, Iss, 155, १२४४-४८ ॥ वैश्वदेवी निवृत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org