________________
२४२]
प्राकृतपैंगलम्
चतुःषष्ट्या कलया चतुष्कीकृतं षट्पञ्चाशदधिकशतद्वयमात्राधिकं भवतीति ॥ भूषणेऽप्युक्तम्- पयोधरमत्र चतुष्कमवेहि कलाश्चरणे किल षोडश देहि । भुजंगपतेर्हृदि मौक्तिकदामसुवृत्तमिदं शृणु मौक्तिकदाम ॥
१३५.
मौक्तिकदामोदाहरति-- जहा (यथा ) -
काचित्प्रोषितभर्तृका सखीमाह - हे सखि, कायो दुर्बलो भूतः ग्रासस्त्यक्त एव । क्षणे क्षणे ज्ञायतेऽच्छो निश्वासः । एवं सत्यपि प्राकृते पूर्वनिपातानियमात् तारेणादीर्घेण कुहूरवाणां कोकिलानां रवेण दुरन्तो वसन्तः । अथवा - कुहूरवाणां कोकिलानां तारेणातिदीर्घेण स्वरेण दुष्टोऽन्तो यस्य तादृशोऽयं वसन्तः प्राप्तः तस्मात्-अथ किं वा कामो निर्दयः मत्प्राणापहारकत्वात् । किं वा कान्तो वल्लभ एव निर्दयः, य एतादृशेऽपि मधुसमये नागत इति ॥ उट्टवणिका यथा - 151, 151, 151, 151, १२x४ = ४८ ॥ यथा वा [णीभूषणे ] 'मया तव किंचिदकारि कदापि विलासिनि वाम्यमनुस्मरतापि । तथापि मनस्तव नाश्वसनाय व्रजामि कुतो भवतीमपहाय ॥ ' मौक्तिकदाम निवृत्तम् ॥
१३६. अथ मोदकच्छन्दः
हे मुग्धे, तोटकच्छन्दो विपरीतं कृत्वा स्थापय मोदकमिति छन्दसो नाम कुरु । अयमर्थः - 'चतुर्भिः सगणैरन्तगुरुकैर्गणैतोटकवृत्तं भवति । विपरीतमादिगुरुकैश्चतुर्भिर्भगणैर्मोदकं कुरु' इति । तदेव स्पष्टीकृत्याह - चत्वारो भगणा आदिगुरुका गणाः सुप्रसिद्धा यत्र तन्मोदकमिति कीर्तिलुब्धः पिङ्गलो जल्पति । भूषणे तु—' पादयुगं कुरु नूपुरसुन्दरमाशु करे कुसुमद्वयमाहर। सुन्दरि सर्वजनैकमनोहरमोदकवृत्तमिदं परिभावय ॥'
१३७. मोदकमुदाहरति- जहा (यथा) -
काचित्प्रोषितपतिका वर्षासमयेऽपि वल्लभमनागतं मत्वाऽतिखिन्नमानसाप्रियसखीमाह - हे सखि, गर्जतु मेघः, श्यामलोऽम्बरे, नीपः कदम्बोऽपि पुष्पितो भवतु । किंच भ्रमरोऽपि कूजतु । अस्माकं तु पराधीनः परायत्त एक एव जीवः तस्मादेनं किं प्रावृट् गृह्णातु किं वा मन्मथो गृह्णातु, अथवा - उभयोर्मध्ये कोऽपि कीलउ कीलयतु । जडीकरोत्वित्यर्थः ॥ उट्टवणिका यथा - 511, 511, 5॥, 5॥, १२x४=४८ ॥ मोदकं निवृत्तम् ॥
१३८. अथ तरलनयनीछन्दः
हे कमलमुखि, नगणाः सर्वलघुका गणाः, तांश्चतुर्गणान्कुरु । एवं च द्वादशापि वर्णांल्लघून्कुरु । प्रतिलोमगत्या प्रस्तारस्य यावत्सर्वगुरुर्भवति तावन्निर्वाह्य तरलनयनीनामकमिदं वृत्तम् । ईदृशं सर्वलघ्वात्मकं द्वादशवर्णप्रस्तारान्त्यं भवतीति सुकविः पिङ्गलो भणति ॥ वाणीभूषणे तु - 'द्विजवरगणयुगमुपनय सकुसुमनगणमिह रचय । सुदति विमलतरफणिपतिनिगदिततरलनयनमिति ॥ '
१३९. तरलनयनीमुदाहरति--जहा (यथा ) -
कश्चिद्भक्तः शिवं प्रार्थयते - हे कमलवदन, हे त्रिनयन, हे हर, हे गिरिवरशयन, हे त्रिशूलधर, हे शशधरतिलक, हे चन्द्रशेखर, गलगरल, मह्यमभिमतवरं वितर । देहीत्यर्थः ॥ उट्टवणिका यथा - III, III, III, III, १२x४=४८ ॥ यथा वा[णीभूषणे ] - 'अपहर पुरहर मम दरमभिनवकलियुगभयहर । हिमगिरिविहितशयनवर सुकृतसुलभशशधर ।' तरलनयनी निवृत्ता ॥
१४०. अथ सुन्दरीच्छन्दः
सुमुखि यत्र पूर्वं नगणस्त्रिलघ्वात्मको गणः, ततश्चामरो गुरुः, तदनन्तरं गन्धयुगं लघुद्वयं स्थाप्यते, ततश्चामरो गुरुः, ततश्च शल्ययुगं लघुद्वयं यदि संभवति, ततश्चैको रगणो मध्यलघुको गणः पादान्ते दृश्यते तत्सुन्दरीनामकछन्दः पिङ्गलेन लक्षितमिति ॥ भूषणे तु - 'कुसुमगन्धरसैरतिभूषिता चरणसंगतनूपुरमण्डिता । करसुवर्णलसद्वलयान्विता स्फुरति कस्य न चेतसि सुन्दरी ॥' अथ च - तादृशी सुन्दरी नायिका कस्य चेतसि न स्फुरतीत्यर्थः ॥
१४१. सुन्दरीमुदाहरति-जहा (यथा) -
कश्चित्स्वमित्रं प्रत्याह-शीतलो दक्षिणो मारुतो वहति, कोकिलः पिकोऽपि कोमलं पञ्चमं रौति । मधुकरा भ्रमरा मधुपानेन बहुस्वराः सन्तो भ्रमन्ति । अत एतादृशे वसन्ते महोत्सवे जाते सतीयं सुन्दरी कान्ता श्लेषनिमित्तं संभ्रममावेगमादराद्दधातीति ॥ उणिका यथा - III, 5, 1, 5, 1, 51, १२x४ =४८ ॥ यथा वा [णीभूषणे ] - 'असुलभा शरदिन्दुमुखी प्रिया मनसि कामविचेष्टितमीदृशे । मलयमारुतचालितमालतीपरिमलप्रसरो हतवासरः ।' सुन्दरी निवृत्ता ॥
अथ द्वादशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं प्रमिताक्षरच्छन्द: [ वाणीभूषणे ] - करसङ्गिशङ्खवलया सरसा कनकद्वयैकवलया सुभगा । वरवर्णिनी रसिकसेव्यपदा प्रमिताक्षरा विजयते वनिता ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org