________________
.
परिशिष्ट (२)
[२४१ सेनेव भाति । सेनासामग्रीमाह-एतस्याः पाए चरणे महामत्तमातङ्गः स्थापितः । गजगमनेति भावः । अथ-एतस्याः कटाक्षेऽपाङ्गे तीक्ष्णबाणाः स्थापिताः । तथैव च भ्रुवोः समानं शुद्धं धनुः स्थापितमिति ॥ उट्टवणिका यथा-155, 155, 155, 155, १२४४=४८ ।। यथा वा[णीभूषणे]-'निशायां तमःपूरसंपूरितायां प्रयान्ती रहस्त्वत्समीपं समुक्ता । अकस्मात्समालोक्य मामन्तिके ते तदा हीयुता तोयराशेः सुता स्यात् ॥' उट्टवणिकापि प्रकारान्तरेण यथा-1, 55, 1, 55, I, 55, 1, 55, १२४४८४८ ।। भुजङ्गप्रयातं निवृत्तम् ॥
१२८. अथ लक्ष्मीधरच्छन्दः
भोः शिष्याः, यत्र प्रथमं हारो गुरुः, ततो गन्धो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः पुनर्गन्धो लघुरेव तदनन्तरं कर्णः, ततः शब्दो लघुः, तथा तो तकारस्तगणोऽन्त्यलघुर्गण इत्यर्थः ॥ ततोऽपि गुरुगण्यते । एवं द्वादशवर्णात्मकं पदम् । उक्तलक्षणमेवोत्तरार्धेन स्पष्टीकरोति-चारीति । चत्वारो जोहा गणा रगणा मध्यलघुका गणा यत्रैतद्रूपं लक्ष्मीधर इति ज्ञातव्यमिति नागराजः पिङ्गलो भणति ।। वाणीभूषणेऽप्युक्तम्-'द्वादशैर्वर्णकैर्निर्मितं सततं तद्धि लक्ष्मीधरं वृत्तमाकीर्तितम् । दृश्यते यच्चतुर्कोहलैरङ्कितं पन्नगाधीशवाणीविनोदायितम् ॥' चतुर्कोहलैश्चतुर्भी रगणैरित्यर्थः ।। ग्रन्थान्तरे तु 'स्रग्विणो' इति नामान्तरम् । अत एव छन्दोमञ्जर्याम्-'कीर्तितैषा चतूरेफिका स्रग्विणी' इत्युक्तम् ॥
१२९. लक्ष्मीधरमुदाहरति-जहा (यथा)
कश्चिद्बन्दी कर्णं स्तौति-येन कर्णेन मालवा देशविशेषा भञ्जिता आमर्दिताः, कानलाश्च देशविशेषा गञ्जिताः, कुक्कुटा अपि निजिताः, गुर्जरा लुण्ठिताः, वङ्गा वङ्गदेशा भग्नाः, उत्कला मोटिताः, म्लेच्छाश्च कर्तिताः लवशः खण्डिताः इत्यर्थः । अतः सर्वत्र कीर्तिः स्थापिता येन स कर्णो जयतीति प्रबन्धस्थेन का सह संबध्यते ॥ उट्टवणिका यथा-5, 1, 55, 1, 55, I, 55, 1, 5, १२४४%४८ ॥ यथा वा[णीभूषणे]-'रासकेलीकलोल्लाससंभावितं गोपसीमन्तिनीवृन्दसंलालितम् । राधया गीतसंमुग्धयालिङ्गितं नौमि गोपालकं देवकीबालकम् ॥' स्रग्विणी निवृत्ता ।
१३०. अथ तोटकच्छन्दः
भोः शिष्याः यत्र ध्रुवं निश्चितं चत्वारः सगणा गुर्वन्तगणाः पतन्ति गणेषु षोडशमात्रासु विरामः कथितः । तथा पिङ्गलेन भणितमुचितं यत्तदिह लोके छान्दसिकैस्तोटकमिति छन्दोवरं रचितमिति ।। भूषणेऽप्युक्तम्-'विनिधेहि चतुःसगणं रुचिरं रविसंख्यकवर्णकृतं सुचिरम् । फणिनायकपिङ्गलसंभणितं कुरु तोटकवृत्तमिदं ललितम् ॥' वद तोटकमब्धिसकारयुतम्' इत्यन्यत्रापि ॥
१३१. तोटकमुदाहरति-जहा (यथा)- हे गुर्जर गुर्जराधिपते, कुञ्जरान्महीं च त्यक्त्वा चल 1 अपसरेर्थः । हे बर्बर वृथाप्रलापिन्, तव जीवनमद्य नास्ति । यदि कुप्यति कर्णनरेन्द्रः तदा रणे को हरिः को वा हरः, को वज्रधरः । कुपितस्य तस्य पुरत एते देवा अपि स्थातुमशक्ताः, किमुत त्वम् । अतः सर्वमपि वस्तुजातं विसृज्य महीमपि त्यक्त्वा पलायनमेवोचितमिति गुर्जरदेशाधिपति प्रत्यमात्यवचनम् ॥ उट्टवणिका यथा-115, 15, 15, 15, १२४४=४८ ॥ तोटकं निवृत्तम् ॥
१३२. अथ सारङ्गः
भोः शिष्याः, यच्चतुस्तकारस्य तगणचतुष्टयस्य सम्यग्भेदेनोत्कृष्टं सारङ्गरूपकं तत्पिङ्गलेनैव दृष्टम्, यच्च पादेषु चरणेषु तृतीये वर्णे विश्रामसंयुक्तं न ज्ञायते कान्तिरस्य च्छन्दसोऽन्योन्यभागेन प्रस्ताररीत्येत्यर्थः ॥ भूषणे तु-कर्णं ध्वजं जोहलं चामरं हि चिह्नं सतालं सदा संविधेहि । ख्यातं तथा पिङ्गलाधीश्वरेण सारङ्गमेतच्चतुहीरकेण ॥' चतुहीरकेण चतुर्भिस्तगणैरित्यर्थः । पञ्चकलप्रस्तारे ऽन्तलघौः पञ्चकलस्य हीरकमिति संज्ञा, वर्णवृत्ते तु तस्यैव तगणसंज्ञेत्युक्त एवार्थः इति ॥
१३३. सारङ्गमुदाहरति-जहा (यथा)
रे इति साक्षेपं संबोधनम् । गोड गौडदेशाधीश, तव हस्तियूथानि गजराजवृन्दानि थक्कन्तु क्षं तिष्ठन्त्वित्यर्थः । यतः पाइक्कवूहाई पत्तिव्रातानि पल्लट्टि परावृत्य युध्यन्ते। यद्वा हस्तियूथविशेषणं पदातिबहुलानीति । वस्तुतस्तु काशीशराजस्य शरासारा: बाणपरम्परास्तेषामग्रे कि हस्तिभिः, किं वा पत्तिभिः, किं वा वीरवर्गेण महासुभटसमुदायेनेति ॥ उद्दवणिका यथा-551, 551, 551, 551, १२४४४८ ॥ सारङ्गो निवृत्तः ॥
१३४. अथ मौक्तिकदामच्छन्दः
भोः शिष्याः, यत्र पदे चत्वारः पयोधरा जगणा गुरुमध्यमा गणाः प्रसिद्धास्तत्र त्रिभिरधिकास्त्रयोदश । अर्थात् षोडशमात्राभिः पदं यत्र तन्मौक्तिकदाम छन्दो भवति । अत्र च न पूर्वं हारो गुरुः, न चान्ते दीयत इति । समुदितमात्रासंख्यामाह-षट्पञ्चाशदधिकं शतद्वयं मात्राणामिति ॥ अयमर्थ:-षोडशचतुष्केण चतुःषष्टिः, तत्र चतुर्भिः सरैमौक्तिकदाम्नोऽतिशोभाकरत्वादिदमपि वृत्तं चतुश्छन्दोभिप्रायेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org