________________
२४०]
प्राकृतपैंगलम् यस्य चेतसि सदा मुरवैरी वल्लवीजनविलासविलोलः । तस्य नूनममरालयभाजः स्वागतादरकर: सुरवर्गः ॥ उद्दवणिका यथा-515, II, II, 55, ११४४४४ ॥ स्वागता निवृत्ता ॥ अथानुकूलाछन्द:-'स्यादनुकूला भतनगगाश्चेत्' भगणतगणनगणगुरुगुरवश्चेद्भवन्ति तदानुकूलाभिधं छन्दो भवसि ।। यथाबल्लववेषा मुररिपुमूर्तिर्गोपमृगाक्षीकृतरतिपूर्तिः । वाञ्छितसिद्धौ प्रणतिपरस्य स्यादनुकूला जगति न कस्य । उद्दवणिका यथा-51, 551, II, 55, ११४४४४ ॥ अनुकूला निवृत्ता ॥ अथ भ्रमरविलसितच्छन्दः-'मो गो नौ गो भ्रमरविलसितम्' मगणगुरुनगणद्वयगुरुभिर्धमरविलासितानामकं छन्दो भवति । यथामुग्धे मानं परिहर न चिरात्तारुण्यं ते सफलयतु हरिः । फुल्ला मल्ली भ्रमरविलसिताभावे शोभां कलयति किमु ताम् ।। उद्दवणिका यथा-555, 5, III, , 5, ११४४४४ ॥ भ्रमरविलसिता निवृत्ता ॥ अथ मोटनकच्छन्द:-'स्यान्मोटनकं तजजाश्च लगौ' तगणजगणद्वयलघुगुरुभिर्मोटनकनामा च्छन्दः ॥ यथा
रङ्गे खलु मल्लकलाकुशलश्चाणूरकभटमोटनकम् । यः केलिलवेन चकार समे संसाररिपुं प्रतिमोटयतु ।। अत्र तुरीयचरणे पादान्तलघोवैकल्पिकं गुरुत्वं ज्ञेयम् ॥ उट्टवणिका यथा-551, 151, ISI, 1, 5, ११४४४४ ॥ अत्रापि प्रस्तारगत्या रुद्र(११)संख्याक्षरस्याष्टचत्वारिंशदधिकं सहस्रद्वयं २०४८ भेदा भवन्ति । तत्र कियन्तोऽपि भेदाः प्रोक्ताः, शेषा भेदाः सुधीभिः प्रस्तार्य समूहनीया इति ॥
१२३. अथ द्वादशाक्षर प्रस्तारे प्रस्तारादिभूतं विद्याधरनामकं छन्दोऽभिधीयते
भोः शिष्याः, यत्र सर्वसारभूताश्चत्वारः कर्णा द्विगुरवो गणाः पादे दीयन्ते, पादान्ते कान्ताश्चत्वारो हारा गुरवश्च दीयन्ते । एवं द्वादशापि वर्णाः पादे गुरवः कर्तव्या इत्यर्थः । तत्र पदचतुष्टयेऽपि द्वादशचतुष्केण समुदिता वर्णा अष्टचत्वारिंशत् । तद्विगुणाभिप्रायेण मात्राः षण्णवति(९६)गणिता यत्र तच्छन्दःसु सारं श्रेष्ठं विद्याधरनामकं छन्दो भवतीति नागराजः पिङ्गलो जल्पतीति ।
१२४. विद्याधरमुदाहरति-जहा (यथा)
स इति प्रसिद्धौ दीव्यतीति देवः अप्रतिहतक्रीड: परमशिवोऽनाद्यन्तो नित्यविहरणशीलः । तदुक्तं योगवासिष्ठे । 'न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः । अकृत्रिममनाद्यन्तं देवनं देव उच्यते ॥' इति प्रतिपादितलक्षणः तुम्हा युष्मभ्यं भक्त्या तोषितः सन् सुखं निरतिशयानन्दचिन्मयास्वादलक्षणं ददातु । स कः । यस्य विषं कण्ठे कालकूटपानात् । यस्य वासो दिक् । दिगम्बर इत्यर्थः । यस्य शीर्षे गङ्गा । गङ्गाधर इत्यर्थः । येन नागराजः शेषो हारः कृतः । येन च गौरी पार्वती अर्धाङ्गे धृता । अथ च गात्रे चर्म गजाजिनं च धृतम् । येन च कामः कंदो मारू मारितो दग्धः । अत एव तेन तेन कर्मणा प्राप्ता कीतिर्येन तादृशो वः सुखदोऽस्त्विति । उट्टवणिका यथा-55, 55, 55, 55, 55, 55, १२४४ ।। विद्याधरो निवृत्तः ॥
१२५. अथ भुजङ्गप्रयातं छन्दः
हे मुग्धे, यत्र धओ ध्वज आदिलघुस्त्रिकलः प्रथमं भवति, ततश्चामरो गुरुः, एवं रूपक्रमेण शेषः संपूर्णश्चरणः स्थाप्यते। तद्विस्तारमाह-यथा हारो मुक्ताहारश्चतुभि सरैः क्रियते, तथा इदमपि शुद्धदेहम् । उट्टवणिकासमीकृतं गणं पदे विंशतिरेखाः कला यस्य तादृशं भुजङ्गप्रयातं चतुर्भिश्छन्दोभिः किज्जे कर्तव्यमित्यर्थः ॥
१२६. उक्तमेव प्रकारान्तरेण गाथाछन्दसा व्यक्तीकृत्याह
यत्र प्रथम अहिगण आदिलघुः पञ्चकलोऽर्थात् यगणश्चत्वारः पदे प्रसिद्धाः । अथ च-यगणस्य पञ्चकलत्वात्पदे विंशतिः कलाः । एवंरूपं षोडशचरणेन चतुश्छन्दोभिप्रायेण विंशत्यधिका त्रिशती मात्राणां समग्रा संख्या भवतीति पिङ्गलो भणति ॥ वाणीभूषणेऽप्युक्तम्-'यदावृत्तयो गन्धकर्णकमेण भवेयुश्चतस्रो वरं वृत्तमेतत् । भुजङ्गप्रयातं हरिप्रीतिहेतोर्भुजङ्गाधिराजस्तदा संजगाद ।।
१२७. भुजङ्गप्रयातमुदाहरति-जहा (यथा)अहो इत्याश्चर्ये । इयं कामराजस्य मदननरपतेः सेना, नागरी अतिकुशला । राजत इति शेषः । यद्वा-इयं नागरी कंदर्पभूमिपतेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org