________________
परिशिष्ट (२)
[२३९
११८. उपेन्द्रवज्रामुदाहरति-जहा (यथा)
यस्य सुधर्मे चित्तं येषामेवंविधा गुणवन्तः पुत्रा सुकर्मरक्तं विनीतं कलत्रं चेद्भवति, स्वयं च विशुद्धदेहा निरोगशरीराश्च भवन्ति चेत् । धनयुक्तागृहाश्चेत्, तदा कुर्वन्ति के वा वर्वराः स्वर्गाकाक्षां स्वर्गे स्नेहं कुर्वन्ति । एतादृशसामग्रीयुक्तानां पुरुषाणां भूलोकः स्वर्गादप्यतिरिच्यते इति ॥ यथा वा[णीभूषणे]-'न षट्पदश्रेणिभिरेणदृष्टेर्न वा नवाम्भोधरकन्दलीभिः । अतुल्यता स्यात्कबरीलतेति दिवा समुन्मीलति नान्धकारः ॥' उट्टवणिका यथा-151, 551, 151, 55, ११४४-४४ ॥ उपेन्द्रवज्रा निवृत्ता ॥
११९. अथोपजातयः
इन्द्रवज्रोपेन्द्रवजे छन्दसी एकं कुरु चतुरधिकं दश नाम १४ जानीहि । समजातौ समान्येवाक्षराणि देहि पिङ्गलो भणति। एवमुपजाति कुर्विति । पादाकुलकं छन्दः ॥
१२०. तत्र चतुर्दशोपजातिभेदानयनप्रकारमाह
चतुरक्षरस्य प्रस्तारं कुरु इन्द्रोपेन्द्रवज्रयोः लघुगुरूंश्च जानीहि । मध्ये सर्वलध्वोरन्तराले चतुर्दशोपजातयो भवन्तीति पिंगलो जल्पति किमिति व्याकुलीभवथ शिष्या इति । अयमर्थ:-चतुरक्षरप्रस्तारस्तावत्षोडशविधः । तत्र गुरुचतुष्टयेनेन्द्रवज्रायाश्चतुष्पादज्ञानम् । चतुर्ध्वपि पादेष्विन्द्रवज्राया आदौ गुरुरिति शेषेन लघुचतुष्टयेनोपेन्द्रवज्रायाश्चतुर्ध्वपि पादेष्वादौ लघुरिति पादचतुष्टयज्ञानं भवति । मध्ये चोपेन्द्रवज्रापादमादि कृत्वा चतुर्दशोपजातयो भवन्तीति ॥ पादाकुलकं छन्दः ॥ वाणीभूषणेऽपि–'उपेन्द्रवज्रापदसंगतानि यदीन्द्रवज्राचरणानि च स्युः । तदोपजाति: कथिता कवीन्द्रैर्भेदा भवन्तीह चतुर्दशास्याः' ॥ इति ॥
१२१. उपजातिमुदाहरति जहा (यथा)
गौरी शिवं प्रत्याह-बालः कुमारः स्कन्दः स षण्मुण्डधारी । षण्मुख इत्यर्थः । उपायहीना अर्जनासमर्थाहमेकला नारी । हे भिक्षुक शिव, त्वमहर्निशं विषं खाद भक्षय । गतिर्भवित्री किल का । अस्माकं षण्मुखधारिणो बालकस्य भोजनमत्यावश्यकमित्येकलाया मम का वा गतिर्भविष्यति तन्न वेद्मि । तव तु भिक्षुकस्य गरलभोजनेनापि क्षुत्प्रतिकारदर्शनादिति भावः । 'बालो' इत्यत्र 'उप्पाअ' इत्यत्र च पादद्वये इन्द्रवजाया लक्षणम्, पादद्वये चोपेन्द्रवज्राया लक्षणमिति द्वादशी रामाख्येयमुपजातिरिति । अन्याश्चोपजातयः सुबुद्धिभिराकरेषु मत्कृतोदाहरणमञ्जयां च द्रष्टव्या इति ॥ अत्र च 'बाल: कुमारः' इति 'गतिर्भवित्री' इति सविसर्ग केचित्पठन्ति । स च विसर्गो न दोषाय लौकिकभाषाया अनियमात् । संस्कृतमिश्रणाद्वेति सिद्धान्तः ॥
१२२. चतुर्दशानामप्युपजातीनां नामान्याह
कीर्तिः १, वाणी २, माला ३, शाला ४, हंसी ५, माया ६, जाया ७, बाला ८, आद्रा ९, भद्रा १०, प्रेमा, ११, रामा १२, ऋद्धिः १३, बुद्धिः १४ [इति] तासामाख्याः ॥ विद्युन्मालाछन्दः ॥ एवमुपजातयः प्रदर्शितरूपानुसारेणाकरतो मत्कृतोदाहरणमंजरीतोऽप्युदाहर्तव्या इत्यलमतिविस्तरेण ॥ एते च भेदा रुद्रवर्णप्रस्तारपिण्डसंख्यातः समधिका इति ध्येयम् ॥ उपजातयो निवृत्ताः ॥
अथैकादशाक्षरप्रस्तारे एव कानिचिवृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र रथोद्धताछन्दःहारसंगपयोधरा करं शङ्खयुक्तवलयेन संगतम् । बिभ्रती कनककुण्डलं मुदं कामिनीव कुरुते रथोद्धता ॥ कामिनीपक्षेऽर्थः स्पष्टः ॥ 'रात्परैर्नरलगै रथोद्धता' इति च्छन्दोमञ्जयाँ राद् रगणात्परैर्नगणरगणलघुगुरुभी रथोद्धताछन्दः । यथादीर्घघोषकुलदेवदीर्घिकापङ्कजं रविकरो व्यराजत । ईय॑यैव दुहितुः पयोनिधेर्यत्र वासमकरोत्सरस्वती ॥ उट्टवणिका यथा-5, ISI, IIS, I, 51, 5, ११४४४४ ॥ यथा वा[णीभूषणे] राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदै रथोद्धता । यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाह्रतिच्छलात् ॥ उद्दवणिका यथा-515, II, sis, I, 5, ११४४४४ ॥ इति रथोद्धता निवृत्ता ॥ अथ स्वागताछन्दःहारिणी कनककुण्डलयुक्ता पुष्पपुष्करयुगा वलयश्रीः । वणिताहिपतिवक्त्रसहस्रैः स्वागता हरति कस्य न चेतः ॥
अय च स्वमेवागता स्वागता सुन्दरमागतमागमनं यस्या वेति तादृशी नायिका कस्य न मानसं हरतीति ध्वनिः ॥ 'स्वागता रनभगैर्गुरुणा च' इति छन्दोमायाँ रगणनगणभगणगुरुभिर्गुरुणा च स्वागता भवतीत्युक्तम् । यथा
पङ्कजं तदपि पाथसि मग्नं चन्द्रमाः स च घनान्तरितोऽभूत् । त्वन्मुखेन्दुहतयापि विनोदं नैव हन्त सहते हतरेखा ॥ उट्टवणिका यथा-5, 1, 5, I, IIs, |s, 5, ११४४=४४ ॥ यथा वा[णीभूषणे]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org