________________
२३८]
प्राकृतपैंगलम् 'प्रणमत मधुरिपुचरणं भवजलनिधिपरितरणम् । अभिनवकिसलयरुचिरं सुरपतिसकलभयहरम् ।।' इति । उट्टवणिका यथा-III, Im, 115, ११४४४४ ॥ दमनकं निवृत्तम् ॥
१११. अथ सेनिकाछन्दः
भोः शिष्याः, यत्र प्रथमं ताल आदिगुरुस्त्रिकलः । तत एवं णन्दसमुद्दतूरआ आनन्दसमुद्रतूर्याख्या आदिगुरवस्त्रिकला एवं ततश्च जोहलेन रगणेन मध्यलघुकगणेनैतच्छन्दः पूरणीयम् । अत्र च-एकादशाक्षराणि पादे ज्ञातव्यानीति नागराजेन पिङ्गलेनजल्पितां सेनिकां जानीत इति ॥ श्रेण्युदीरिता रजौ रलौ गुरुः' इति छन्दोमञ्जर्या गणभेदेन नामान्तरमुक्तम् ।। वाणीभूषणे तु-'हारशकुमण्डनेन मण्डिता या पयोधरेण वान्त्य अङ्किता । रूपनूपुरेण चातिदुर्लभा सेनिका भुजङ्गराजवल्लभा ।' गुरुलघुरूपेणैकादशापि वर्णा यत्र सा सेनिका । सैव च यदा हारशङ्खविपरीताभ्यां रूपनूपुराभ्यां क्रमशो मण्डिता सती वसुवर्णानन्तरं च यदि रगणविपरीतेन पयोधरेण जगणेनाङ्किता भवति तदा सा भुजङ्गराजवल्लभातिदुर्लभा सेनिका च्छन्दोद्वयमुक्तमिति ॥
११२. सेनिकामुदाहरति-जहा (यथा)
कश्चिद्बन्दी कर्णनरपति स्तौति-स कर्णो जयतीति युग्मकेनान्वयः । स कः । झटिति पत्तीनां पतत्पादाघातेन भूमिः कम्पिता। यस्य । तथा यः स्वतुरगाणां टापोत्खातधूलीजालैः सूर्योऽपि समाच्छन्नः । येन च गौडराज जित्वा तस्य मनोऽहंकारो मोटितः । येन कामरूपराजस्य बन्दीकृता वनिता मोचिता ॥ यथा वा[णीभूषणे]-'साधुधाष्टबाहुराजिमण्डिता रक्तबीजरक्तपानपण्डिता । चण्डमुण्डशुम्भदम्भखण्डिका मङ्गलानि नो ददातु चण्डिका ॥' उट्टवणिका यथा-51, 51, 51, 51, 5, 5 ११४४४४ ॥ हारशङ्खविपरीतरूपनूपुररूपः यथा-'मुदा पदं सदा वहे महेश तवापि काममद्भुतं गणेश । करालभालपट्टिका विशाल भजे मदीयहृत्सरोमराल ॥' उट्टवणिका यथा-15ISISISIS1, ११४४४४ ॥ सेनिका निवृत्ता ॥
११३. अथ मालतीछन्दः
भोः शिष्याः, यत्र कुन्तीपुत्राः पञ्च कर्णाः शरसंख्यया दत्ता ज्ञायन्ते, अन्ते च कर्णानामवसाने कान्तः सुन्दर एको हारो गुरुर्मान्यते अभ्यर्हितः क्रियते । एवमेकादशापि वर्णा यत्र गुरवः क्रियन्ते । अत एव पादे पादे गकारद्वैगुण्येन द्वाविंशतिर्मात्रा दृष्टाः । तन्मालतीनामकं छन्दो नागेश: शेषः पिङ्गलो जल्पतीति । भूषणे तु-'आदौ चत्वारोऽस्या कर्णा दृश्यन्ते शेषे यस्यां रामा हारा जायन्ते । रुद्रैर्वणः पादे पादे संख्याता मालत्येषा वाणीभूषा विख्याता ॥'
११४. मालतीमुदाहरति-जहा (यथा)
स्थाने स्थाने हस्तियूथा दृश्यन्ते यथा मेरुशृङ्गे नीला मेघाः प्रेक्ष्यन्ते । अपि च वीराणां हस्ताग्रे खड्गो राजते नीलमेघमध्ये नृत्यन्ती विद्युदिवेति ॥ यथा वा[णीभूषणे]-'पायान्मायामीनो लीनः कल्पान्ते प्रादिक्क्षोणीभर्तु': पाणिक्रोडे यः । व्याप्ताम्भोधिस्तस्मिन्काले लीलाभिः सम्यक्सौषध्या यत्पृष्ठे तिष्ठन् ॥' उट्टवणिका यथा-55, 55, 55, 55; 55, 5, ११४४४४ ॥ मालती निवृत्ता ।।
११५. अथेन्द्रवज्राछन्दः
भोः शिष्याः, यत्रादौ दीयते तकारयुगलं तगणयुगलं पदेषु चतुर्ध्वपीत्यर्थः । अन्ते तकारयुगलावसाने नरेन्द्रो जगणो गुरुमध्यको गस्तस्यापि शेषे गुरुयुगं तद्धवं निश्चितमिन्द्रवज्राख्यं छन्दः इति फणीन्द्रो जल्पति । मात्राश्चाष्टादशात्र पादे भवन्ति । समा नाधिका इत्यर्थः । सुसज्जा शोभनीकृत्य लिखिता इत्यर्थः । अत एव छन्दोमञ्जर्याम्-'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इत्युक्तम् ॥ वाणीभूषणे तु-'कर्णध्वजौ गण्डमृगेन्द्रहारा भवन्ति तस्याश्चरणे समास्ते । तामिन्द्रवज्रामतिमात्रकान्तां भोगीन्द्रवक्त्राब्जमरन्दधाराम् ॥'
११६. इन्द्रवज्रामुदाहरति-जहा (यथा)
कर्पूरमञ्जरीसाटकस्थं भैरवानन्दकापालिकस्य राजानं प्रति वचनम्-अहं मन्त्रं तन्त्रं वा खलु निश्चयेन उभयोर्मध्ये किमपि न जाने, ध्यानं च न जाने, कोऽपि गुरुप्रसादौ नो नास्तीत्यर्थः । तर्हि किं जानासीत्यत आह-मद्यं पिबामः, महिला रमामः, कौलमार्गलग्ना मोक्षं व्रजाम इति । यथा वाणीभूषणे-'रक्ताम्बुदेनोदितलम्बमाला शीतांशुचण्डातपकुण्डलाभ्याम् । तारांशुतारावलिहृद्यहारैः स्वीयां श्रियं भूषयतीव संध्या ॥' उट्टवणिका यथा-551, 551, ISI, 55, ११४४४४ ॥ इन्द्रवज्रा निवृत्ता ॥
११७. अथोपेन्द्रवज्राछन्दः
भोः शिष्याः, यत्रादावेको नरेन्द्रो जगणो गुरुमध्यमो गणः, ततः सुतरां सज्जस्तगणोऽन्तलघुर्गणः, तदनन्तरं पयोधरो जगण एव । ततः कर्णगणो ज्ञातव्यः । तदुपेन्द्रवज्रानामकं फणिराजेन पिङ्गलेन दृष्टं शुभं वर्णसाटकं वर्णरचितपद्यं छेका विदग्धाः पठन्ति । अतएव छन्दोमञ्जर्याम्-'उपेन्द्रवज्रा प्रथमे लघौ सा' इत्युक्तम् ॥ वाणीभूषणे 'तु-पयोधरं हारयुगं दधाना कर सशङ्ख वलयद्वयं च। उपेन्द्रवज्रा भुजगैकसारा विराजते पन्नागराजकान्ता ॥' द्वितीयोऽर्थः स्पष्टः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org