________________
परिशिष्ट (२)
[२३७ भोः कविवराः, तत्र प्रथमं द्विजवरश्चतुर्लघुको गणः, ततो हारो गुरुः, ततो लघुयुगलम् अनन्तरं वलयो गुरुः, ततः प्रतिष्ठितं हस्ततलं सगणो गुर्वन्तगणो यत्र एवं वदे चतुर्दशमात्रा रुद्रवर्णाश्च यत्र तां सुमुखी जानीतेति जल्पत्यहि: शेषनाग इति । वाणीभूषणे तु प्रकारान्तरेण लक्षणमभिहितम् यथा-'नगणचिरालयसद्वितयं कविजनभाषितवृत्तचयम् । प्रभवति शेषसहस्रमुखी विनिगदितेह तदा सुमुखी ॥'
१०४. सुमुखीमुदाहरति-जहा (यथा)
कश्चिदतिदुराचारिणं मित्रमुपदिशति-एतानि यौवनदेहधनान्यतिचपलानि स्वप्नसहोदरा: स्वप्नतुल्या बन्धुजनाः । अथ च अवश्यं कालपुरीगमनम् । अतः कारणाद्धे वर्वर वितथभाषिन्, पापे मनः परिहर ॥ उट्टवणिका यथा-II, 5, II, 5, us, ११४४४४, सुमुखी निवृत्ता ।
१०५. अथ दोधकछन्द:
भोः शिष्याः, यत्र प्रथमं चामरं गुरुः, तदनन्तरं काहलयुगं लघुद्वयं स्थाप्यते ततो हारो गुरुः, तदनन्तरं लघुद्वयम्, ततः तत्थ तथा धारणीयम् । हारानन्तरं पुनः स्थापनीयमित्यर्थः । पदान्ते च कर्णगण: कर्तव्यः, तद् दोधकमिति छन्दसो नाम कथ्यते । भगणत्रयं गुरुद्वयाभ्यां दोधकमिति फलितोऽर्थः । अत एव भूषणे-'भत्रितयं यदि कर्णसमेतं पिंगलनागसुभाषितमेतत् । पण्डितमण्डलसंहृतचित्तं भामिनी भावय दोधकवृत्तम् ॥ 'दोधकमिच्छति भत्रितयाद्गौ' इति छन्दोमञ्जर्यामप्युक्तम् ।
१०६. दोधकमुदाहरति-जहा (यथा)
स शंकरस्तुभ्यं सुखं ददातु । स कः । पिंगजटावलीषु स्थापिता गङ्गा येन सः । तथा येनार्धांगेन नारी पार्वती धृता । यस्य शीर्षे [अति]णोक्खा परमरमणीया चन्द्रकला । राजत इति शेषः ॥ उट्टवणिका यथा-50, 50, 50, 55, ११४४४४ ॥ दोधकं निवृत्तम् ॥
१०७. अथ शालिनीछन्द:
भोः शिष्याः, सर्पराजेन पिंगलेन सा शालिनी आज्ञप्ता । सा का। यत्र कर्णो द्विगुणो भवति प्रथमं द्वौ को द्विगुरुकगणौ, तत एको हारो गुरुर्विसृज्यते । ततश्च शल्यो लघुः, ततोऽपि कर्णः तदनन्तरं लघुः, अनन्तरं कर्ण एव श्रूयते । एवं पदे रुद्रसंख्या वर्णा विंशती रेखाः कलाः पादे पादे यत्र गण्यन्ते । सा शालिनीति ॥ वाणीभूषणेऽपि 'कृत्वा कौँ मण्डितौ कुण्डलेन शङ्ख हारं नूपुरं रावयुक्तम् । धृत्वा युग्मं चामरं चाविभाति शालिन्येषा प्रेयसी पिङ्गलस्य ॥' द्वितीयोऽर्थः स्पष्टः ॥ छन्दोमञ्जर्यां तु सयतिनियम गणान्तरेण लक्षणमुक्तं यथा-'मात्तौ गौ चेच्छालिनी वेदलोकैः' इति ॥ . १०८. शालिनीमुदाहरति
कर्पूरमञ्जरीसाट (सट्ट) कस्थं कापालिकभैरवानन्दस्य वचनं राजानं प्रति-रण्डा विधवा चण्डा परमकोपना दीक्षिता दीक्षितपत्नी अन्याश्च धर्मदाराः । गच्छाम इति शेषः । मद्यं मांसं पीयते खाद्यते च । भिक्षया भोजन चर्मखण्ड: शय्या । कौलो धर्मः कापालिकधर्मः कस्य रम्यो रमणीयो न भातीति ॥ उट्टवणिका यथा-55, 55, 5, I, 55, I, 55, ११४४=४४ ॥ यथा वाणीभूषणे-'आरभ्यन्ते शर्मकर्माणि नूनं प्राज्ञैर्लोक वाच्यतामात्रभीतैः । तन्निष्पत्तौ वासुदेवः प्रमाणं को वा वक्ता कृत्यकर्ताहमस्मि' ॥ शालिनी निवृत्ता ॥ अत्रैव 'वातोर्मीयं गदिता भ्भौ तगौ गः' इति ग्रन्थान्तरे ॥ तत्र यदि पूर्वं म्भौ मगणभगणौ, अथ च तगौ तगणगुरू भवतः ततश्च गो गुरुर्भवति । तदा इयं वातोर्मी गदिता तन्नाम वृत्तमुक्तमित्युक्तम् ॥ यथा 'ध्याता मूर्तिः क्षणमप्यच्युतस्य श्रेणी नाम्नां गदिता हेलयापि । संसारेऽस्मिन्दुरितं हन्ति पुंसां वातोर्मी पोतमिवाम्बुधिमध्ये' ॥ उट्टवणिका यथा-555, I, 551, 55, ११४४४४ ॥ अत्रानयोवृत्तयोरेकत्र पञ्चमो वर्णो गुरुरन्यत्र च लघुरिति स्वल्पो भेद इति कृत्वा चतुर्दशोपजातिभेदा उत्तरत्र दर्शयिष्यमाणपरिपाट्या विज्ञातव्या इति सूच्यत इत्यलमतिविस्तरेणेति ॥
१०९. अथ दमनकच्छन्दः
भोः शिष्याः, यत्र प्रथम द्विजवरयुगं चतुर्लघुकगणद्वयम् ततो लघुद्वयं पदे पदे अन्ते प्रकटितो वलयो गुरुयंत्र । एवं पदचतुष्टयेऽष्टचत्वारिंशत् ४८ कला यत्र, तद्दमनकमतिललितं छन्दो भवतीति फणिपतिः पिङ्गलो भणति । द्विजवरद्धयसगणाभ्यां दमनक छन्द इति फलितोऽर्थः । तथा च भूषणे-'द्विजवरगणयुगममलं तदनु चकलय करतलम् । फणिपतिवरपरिगणितं दमनकमिदमतिललितम् ॥ इति ॥
११०. दमनकमुदाहरति-जहा (यथा)
भो लोकाः, श्रीमधुमथनं कृष्णं प्रणमत । कीदृशम् । परिणतस्य परिपूर्णषोडशकलस्य शशधरस्येव वदनं यस्य तम् । पुनः विमल-कमलदलवन्नयनं लोचनं यस्य तम् । विहितमसुरकुलानां दनुजकुलानां दलनं कृतं येन तम् ॥ यथा यथा वा[णीभूषणे]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org