________________
२३६]
प्राकृतपैंगलम् भवन्ति तध्रुवं निश्चितं सारवतीति छन्दः कथितमिति गुरुर्लघुद्वयं गुरुलघू जगणलघ्वादिस्त्रिकलैः च यत्र तत्सारवतीछन्द इति फलितोऽर्थः ॥ वाणीभूषणे तु प्रकारान्तरेण लक्षणमभिहितं यथा-'दीर्घलघुद्वयमद्विगुणा हारविराजिचतुश्चरणाः । पिङ्गलनागमते भणिता सारवती कविसार्थहिता ॥
९६. सारवतीमुदाहरति-जहा (यथा)
कश्चिच्छालीनगृहस्थः स्वगार्हस्थ्येन संतुष्टो गर्वायते-भो अनुजीविनो लोका हे मित्रेति वा । यस्य मम पवित्राः शुद्धाः । पितृभक्ता इति यावत् । एवंविधाः पुत्राः पुन्नाम्नो नरकात्त्रातारस्तनयाः सन्ति । अथ च यस्य ममात्मजाः पवित्राः पविः कुलिशं तस्मादपि त्रायन्ते वज्रादपि रक्षका महावीरपराक्रमाः सन्ति । अथ च यस्य मम बहुलं धनं धनाधीशप्रतिस्पधि । विद्यत इति शेषः । अपि च कुटुम्बिनी वधू शुद्धमना अकुटिलान्त:करणा सती भक्ता भर्तृजनतत्परा वास्ति । यस्य च मम हक्केण अमुकेति वाड्मात्रेण भृत्यगणः सेवकवर्गः त्रस्यति । एवं सकलसुखानुभवे सति को वा वर्वरोऽतिवाचाटः स्वर्गे मनः करोति । महीतल एव स्वर्गसुखादपि बहुलतरशर्मलाभादिति भावः । उट्टवणिका यथा-5, II, 5, I, ISI, 15, १०x४=४० ॥ यथा वा[णीभूषणे]-'माधवमानय मत्सविध किं सखि चिन्तय मित्रवधम् । यत्र करिष्यसि मत्प्रणयं नो मम याति तदासमयम् ॥' एतदनुसारेणोट्टवणिकापि प्रदर्श्यते-5, I, II, 51, 5, १०x४=४० ॥ सारवती निवृत्ता ।
९७. अथ सुषमाछन्द:
हे मुग्धे, यत्र प्रथमः कर्णो द्विगुरुगणः जुअलो द्वितीयो हस्तः सगणो गुर्वन्तगणो भवति । ततस्तिअलो तृतीयः कर्ण एव सर्वशेषे हस्तः सगण एव प्रकटो यत्र दशाक्षरचरणे षोडश कला भवन्ति । अथ छक्का वलयाः षड्गुरवश्चतस्त्र शेषाः रेखा चेत्येवं षोडश मात्रा यत्र सा सुसमा प्राणसमा। अतिप्रियेत्यर्थः ।। भूषणे त्वन्यथोक्तम्-'कर्णो द्विलघुः कर्णो भगण: शेषे गुरुणा पूर्णश्चरणः । यस्यां भवति मुग्धे परमा सैषा सुषमा दीव्यत्सुषमा ॥'
९८. सुषमामुदाहरति-जहा (यथा)
यस्या भ्रूः कपिला, उच्चं ललाटम्, यस्याश्च नेत्रयुगलं मध्ये पीतम् । बिडालसदृशमित्यर्थः । अथ च रूक्षं वदनं दन्ताश्च विरला दृश्यन्ते कथं जीवति यस्य त्वमपीहशी प्रिया भवसीति परमकुत्सितरूपां कराला प्रति कस्याश्चित्कान्तसकलावयवाया वचनम् ॥ उट्टवणिका यथा-55, Is, 55, 05, १०x४-यथा वा[णीभूषणे]-'एणीनयने केलीकलहे प्रेयान्वद किं किं नो कुरुते । धन्या रमणी सर्वं सहते दुःखं सुखवत्स्वांते मनुते ॥' तदनुसारेणोट्टवणिका यथा-55, 4, 55, 51, 5, १०x४=४० ॥ सुषमा निवृत्ता ॥
९९. अथामृतगतिछन्दः
भोः शिष्याः, सा अमृतगतिरिति ध्रुवं निश्चितं कथिता । सा का । यत्र द्विजवरगणश्चतुर्लघ्वात्मको गणः, ततो हारो गुरुः प्रकटितः, पुनरपि तथा स्थितं कुरु द्विजगणानन्तरं गुरुं कुर्वित्यर्थः । एवं सत्यष्टौ लघवो द्विगुरुसहिताश्चरणे यस्याः सामृतगतिरिति । वाणीभूषणे तु–'नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥' क्वचिदियमेव त्वरितगतिरिति ।।
१००. अमृतगतिमुदाहरति-जहा (यथा)
हे प्रियसखि, त्वया सा तरुणी दृष्टा । कीदृशी । शारदसुधाकरवदना । पुनः कीदृशी । विकचसरोरुहनयना । मदकलकुञ्जरगमना ॥ इति ॥ उट्टवणिका यथा-Ill, S, III, 5, १०x४=४० ।। अमृतगतिनिवृत्ता । अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्रं १०२४ भेदा भवन्ति ॥ तेषु पञ्च भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनीया इति ॥
१०१. अथैकादशाक्षरप्रस्तारे बन्धुच्छन्दः
षोडशवर्णात्मकैर्भगणपञ्चकयुक्तैः षोडशभिश्चरणैश्चतुश्छन्दोभिप्रायेण नीलस्वरूपं छन्दो भवति । अतश्च नीलस्वरूपादेकश्चरण: कर्तव्यः । तत्र चरणे षोडशवर्णपञ्चभगणगुर्वात्मके त्रयो भगणा गुर्वादिका गणा भण्यते । अन्ते भगणत्रयान्ते द्विगुरुः कर्णो दीयते पादे च षोडश मात्रा: स्थाप्यन्ते यत्र तद् बन्धुनामकं छन्दः कथ्यते । भूषणेऽप्युक्तम्-'भत्रयशोभितसंगतकर्णः एकसुसंगतपङ्क्तिकवर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः ॥' .
१०२. बन्धुमुदाहरति-जहा (यथा)
पाण्डववंशे जन्म कृतम् । संपदमर्जयित्वा धर्मार्थं दत्तम् । तेनापि युधिष्ठिरेण संकटो वनवासाज्ञातवासलक्षणः प्राप्तः । अतः कारणावेन विधात्रा लिखितं कः प्रमाष्टि । न कोऽपीत्यर्थः ॥ उट्टवणिका यथा-51, 5, 51, 55, ११४४४४ ॥ यथा वा[णीभूषणे] भक्षितवासरनायकचन्द्रः कामिसहस्तसमाहिततन्द्रः । दर्शितलोलतडित्करवाल: सोऽयमुपैति घनागमकालः ॥' [बन्धुनिवृत्तः ॥]
१०३. अथ सुमुखीछन्द:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org