________________
परिशिष्ट (२)
८७. अथ तोमरच्छन्दः
हे कान्ते यस्यादौ हस्तं सगणं गुर्वन्तं गणं विआण विजानीहि । तथा द्वौ पयोधरौ जगणौ गुरुमध्यमौ गणौ जानीहि । नागनरेन्द्रो दर्वीकराधारः प्रकर्षेण भणतीति तत्प्रामाण्यादेवं तोमराख्यं छन्दो मानय । वाणीभूषणेऽप्युक्तम्- प्रथमं करं विनिधाय जगणद्वयं च निधाय । इति तोमरं सुखकारि कविराजवत्रविहारी ॥'
[ २३५
८८. तोमरमुदाहरति- जहा (यथा ) -
काचित्प्रोषितपतिका वसन्तसमयेऽपि कान्तमनागतं मत्त्वाऽतिनिर्विण्णमानसा साकूतं सखीमाह - हे सखि, कोकिलशावकाः पिकपोतकाश्चतं रसालं प्रति चलिताः । अथ च मधुमासेऽस्मिन्पञ्चमं स्वरं च गायन्ति । अतः प्राप्ते वसन्ते मनोमध्ये मन्मथस्तपति । मनो मन्मथस्तापयति । न खलु कान्तोऽद्याप्यायातीति ॥ यथा वाणीभूषणे ] - 'सखि मादके मधुमासि व्रज सत्वरं किमिहासि । सह तेन किं विहरामि किमु पावकं प्रविशामि ॥ उट्टवणिका यथा - 115, 151, 151, ९x४ = ३६, तोमरं निवृत्तम् ॥
८९. अथ रूपमालीच्छन्दः
भोः शिष्याः, नागराजः पिंगलः सारमत्युत्कृष्टमिदं छन्दो जल्पति । यत्र च चत्वारः कर्णाः द्विगुरवो गणाः अन्ते पदान्ते हा गुरुः । ए एक इत्यर्थः । एवं नवाप्यक्षराणि गुरूणि मात्राश्चाष्टादश द्विगुणाभिप्रायेण गुरूणां यत्र पादे तद् रूपमालीनामकछन्दः कथ्यते इति ॥ अयं च नवाक्षरप्रस्तारे प्रथमो भेदः । अत एव वाणीभूषणे - ' चत्वारोऽस्मिन्कर्णा जायन्ते छन्दस्येकं हारं कुर्वन्ते । रन्ध्रा वर्णाः पादे राजन्ते रूपामालीवृत्तं तत्कान्ते ॥'
९०. रूपामालीमुदाहरति-जहा (यथा) -
काचित्प्रोषितपतिका सखीमाह - यद्यस्माद्विद्युत्तडिन्नृत्यति । मेघान्धकाराश्च हरितो यस्मात् । यतश्च नीपाः कदम्बाः प्रफुल्लिताः । किं च मयूराः कूजन्ति । केकारवं कुर्वन्तीत्यर्थः । वान्ति मन्दाः शीता वाता: । कम्पन्ते गात्राणि । अतः प्राप्ता प्रावृट् । कान्तः परं नागत इति ॥ यथा वा [णीभूषणे ] - ' हत्वा शत्रुं नृत्यन्ती चण्डं सा चण्डी व कल्याणं कुर्यात् । देवेन्द्राद्याः प्रीत्या संप्राप्ताः संसेवन्ते यत्पादाम्भोजम् ॥' उट्टवणिका यथा - ऽऽ ऽऽ ऽऽ ऽऽ, 5, ९x४ = ३६ ॥ रूपामाली निवृत्ता | अत्रापि प्रस्तारगत्या नवाक्षरस्य द्वादशाधिकपञ्चशतभेदेषु सप्त भेदा दर्शिताः । शेषभेदा ऊहनीयाः सुमतिभिरिति ॥
९१. अथ दशाक्षरप्रस्तारे संयुताछन्दः
हे सुन्दरि, यस्यादौ हस्तः सगणो गुर्वन्तो गणो विज्ञातः । तथा वे द्वौ पयोधरौ जगणौ मध्यगुरुकगणौ ज्ञातौ अन्ते पदान्ते गुरुः । तत्पिङ्गलेन जल्पितं संयुतेति फलितोऽर्थः ॥ तथा च भूषणे - 'सगणं पुरः कुरु शोभितं जगणद्वयं गुरुसंगतम् । फणिनायकेन निवेदिता भवतीह संयुतका हिता ॥ '
९२. संयुतामुदाहरति- जहा (यथा ) -
काचित्सखी प्रोषितपतिकां नायिकामभिसारार्थं प्रेरयन्त्याह - हे सुन्दरि, सर्वावयवरमणीये, दुर्जनस्थापनां कुलीनतारूपव्यवस्थां परित्यज्य अप्पणा आत्मनैव याहि । संकेतनिकुञ्जगतमभिमतमिति भावः । यतः - विकसत्केतकीसंपुटे प्राविट्काले न खल्वद्याप्यागतः स वराक इति ॥ उट्टवणिका यथा - 115, 151, 151, 5, १०x४ = ४० [ संयुक्ता निवृत्ता ॥ ]
९३. अथ चम्पकमालाछन्दः
भोः शिष्याः अत्र प्रथमं हारो गुरुः स्थाप्यते । ततः काहलद्वयम् । लघुद्वयमित्यर्थः । ततः कुन्तीपुत्रः कर्णो द्विगुरुको गणः । कीदृशः कर्णः । एकगुरुजुता एकगुरुयुक्तः । ततो हस्तः सगणो गुर्वन्तगणा: क्रियते । पदान्ते हारो गुरुः स्थाप्यते । एवं दश वर्णाः पादे यत्र क्रियन्ते तच्छन्दश्चम्पकमालेति कथ्यते । वाणीभूषणे प्रकारान्तरेणोक्तम्, 'पादविराजन्नूपुरयुग्मा कुण्डलशोभासङ्गिसुवर्णा । शङ्खवती हारद्वयपूर्णा चम्पकमाला भाति सुवर्णा ॥' क्वचिदियमेव रुक्मवती, क्वचिच्च रूपवतीति ॥
९४. चम्पकमालामुदाहरति - जहा (यथा ) -
शाल्योदनं गोघृतदुग्धसंयुक्तम्, किंच माइणिमच्छा मत्स्यविशेषः, नालिच: शाक, एतत्सर्वं कान्तया स्वहस्तेन रम्भापत्रे कदलीदले दीयते पुण्यवता भुज्यते इति कस्यचिदाद्यूनस्य विदूषकस्य वा सोपहासं वचनमिति ॥ उट्टवणिका यथा - 511, 55, 5, ॥5, 5, १०x४=४० ॥ चम्पकमाला निवृत्ता ॥
Jain Education International
९५. अथ सारवतीछन्द:
भोः शिष्याः, यत्र प्रथमं दीर्घो गुरुः, तदनन्तरं लहूजुअ लघुद्वयमित्यर्थः । ततोऽपि दीर्घो 'गुरुः, तदनन्तरमेको लघुः ततश्चान्ते दीर्घलघ्वोरन्ते पयोधरो जगणो गुरुमध्यमो गणो यत्र । ततोऽपि ध्वजो लघ्वादिस्त्रिकलः । एवं दश वर्णाः पादे मात्राश्चतुर्दश च यत्र
For Private Personal Use Only
www.jainelibrary.org