________________
२३४]
प्राकृतपैंगलम्
७८. महालक्ष्मीमुदाहरति-जहा (यथा)
सा सिंहासना सिंहाधिरूढा चण्डिका व: पातु । सा का । यस्या गले मुण्डानां माला कण्ठिका कण्ठभूषेत्यर्थः । यस्या नागराजो भुजायां संस्थितः । कथंभूता चण्डिका । व्याघ्रकृत्त्या पुण्डरीकचर्मणा कृतं वसनं वस्त्रं यथाभूता व: पात्विति ॥ उट्टवणिका यथा-515, 55, 515, ९x४३६ ॥ महालक्ष्मी निवृत्ता ।।
७९. अथ सारङ्गिका छन्दः
हे सखि, यत्र प्रथमं द्विजवरचतुर्लघुको गणः, ततः कर्णो द्विगुर्वात्मको गणः ततः सगणोऽन्तगुरुर्गणः एवंप्रकारेण यत्र पदे पदे मात्रागणनं क्रियत इति शेषः । तदेवाह-शराः पञ्च मुनयः सप्त मिलित्वा द्वादश मात्रा: पादे लभ्यन्ते यस्याः सा सारङ्गिका कथ्यते द्विजवरकर्णसगणैर्नवाक्षरपदा सारङ्गिका छन्द इति फलितोऽर्थः ॥ तथा च वाणीभूषणे-'द्विजवरकौँ सगणं विरचय यस्याश्चरणम् । जगदभिरामं हि तया भवति हि सारङ्गिकया ॥'
८१. सारङ्गिकामुदाहरति-जहा (यथा)
हे प्रियसखि, त्वया सा दृष्टा । कीदृशी? हरिणसदृशं नयनं चञ्चलत्वात्तदुपमा यस्याः सा एणाक्षीत्यर्थः । कमलसदृशं विकचं सुगन्धि च वदनं यस्याः सा पुनर्युवजनानां चित्तं हरति तच्छीला इति कस्याश्चित्सख्याः सखीं प्रति वचनम् ।। उट्टवणिका यथाIIII, 55, 15, ९x४=३६ ॥ यथा वाणीभूषणे-'प्रणमत राधारमणं नृ(न)गनृपबाधाशमनम् । असुरमदापाहरणं यदुकुलचूडाभरणम् ॥' सारङ्गिका निवृत्ता ॥
८१. अथ पाइत्ताछन्दः
भो शिष्याः, यत्र कुन्तीपुत्रः कर्णस्तयोर्युगं तेन गुरुचतुष्टयं पूर्वं यत्र लभ्यते तीए ततस्तृतीये वा स्थाने ध्रुवं निश्चितं विप्रश्चतुर्लघुको गणः कथ्यते । यत्र चान्ते चरणान्ते हारो गुरुर्जन्यते तदेतत् 'पाइत्ता' छन्दसो रूपं फणिना पिङ्गलेन भणितम् ।। तथा चोक्तं भूषणे-'आदौ कर्णद्वयललितं कृत्वा विप्रं गुरुसहितम् । तद्वृत्तं पिङ्गलभणितं पाइत्तेति श्रवणहितम् ॥'
८२. पाइत्तामुदाहरति-जहा (यथा)
काचित्प्रोषितपतिकां निजसखीमाह-हे प्रियसखि, 'वर्षासमयेऽहमागमिष्यामि' इति प्रतिज्ञाय प्रस्थितो वल्लभः । तदिदानी नीपाः कदम्बाः पुष्पिताः, भ्रमरा द्विरेफा भ्रमन्ति, मेघा अपि जलसभरा नीरमिश्रिता दृष्टाः विद्युत्सौदामिन्यपि नृत्यति । अतः परमपि कथय कान्तः कदाऽऽयास्यतीति । एतादृशेऽपि समये नागतश्चेन्निश्चितं स कान्त एव सुखनाशकत्वात् तु वल्लभ इति भावः ॥ उट्टवणिका-55, 55, 0, , 5, ९x४=३६ ॥ पाइत्ता निवृत्ता ॥
८३. अथ कमलच्छन्दः
भोः शिष्याः, यत्र सरसौ रमणीयौ द्विजगणौ चतुर्लघुकगणौ पतितौ । पदान्ते च गुरुध्रियते । एवं पदे नव वर्णाः दश कलाश्च प्रतिपदं यत्र पतिताः तत्कमलनामकं छन्द इति ॥ यथा च वाणीभूषणे-'द्विजवरकगणयुगं कलय गुरुविरतिगम् । भणति फणिपतिरिदं कमलपतिरतिपदम् ॥'
८४. कमलमुदाहरति-जहा (यथा)
चलति कमलनयना, स्खलति स्तनवसनम्, हसति परनिकटे, अत एव ध्रुवं निश्चितमियं वहुलिआ वधूटी असतीत्येवं मन्ये इति शेषः । उट्टवणिका यथा-III, IIII, 5, ९x४=३६ कमलं निवृत्तं ।
८५. बिम्बच्छन्द:
भो गुणिनः, स्वभावादेवं गुणयत नात्र काठिन्यं किंचिदिति भावः । यत्र गुरुयुगलं सर्वशेषे पादान्ते शिरसि आदौ द्विजश्चतुर्लघुर्गणः मध्ये विप्रकर्णयोरमध्ये राजा जगणो गुरुमध्यो गणो यस्मिस्तत्फणिना पिङ्गलेन रचितं बिम्बनामकं छन्द इति ॥ भूषणे तु गणभेदेनोक्तं यथा-'नगणकरगन्धकर्णं भवति नववर्णपूर्णम् । फणिवदनभूषणं यद्भवति किल बिम्बमेतत् ।।'
८६. बिम्बमुदाहरति-जहा (यथा)
हे वयस्य राजन् वा, एतच्चलं वित्तं चलति । किं च तरुणत्ववेशस्तारुण्यरूपं नश्यति । अतः कारणात्सुपुरुषस्य शौयौदार्यगाम्भीर्यमर्यादाप्रभृतिगुणेन बद्धा नद्धा शुद्धा शरच्चन्द्रावदाता स्थिरा कल्पान्तस्थायिनी कीर्तिरवतिष्ठते वित्तयौवनादिकमतिचञ्चलत्वान्नश्वरमित्य[त:] कीर्तिमेकामुपार्जयेति राजानं प्रति मित्रं प्रति वा कस्यचिन्निपुणमतेर्वचनमिदम् ॥ उट्टवणिका यथा-1, 151, 55, ९x४३६, बिम्बो निवृत्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org