________________
का
परिशिष्ट (२)
[२३३ ७४. तुंगामुदाहरति
कमले बद्धानां भ्रमराणां जीवो जीवनदाता बन्धनमोचनादिति भावः । सकलभुवनदीपस्त्रिभुवनप्रकाशकत्वादिति भावः । दलितस्तिमिरस्य डिम्ब उपप्लवो येन । 'प्रादुर्डिम्ब उपप्लवे' [इति] देशीकोषात् । एतादृशस्तरणिबिम्ब उदेति ॥ उट्टवणिका यथा॥ ॥ 55; ८x४=७२ ॥ तुंगा निवृत्ता ॥
७५. अथ कमलच्छन्दः
हे सखि, यत्र प्रथमो विप्रगणश्चतुर्लघ्वात्मको गणः, द्वितीयस्तथा नरेन्द्रो जगणः तस्यान्ते गुरुः । अनया रीत्या पदेऽष्ट वर्णा भवन्ति तत्कमलनामकं छन्दः । उक्तं च भूषणे-'द्विजवरगणान्वितं जगणगुरुसंगतम् । फणिनृपतिजल्पितं कमलमिति कल्पितम् ।।'
७६. कमलमुदाहरति-जहा (यथा)
असुरकुलमर्दनो गरुडवरवाहनो वलेः सकाशाद्भुवनापेक्षक: स जनार्दनो जयति सर्वोत्कर्षेण वर्तत इति ॥ उट्टवणिका यथाII IIS 15; ८x४=३२, कमलं निवृत्तम् ॥
अथ माणवकक्रीडितकं छन्दो ग्रन्थान्तरस्थमुच्यते
भादिगणं कर्णधरं सान्तमिदं वृत्तवरम् । पन्नगराजेन कृतं माणवकक्रीडितकम् ।।
यत्र प्रथमं भगणः ततः कर्णः, ततोऽपि सगणः तद्वृत्तं माणवकक्रीडितकमिति ॥ यथा
कोकवधूशोकहरं पद्मवनीबोधकरम् । गाढतमोनाशकरं नौतितरामुष्णकरम् ।। उट्टवणिका यथा-505505 ८x४=३२ छन्दोमञ्जर्यां तु-'भात्तलगा माणवकम् ।' भाद्भगणात्तलगास्तगणलघुगुरवो यत्र भवन्ति तन्माणवकं छन्द इति गणभेदेनोक्तम् ॥ यथा-चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम् । ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम् ॥' उद्दवणिका यथा-51 551 15, ८x४=३२ ॥ माणवकक्रीडितकं निवृत्तम् ॥
अथानुष्टुप्छन्दः
लघु स्यात्पञ्चमं यत्र गुरु षष्ठं च सप्तमम् । द्वितुर्यपादयोर्हस्वमष्टाक्षरमनुष्टुभम् ॥ यत्र च्छन्दसि पञ्चममक्षरं चरणचतुष्टयेऽपि लघु तथैव षष्ठं गुरु द्वितीयचतुर्थयोः पादयोः सप्तमं ह्रस्वं लम्वित्यर्थः । शेषवर्णा अनियता यत्र । एवमष्टाक्षरं वृत्तमनुष्टुभं जानीयादिति शेषः । अन्यत्रापि–'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानीयाच्छेषास्त्वनियता मताः ॥' इति ॥
यथा
हृदयं मदयन्त्येते मदोन्मत्ताः शिलीमुखाः । विषाक्ताः पुष्पधनुषो मूर्ता इव शिलीमुखाः ।।
अथ क्रमेण 'अलिबाणौ शिलीमुखौ' इत्यमरनिर्देशादर्थोऽवगन्तव्य इति । उट्टवणिका यथा-||5|555, ISISI551, ॥ इदमेव हलायुधवृत्त्यादिषु च्छन्दोग्रन्थेषु नानागणभेदेन विषमवृत्तेषु वक्त्रसंज्ञां लभते । सकलपुराणेषु च साधारण्येनाष्टाक्षरपादस्यानुष्टुबिति प्रसिद्धिः । विशेषतस्तु विद्युन्मालादीनि वृत्तान्यष्टाक्षरप्रस्तारे दर्शितानि । अत एव च्छन्दोमञ्जर्यामेकाक्षरादिषड्विंशत्यक्षरपादानां वृत्तानां पृथक्पृथक्साधारणसंज्ञाः प्रोक्ताः ।
यथा
'आरभ्यैकाक्षरात्पादादेकैकाक्षरवधितैः । पादैरुक्थादिसंज्ञा स्याच्छन्दः षड्विंशतिं गता ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पक्तिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शर्करी चातिपूर्वास्यादष्ट्यत्यष्टी ततः स्मृते ॥
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्चैव तथाविकृतिरुत्कृतिः ॥ इत्युक्ता छन्दसां संज्ञा' इति ।
विशेषतस्तु तत्र तत्र प्रस्तारे तत्रैव संज्ञा ज्ञातव्या । इत्यास्तां विस्तरेण ।। अत्र प्रस्तारगत्याष्टाक्षरस्य षट्पञ्चाशदधिकं द्विशतं भेदाः । येषु कियन्तो भेदा उदाहृताः शेषभेदा ऊहनीयाः सुबुद्धिभिरिति ।
७७. अथ नवाक्षरप्रस्तारे महालक्ष्मीछन्दः
हे मुग्धे, यत्र नागराजेन पिङ्गलेन ये वर्णितास्ते त्रयोऽत्र जोहागणा रगणाः । मध्यलघुका गणा इति यावत् । दृष्टाः । अतो नवाक्षरं पदम्, पदे च मासार्धसंख्याभिः पञ्चदशभिर्मात्राभिः स्थितां महालक्ष्मिकां जानीहि । तदुक्तं वाणीभूषणे-'दृश्यते पक्षिराजत्रयं
यत्र वृत्ते मनोहारके । संततं पिङ्गलेनोदिता सा महालक्ष्मिका कीर्तिता ॥' Jain Education International For Private & Personal Use Only
www.jainelibrary.org