________________
प्राकृतपैंगलम्
हासशारदनीरदप्रभृतयः श्वेता वर्णितास्तानशेषानेषा युष्मत्कीर्तिर्जितवती ॥ उट्टवणिका यथा - ऽऽऽऽऽऽऽ; ७x४ = २८ ॥ यथा वाणीभूषणे'दृष्टः कृष्णः कालिन्दीतीरे गोगोपानन्दी । वेणुक्वाणैरुत्कानां चेतोहर्ता गोपीनाम् ॥' इति ॥ शीर्षा निवृत्ता ॥ अत्र प्रस्तारगत्या सप्ताक्षरस्याष्टाविंशत्यधिकशत (१२८) भेदेषुचत्वारो भेदाः प्रदर्शिताः । ग्रन्थविस्तारभीत्या शेषभेदा नोदाहृता: सुधीभिरूह्यास्त इति ॥
२३२]
६७. अष्टाक्षरप्रस्तारे सर्वगुर्वात्मकमाद्यं विद्युन्मालाछन्दो लक्षयति
भोः शिष्याः यत्र पादे चरणे लोलाञ्श्चञ्चलाञ्चत्वारः कर्णा द्विगुरवो गणा भवन्ति गुरुद्विगुणाः षोडशमात्राश्च तद्विद्युन्मालाछन्दो वेदविश्राममेवंरूपं चतुष्पादं वसुगुरुचरणं भवतीति खत्री क्षत्रियजातिनागराजो भत्ती भक्त्या जल्पतीति वित्थ । अत एवोक्तं कालिदासेन–'सर्वे वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदैर्वेदैः । विद्वद्वृन्दैर्वीणावाणि व्याख्याता सा विद्युन्माला ॥' वाणीभूषणेप्युक्तम्'उक्ता । यस्यामष्टौ वर्णाः पादे पादे सर्वे दीर्घाः । विश्रामः स्यात्तर्ये तुर्ये विद्युन्माला निर्दिष्टा सा ॥' इति ॥
६८. विद्युन्मालामुदाहरति-जहा (यथा)
कश्चिद्बन्दी संगरं वर्णयति - उन्मत्ता वीररसाविष्टा योधाः सुभय ढुक्कन्ताः परस्परं मिलिता इत्यर्थः । कीदृशाः । विपक्षाणामहितानां मध्ये लुक्खन्ता निलीयमानाः । एवं निष्क्रान्ताः परबलं व्यापाद्य निर्गता यान्तो निजबलादरातिचक्रं प्रतीत्यर्थः । धावन्त इतस्ततश्चारिसंवरणार्थमित्यर्थः । अत एव नितरां भ्रान्तां त्रैलोक्यभ्रमणशीलां कीर्ति प्राप्ताः कीर्तिशेषा जाता इत्यर्थः ॥ उट्टवणिका यथाऽऽऽऽऽऽऽऽ; ८x४=३२ ॥ यथा वाणीभूषणे - आगामिन्यो नो यामिन्यो या या याता भूयो भूयः । अभ्रच्छायावत्तारुण्यं मानेनानेन स्यात्कि ते ॥' ग्रन्थान्तरे तु - ' मो मो गो गो विद्युन्माला' । मगणद्वयं गुरुद्वयं च यस्मिस्तद्विद्युन्मालाच्छन्द इति गणभेदेन लक्षणमभिहितम् । यथा- 'वासोवल्ली विद्युन्माला बर्हश्रेणी शाक श्चापः । यस्मिन्स स्यात्तापोच्छित्त्यै गोमध्यस्थः कृष्णाम्भोदः ॥' उट्टवणिका यथाऽऽऽ ऽऽऽ ऽऽ; ८x४ = ३२ ॥ विद्युन्माला निवृत्ता ॥
६९. अथ प्रमाणिका छन्द:
यत्र लघुर्गुरुश्च निरन्तरं भवति सा प्रमाणिकाछन्द इत्यर्थः । सा कतिवर्णेत्यपेक्षायामाह - अट्ठअक्खरा । अष्टाक्षरेत्यर्थः । सेयं प्रमाणिका चेद्विगुणा क्रियते । षोडशाक्षरपदेत्यर्थः । तदा स न (ना)राचो भण्यत इत्युत्तरत्र षोडशाक्षरपदच्छन्दसो लक्षणमपि लक्ष्यतेऽनेनेति ॥ वाणीभूषणेऽपि 'प्रसूनकुण्डलकमैरिहाष्टवर्णविभ्रमैः । भुजंगराजवर्णिता प्रमाणिकेति सा मता ॥'
७०. प्रमाणिकामुदाहरति- जहा (यथा ) -
निशुम्भशुम्भयोर्दैत्ययोः खण्डिनी खण्डयित्री गिरीशस्य रुद्रस्य गेहं मण्डयत्यलंकरोति या सा गेहमण्डिनी कलत्ररूपेणेत्यर्थः । एवंविधा प्रचण्डानां दैत्यभटानां मुण्डखण्डिका चण्डिका कात्यायनी वः प्रसन्नास्तु | ग्रन्थान्तरे तु 'नगस्वरूपिणी' इति नामान्तरम् ॥ अत एव कालिदासग्रन्थे - 'द्वितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तां बुधा नगस्वरूपिणीम् ॥' इत्याह ॥ उट्टवणिका यथा – IS SISIS; ८x४= ३२ ॥ छन्दोमञ्जर्यां तु - 'प्रमाणिका जरौ लगौ' ॥ जगणरगणो लगौ लघुगुरू च यस्मिंस्तत्प्रमाणिकाछन्द इति गणभेदेन लक्षणमभिहितम् । यथा - 'पुनातु भक्तिरच्युता सदाच्युताङ्घ्रिपद्मयोः । श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका ।" उणिका यथा - ISIS ISIS; ८x४ = ३२ प्रमाणिका निवृत्ता ॥
७१. अथ मल्लिकाछन्दः
हारो गुरुः, गन्धो लघुः बन्धुरेण प्रथमं गुरुरनन्तरं लघुरेवं क्रमेण दृष्टान्यक्षराणि यत्रेति तादृशेन चरणेन द्वादशमात्रेण मल्लिकाख्यं छन्दो जानीहि ॥ तदुक्तं वाणीभूषणे - 'हारशङ्खकक्रमेणमण्डिताष्टवर्णकेन । वर्णिता कुतूहलेन मल्लिकेति पिंगलेन ।' इयमेव ग्रन्थान्तरे 'समानिका' इत्युच्यते ॥
७२. मल्लिकामुदाहरति- जहा (यथा ) -
येन भगवता धृतपरशुरामावतारेण क्षत्रियवंशो जितः । अथ च येन कृतकृष्णावतारेण अरिष्टो मुष्टिकः केशीकंसश्च जित इत्यनेनैवान्वयः । येन च बाणासुरस्य सहस्रबाहो : पाणयः कर्तिताश्छिन्नाः ॥ स युष्मभ्यं सुखं ददातु ॥ उट्टवणिका यथा - 5151 SI SI; ८x४= ३२, मल्लिका निवृत्ता ॥
७३. अथ तुंगाछन्द:
हे तरलनयने, यत्र प्रथमगणेन गणः सुरंगो भवति । कति गणास्ततेत्यपेक्षायामाह -नगणयुगलेन बद्धो गुरुयुगलेन च प्रसिद्धस्तुंगाख्यं छन्दः । पूर्वं नगणद्वयम्, अनन्तरं गुरुद्वयमिति फलितोऽर्थः । तदुक्तं भूषणे - 'द्विगुणनगणकर्णैः सुललितवसुवर्णैः । रसिकविहितरंगा प्रभवति किल तुंगा ॥'
Jain Education International
For Private Personal Use Only
www.jainelibrary.org