________________
परिशिष्ट (२)
[२३१ 'यदा जगणद्वि भवेदमलघु(?) | फणी वितनोति स मालतिकेति ॥'
५६. मालतीमुदाहरति-जहा (यथा). हे सखि बहुगुणवन्तः प्रसादाद्यनेकगुणयुक्ताः किरणाः प्रसूताः प्रफुल्लिताः कुन्दाः, उदितश्चन्द्र इति कस्याश्चिन्नायिकायाः सखीं प्रति वचः ॥ उट्टवणिका यथा-151 151, ६x४=२४, मालती निवृत्ता ।
५७. अथ दमनकच्छन्दः
यत्र प्रथमं द्विजवरश्चतुर्लघुको गणः क्रियते पश्चात्सुप्रियो लघुद्वयात्मको गणो भण्यते । नगणद्वयेन [दमनकं छन्दः] इति फलितोऽर्थः तद्दमनकं छन्द इति गुणो फणिपतिर्भणति ॥ वाणीभूषणे तु–'द्विगुणनगणमिह वितनुहि । दमनकमिति [प्रति] गदति हि॥'
५८. दमनकमुदाहरति-जहा (यथा)
कमलनयना अमृतवचना तरुणी गृहिणी यदि पुनर्मिलति तदा तां विहाय न कुत्रापि गमिष्यामीति कस्यचिद्विदेशस्थस्य कामिनो मित्रं प्रति वचनम् ॥ उट्टवणिका यथा-01, ६x४२४, दमनकं निवृत्तम् ।। अत्र प्रस्तारगत्या षडक्षरस्य चतुःषष्टिधंदा भवन्ति । तेष्वाद्यन्तभेदसहिता अष्टौ भेदा प्रोक्ताः । शेषभेदाः सुधीभिरूहनीयाः । ग्रन्थविस्तारशङ्कया नात्रोक्ता इति ॥ .
५९. अथ सप्ताक्षरप्रस्तारे समानिकाछन्दः
हे प्रिये, सा समानिकाछन्द इत्यर्थः । यत्र पदे चत्वारो हारा गुरवः क्रियन्ते । अन्तरान्तरा च त्रयो गन्धा लघवः क्रियन्ते। एवं सप्ताक्षराणि यस्यां गुरुलधुरूपेण स्थितानि सा समानिकेत्यनुषज्यते ॥ तथा च वाणीभूषणे-'हारमेरुगा यदा रज्जुगा भवेत्सदा। सप्तवर्णसंगता सा समानिका मता ॥'
६०. समानिकामुदाहरति-जहा (यथा)
कुंजरा दन्तावलाश्चलन्ति स्म अत एव पर्वताः पतन्ति । यद्वा पर्वतान्प्रेरयन्तो गजाश्चलन्ति स्मेति योजनीयम् । अतश्चादिकूर्मस्यापि पृष्ठं कम्पितं धूल्या सूरस्तरणिः समाच्छादितः इति कस्याचिद्बन्दिनश्चलति कर्णे राजनि वचनम् ॥ उट्टवणिका यथा-51515153 ७x४=२८, समानिका निवृत्ता ॥
६१. अथ सुवासच्छन्दः
हे प्रिये, यत्र लघवः सुतरां विशिष्यन्ते । तदेवाह-आदौ चतुर्मात्रकं विरच्य अन्ते भगणमादिगुरुगणं दत्त्वा सुवासनामकं छन्दो भण ॥ तदुक्तं वाणीभूषणे-'द्विजगणमाहर भगणमुपाहर । भणति सुवासकमिति फणिनायक ॥'
६२. सुवासकमुदाहरति-जहा (यथा)
गुरुजनभक्ता बहुगुणयुक्ता यस्य त्रयः पुत्रा स एव पुण्यवान् पुरुषः ॥ उट्टवणिका यथा-IIsh; ७४४=२८ ॥ यथा च वाणीभूषणे-'गिरिवरनन्दिनि दुरितनिकन्दिनि । विहितनतौ मयि कुरु करुणामयि ॥' सुवासको निवृत्तः ।।
६३. अथ करहंची
भोः शिष्याः, यत्र चरणे प्रथमं विप्रश्चतुर्लघुको गणः स्थाप्यते, तस्यान्ते जगणो मध्यगुरुको गणस्तां करहंची जानीत । अत एव वाणीभूषणे-'द्विजगणमवेहि जगणमनुदेहि । विविधरससञ्चि भवति करहञ्चि ॥'
६४. करहञ्चीमुदाहरति-जहा (यथा)
काचिदनुगमनपरा सुभटी विधातारमाह-हे धातरित्युपरिष्टात् । एह एषाहं त्यजामि गत्वा देहम् । यदि कदाचिदतः परमपि जिवउ जीवामि पुनर्जन्मान्तरं लभेयमि (?) त्यर्थः । तदा मम निर्गुणः सगुणो वा स एव रमणो भवतु विरहस्तु कदापि मा भवत्विति प्रार्थये त्वामिति भावः ॥ उट्टवणिका यथा-॥ ॥51; ७x४=२८ ॥ करहंची निवृत्ता ॥
६५. अथ शीर्षरूपकं छन्दः
हे मुग्धे, यत्र चरणस्था: सप्तापि वर्णा दीर्घा गुरवो भवन्तीत्यर्थः । तत्र गणनियममाह-कर्णा गुरुद्वयात्मका गणास्त्रयस्तेषामग्र एकं गं गुरुमानय। एवं पदे सप्त । मात्रानियममाह-चतुर्दश मात्रा द्विगुणार्थमवगन्तव्या । वर्णवृत्तवर्णानामेव संख्यानियमादिति । अत एव भूषणे-'उक्ता वर्णाः सप्तास्यां सर्वे दीर्घाः स्युर्यस्याम् । एषा शीर्षा निर्दिष्टा केषां हर्ष नादेष्टा ।'
६६. शीर्षामुदाहरति--जहा (यथा)
कश्चिद्बन्दी कर्णमुपेत्य तत्कीर्ति वर्णयति-हे राजन्, चन्द्रो धवलकरः, कुन्दो माध्यं पुष्पम्, काशः शरदि जायमानं ताणं कुसुमम् । ए इति भाषया एते । किंच हारो मुक्तैकावली हीरं वजं हंसो मराल एते । अनुक्ताश्च जगति ये ये पारदकैलासहर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org