________________
२३०]
प्राकृतपैंगलम् ४३. शेषामुदाहरति-जहा (यथा)
उद्दामे संग्रामे [युध्यमाना] नृत्यन्ती कालिका हम्मारो अस्माकं दुरितं तापं संहरतु ॥ उट्टवणिका यथा-555555; ६x४=२४, शेषा निवृत्ता ॥
४४. अथ तिलकाछन्दः
हे प्रिये तत्तिलकाख्यं छन्दः । यत्र ध्रुवं निश्चितं सगणद्वयमन्त्यगुणद्वयं भवति । षड्वर्णात्मकं पदम् । पदे चाष्टौ कला धृता यत्रेति कला संख्या शिष्यबोधनार्थं पदपूरणार्थं वा । अन्यथाक्षरवृत्ते वर्णसंख्याया एवावश्यकत्वादिति ॥ वाणीभूषणेऽपि-'सखि सद्वितयं सुदतीह यदा । रसवर्णपदा तिलकेति तदा ॥'
४५. तिलकामुदाहरति-जहा (यथा)
कश्चित्स्वमित्रं प्रत्याह प्रियभक्ता प्रिया, गुणवान् सुतः, धनवद्गृहं बहुसुखकरमित्येतत्सर्वं यस्य भवति स धन्य इति भावः ।। उट्टवणिका यथा-|||5; ६x४२४ ॥ तिलका निवृत्ता ॥
४६. अथ विज्जोहाछन्दः
यत्र पादे पादे षडक्षराणि स्थितानि । यत्र च पञ्चद्विगुणा दश मात्राः । तत्रैव गणनियममाह-विण्णि द्वौ जोहागणौ रगणौ यत्र तत् विज्जोहाछन्दः नामगणयोरैक्यम् ॥ वाणीभूषणे तु 'विमोहा' इति नामान्तरम्-'यत्र पादद्वये दृश्यते द्धयम् । नागराजोदिता सा विमोहा मता ॥
४७. विज्जोहामुदाहरति
कंससंहारी पक्षिसंचारी देवकीनंदनो मे मह्यं निर्भयं ददातु । ममाभयप्रदो भवत्वित्यर्थः ॥ उट्टवणिका यथा-515515; ६x४%२४ । विज्जोहा निवृत्ता ॥
४८. अथ चतुरंसाच्छन्द:
यत्र द्विजवरचतुर्लध्वात्मको गणः प्रथमम्, ततः कर्णो द्विगुरुर्गणः, अत एव स्फुटं रसवर्णं षडक्षरं पदं यत्र तां फणिपतिभाषितां चतुरंसां स्थापय ॥ वाणीभूषणेऽपि--'द्विजवरकर्णाविह रसवर्णा । भवति यदा सा किल चतुरंसा ॥'
४९. चतुरंसामुदाहरति-जहा (यथा)गौरीकान्तो यदि यदा अभिनये संस्ताण्डवे वर्तमानो यस्य प्रसन्नः, स तदा द्यावापृथिव्योर्धन्यः ।। ५०. जहा वा (यथा वा)भुवनानन्दस्त्रिभुवनकन्दो भ्रमरसवर्णो जयति कृष्णः ॥ उट्टवणिका यथा-mss; ६x४%3D२४ ॥ चतुरंसा निवृत्ता ॥ ५१. अथ मन्थानच्छन्दः
हे मुग्धे, यत्र कामावतारार्धेन पादेन मात्रा दश शुद्धाः प्रतिपादमत्र भवन्ति । तन्मन्थाननामकं छन्दः । अयमर्थः-अग्रे वक्ष्यमाणस्य विंशतिकलात्मनः कामावतारस्य छन्दसोऽर्धेन दशमात्रात्मकेन षडक्षरेण पादेन मन्थाननाम छन्दो भवति । तत्र गणनियम उच्यते 'पूर्वतगणोऽनन्तरमपि स एव' इति ॥ वाणीभूषणे तु-'कर्णध्वजानन्दमाधाय सानन्द । वर्णे रसैर्वेत्तु मन्थानमेतत्तु ॥'
५२. मन्थानमुदाहरति-जहा (यथा)
हे सज्जन, राजा यत्र लुब्धः पण्डितोऽपि मुग्धः । तत्र राजकुले त्वं स्वकीर्ति करे रक्ष । स्वविद्याप्रकाशं मा कुर्वित्यर्थः । स वादोऽप्युपेक्ष्यताम् । यत्र न ज्ञाता कश्चिदिति भावः । उट्टवणिका यथा-551551, ६x४=२४ ॥ मंथानं निवृत्तम् ॥
५३. अथ शङ्खनारीछन्द:
यत्र षड्वर्णाः पदे भवन्ति भुजङ्गप्रयातस्याग्रे वक्ष्यमाणस्य यगणचतुष्टयात्मकस्य च्छन्दसोऽर्धेन यद्वयेनैतस्य चरणो भवति पादे पादे यगणद्वयं भवति तच्छङ्खनारीछन्दः ॥ वाणीभूषणे तु-'ध्वजानन्दकर्णाः षडेवात्र वर्णाः । बुधानन्दकारी भवेच्छलनारी ॥"
५४. शङ्खनारीमुदाहरति-जहा (यथा)
यस्य गुणाः शुद्धाः, यस्य वधू रूपेण मुग्धा सुन्दरी, यस्य गृहे वित्तं जाग्रदस्ति तस्य मही पृथ्वी स्वर्गः ॥ उट्टवणिका यथा-55 155; ६x४=२४, शङ्खनारी निवृत्ता ॥
५५. अथ मालतीछन्दः
हे कान्ते, यत्र प्रथमं ध्वजो लघ्वादिस्त्रिकलः ततः शरद्धयं लघुद्वयम्, ततश्च मणिगुणो हारो गुरुरित्यर्थः । ततोऽन्ते एको लघुर्देयः । सा मालतीनामकं छन्दो भवतीति जानीहिति जगणद्वयेन मालती छन्द इति फलितोऽर्थः । तथा च वाणीभूषणेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org