________________
परिशिष्ट (२)
[२२९
३१. घारीमुदाहरति-जहा (यथा)
देवानामपि देवः शंभुर्युष्मभ्यं शुभं ददातु । यस्य शीर्षे चन्द्रो दृश्यते । चन्द्रशेखर इत्यर्थः । उट्टवणिका यथा-5151; ४४४=१६ ॥ घारी निवृत्ता ॥
३२. अथ नगाणी छन्दः
यत्र पयोधरो जगणो गुरुमध्यमो गणो गुरूत्तरो गुर्वन्तो भवतीत्यर्थः । वर्णचतुष्टयात्मकं पदम् । तन्नगाणी छन्दो भवति । अर्थात्-द्वितीयश्चतुर्थश्च वर्णो गुरुर्भवतीति ॥ तदुक्तं वाणीभूषणे 'द्वितुर्यके गुरुयंदा । नगाणिका भवेत्तदा ॥'
३३. नगाणीमुदाहरति-जहा (यथा)
सरस्वती प्रसन्ना भवतु कवित्वं स्फुरतु ॥ उट्टवणिका यथा-1515; १६ । नगाणी निवृत्ता । अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश भेदा भवन्ति । तेषु ग्रन्थविस्तरशङ्कया त्रयो भेदाः प्रदर्शिताः ॥ अन्यैः(न्ये) सुधीभिरूहनीयाः इति ॥
३४. अथ पञ्चाक्षरप्रस्तारे सर्वगुरुः संमोहाछन्द:
यत्र बे द्वौ कौँ गुरुद्वयात्मकगणौ पूर्वं भवतः । तत एको हारो गुरुः । एवमेकस्मिश्चरणे पञ्चापि गुरवो भवन्ति तत् भूतलसारं संमोहानामकं छन्दः इत्यर्थः । तथा च वाणीभूषणे 'द्वौ कौँ हारः संमोहा सारः । वर्णाः पञ्चैवं नागाधीशोक्तम् ।।
३५. संमोहामुदाहरति-जहा (यथा)
उद्दण्डा महिषासुरादिवधेनोद्भटा चण्डी कात्यायनी दुरितं खण्डयतु (त्रैलोक्यस्य सुखम्) मे मोक्षं च ददातु, इति कश्चिद्भक्तो देवी प्रार्थयते इति ॥ उट्टवणिका यथा-55555; ५ x ४ = २० ॥ संमोहा निवृत्ता ॥
३६. अथ हारीछन्दः
आदौ हाराभ्यां गुरुभ्यां तथा चान्ते हाराभ्यां संयुक्तम् तयोर्मध्ये गन्धो लघुरेको यत्र तत् हारी छन्दः । पञ्चाक्षरपदम् । आदावन्ते कर्णो मध्येलघुः एवं पञ्चवर्णात्मकं पदमित्यर्थः ॥ वाणीभूषणेऽपि 'आद्यन्तकर्णाः पञ्चैव वर्णाः । लघ्वेकघारी वाच्यः स हारी ॥'
३७. हारीमुदाहरति-जहा (यथा)
या भर्तभक्ता धर्मैकचित्ता भवति सैव नारी धन्या प्रिया च भर्तुर्भवतीति भावः । उट्टवणिका यथा, 55155; ५४४=२०॥ हारी निवृत्ता ॥
३८. अथ हंसच्छन्दः
भोः शिष्याः, पिङ्गलेन दृष्टं भगणं दत्वा पूर्वं सृष्टम् पश्चात्कर्णं गुरुद्वयात्मकगणं दत्वा हंसाख्यं पञ्चाक्षरपदं छन्दो भवतीति ज्ञातव्यम् ॥ अत एव वाणीभूषणे 'पिंगलदिष्टो भादिविशिष्टः । कर्णयुतोऽसौ भामिनि हंसः ॥'
३९. हंसमुदाहरति-जहा (यथा)
काचित्प्रोषितपतिका सखीमाह-हे सखि, स मम कान्तोऽधुना दूरे दिगन्ते वर्तते । इयं च प्रावृट् आगता चेतश्चालयति । किमिदानीमाचरणीयमिति शिक्षयेति भावः ॥ उट्टवणिका यथा-||55; ५४४=२० ॥ हंसो निवृत्तः ॥
४०. अथ यमकच्छन्द:
हे मुग्धे, यन्न सुप्रियगणो द्विलघुक एव गणो भवति । अथ च शरेणैकेन लघुना सुगुणं संयुक्तं एतादृशं [न]गणं सरहश्लाघ्यमेतस्य गणस्य कुर्वित्यर्थः । एतादृशं सर्वलध्वात्मकपञ्चाक्षरप्रस्तारान्त्यभेदं पञ्चाक्षरपदं यमकाख्यं छन्दो भण पठेत्यर्थः । वाणीभूषणेऽप्युक्तम्-'नगणमनु द्विलघु कुरु । फलितमिति यमकमिति ॥'
४१. यमकमुदाहरति-जहा (यथा)
पवनो मलयनिलो वहति । कीदृशः । शरीरं साहयत्यसौ सहः । 'षहस् गतौ' इत्यस्य दिवाद्यस्य (?) रूपम् । यद्वा तादृशं पवनं शरीरं कर्तुं सहते । 'साहयत्याहवक्षोभं सहति द्रविणव्ययम् । अन्यायं सहते नासौ सिध्यति क्षितिरक्षणः ॥' इति कविरहस्ये हलायुधवचनप्रामाण्यादिति । अपि च मदनो हन्ति तापयति च मनः । इति प्रोषितपतिकावचनं सखी: प्रतीति व्याख्येयमिति । उट्टवणिका यथा-1, ५x४=२० ॥ यमकं निवृत्तम् । अत्र प्रस्तारगत्या पञ्चाक्षरस्य द्वात्रिंशद्भेदा भवन्ति । तेषु भेदेषु चतुष्टयमुक्तम् । शेषभेदा नोदाहृता ग्रन्थविस्तारभीत्या, सुधीभिस्तूह्या इति ॥
४२. अथ षडक्षरप्रस्तारे सर्वगुरुरूपमाद्यं भेदं शेषाख्यं छन्दो लक्षयति
यत्र द्वादशमात्राः । शिष्यबोधनार्थं मात्रासंख्या । गणनियममाह-यत्र च त्रयः कर्णा गुरुद्वयात्मकास्त्रयो गणा भवन्ति । षडक्षरं पदम् । एतदेव द्रढयति-षड्भिहारैर्गुरुभिर्बन्धो यत्र तच्छेषाख्यं छन्दःसु राजा । श्रेष्ठं छन्द इत्यर्थः ॥ तदुक्तं वाणीभूषणेऽपि-'एषा वर्णैः षड्भिः प्रोक्ता छन्दोविद्भिः । सर्वे वर्णा यस्यां दीर्घा शेषा सा स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org