________________
२२८]
प्राकृतपैंगलम् शं सुखं करोतीति तथा शंकरः शिवः नः पातु, नः पातु ॥ आदरे वीप्सा ॥ उट्टवणिका यथा-515, १२ ॥ १६. अथ शशीछन्दः
यत्र पदे यो (यगण) आदिलघुर्यगणो जनित उत्पादितस्तच्छन्दः फणीन्द्रेण भणितम् ॥ भूषणेऽपि-'यकारो यदा स्यात् । शशी कथ्यते तत् ॥'
१७. तामुदाहरति-जहा (यथा)दुरितं हरन्ती हसन्ती भवानी युष्मानव्यादिति शेषः । उट्टवणिका यथा-155, १२ ॥ १८. अथ रमणछन्दःसख्य: यत्र पदे सगणो गुर्वन्तो गणः, तद्रमणाख्यं छन्दः कथितम् ॥ भूषणेऽपि-'सगणो रमणः । कविना कथितः ॥" १९. रमणमुदाहरति-जहा (यथा)यथा शशिना रजनी शोभते तथैव पत्या संयुक्ता तरुणी राजते । उट्टवणिका यथा-15, १२ ॥ २०. अथ पञ्चालछन्दःयत्र तकारस्तगणोऽन्त्यलघुदृष्टः स पञ्चाल उत्कृष्ट इति ॥ भूषणे तु 'कर्णेन गन्धेन । पञ्चालमाख्याहि ॥' २१. तमुदाहरति-जहा (यथा)स शिवो दुःखानि संवृत्य सुखानि ददातु ॥ भूषणेऽपि-'शर्माणि सर्वाणि । देयानि शर्वाणि ॥' उट्टवणिका यथा-551, १२ ॥ २२. अथ मृगेन्द्रच्छन्द:नरेन्द्रं जगणं गुरुमध्यमं गणं स्थापयन्तु मृगेन्द्रनामकं छन्दः कुर्वन्तु ॥ भूषणेऽपि-'नरेन्द्रमुदेहि । मृगेन्द्रमवेहि ॥' २३. तमुदाहरतिदुरन्तो वसन्तः, स कान्तो दिगन्ते ।। उट्टवणिका यथा-151, १२ ॥ २४. अथ मन्दरछन्दःहे सखि, भो भगणो गुर्वादिगणो यत्र तन्मन्दरनामकमतिसुन्दरं छन्दः । भूषणेऽपि-'भो यदि वञ्चति । मन्दरमञ्चति' ॥ २५. मन्दरमुदाहरति-जहा (यथा)स प्रसिद्धो हर: शिवो युष्माकं संकटं संहरतु || उट्टवणिका यथा-5॥ १२॥ मन्दरो निवृत्तः ॥ २६. अथ कमलच्छन्दः
हे सुमुखि, यत्र नगणस्त्रिलघ्वात्मको गणः क्रियते तत्कमलनामकं वर्णत्रयात्मकं छन्दः । तथा च वाणीभूषणे 'कमलमयतु । नगणमिह तु ॥'
२७. कमलमुदाहरति-जहा (यथा)
हे रमण, कुत्र गमनं क्रियत इति शेषः । उट्टवणिका यथा-1; १२ । कमलं निवृत्तम् ॥ अत्रापि त्र्यक्षरप्रस्तारगत्याष्टौ भेदा भवन्तीति तावन्तोऽप्युदाहृत्य प्रदर्शिताः ।।
२८. अथ चतुरक्षरप्रस्तारे प्रथम तीर्णा छन्दः
भोः शिष्य, यत्र चत्वारो हारा गुरवो भवन्ति इष्टाः (?) कराः । तत्र चरणे गणनियममाह-एकस्मिन्पादे द्वौ करें गुरुद्वयात्मकगणौ भवतः तत्तीर्णाख्यं छन्दः । वर्णचतुष्टयात्मकं पदम् ॥
वाणीभूषणेऽप्युक्तम्-'यस्मिन्वृत्ते कर्णः कर्णः । वेदैर्वणः सा स्यात्तीर्णा ॥' २९. तीर्णामुदाहरति-जहा (यथा)
कश्चिन्मित्रं प्रति वदति-जाया वधूर्माया महावञ्चिकेत्यर्थः । पुत्रा अपि धूर्ताः । एवं ज्ञात्वा क्रियतां युक्तम् इति ॥ उट्टवणिका यथा-5555। तीर्णोत्तीर्णा ॥
३०. अथ घारीच्छन्दः
हे मुग्धे, यत्र वर्णाश्चत्वारः पदे भवन्ति सा घारी । तस्यामुत्तरोत्तरो हारो गुरुद्वयम् द्वौ शरौ लघुद्वयं च ॥ अयमर्थः चतुर्वर्णात्मकपादे घारीनाम्नि च्छन्दसि प्रथमं गुरुः, ततो लघुः, अनन्तरं गुरुलघू । इत्युक्तं भवति-रगणः, ततश्चैको लघु-इति ॥ तदुक्तं वाणीभूषणे-'यत्तु पक्षि दण्ड लक्षि । वेद वर्ण घारि घारि' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org