SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः मदजलपरिमलपरिमिलदलिकलकलकपटकलितकमलवन । जय जय निजपदसरसिजनमदभिमतघटनजवन गजवदन ।। कृत्वा कौतूहलतो मात्रावृत्तस्य पिङ्गले भाष्यम् । लक्ष्मीनाथस्तनुते सद्भाष्यं वर्णवृत्तस्य ॥ अथैकाक्षरपादादारभ्यैकैकाक्षरवधितैः पादैः षडविंशत्यक्षरपर्यन्तं वर्णवृत्तान्युच्यन्ते । १. इतश्च लक्ष्यलक्षणयोरैक्यमवगन्तव्यम् ।। सा श्रीः । श्रीनामकं छन्द इत्यर्थः । यत्र गो गुरुर्भवतीत्यर्थः । अत्र सर्वत्र-'गुरुरेको गकारो लघुरेको लकारः' इति संकेतः ॥ भूषणेऽप्युक्तम्-'यद्गः सा श्रीः ॥ २. श्रियमुदाहरति-जहा (यथा)गौरी युष्मान्रक्षतु ॥ ३. यथा वाअत्रैकाक्षरप्रस्तारे द्वौ भेदौ गुरुर्लघुश्च । तत्राद्यो गुरुरुक्तः । द्वितीयः सुधीभिरूह्यः ।। ४. अथ व्यक्षरप्रस्तारे कामछन्दःयत्र द्वौ दीपों तत्कामाख्यं छन्दः रामोऽभिराम इत्यर्थः ॥ अक्षरद्धयात्मकं पदम् ॥ भूषणेऽपि-'यस्मिन्हारौ कामः स स्यात् ।।' ५. काममुदाहरति-जहा (यथा) युद्धे संग्रामे तुभ्यं शुभं ददातु शंभुरित्यर्थः ॥ यथा वा (भूषणेऽप्युक्तम्) 'कल्याणं वः । शंभुर्देयात्' । ग्रन्थान्तरे 'गौ स्त्री श्री' इति नामान्तरम् ॥ उट्टवणिका अथा-55, (८). ६. अथ मधुछन्दःयत्र लघु लघुद्वयं तन्मधुनामकं छन्दो निश्चितम् ॥ भूषणेऽपि-"द्विकलघु मधुरिति' ।। ७. उदाहरति-जहा (तथा)हे हर मम पापम् हर । उट्टवणिका यथा-II, (८). ८. अथ महीछन्दः-यत्र पूर्वं लघुः, ततो गुरुः, तन्मही कथिता ॥ भूषणेऽपि-'लघुर्गुरुमही स्मृता' । ९. तामुदाहरति-जहा (यथा)उमा गौरी त्वां रक्षतु कीदृशी । सती पतिव्रतेत्यर्थः ॥ उट्टवणिका यथा-15, (८). १०. अथ सारुछन्द:यत्र पूर्वो गुरुः, द्वितीयो रेखा लघुः, तत्साहनामकं छन्द । ११. सारुमुदाहरति जहा (यथा)अयं शंभुर्युष्मभ्यं ददातु ॥ उट्टवणिका यथा-51, (८). अत्र चत्वारो भेदा उदाहृताः ॥ १२. अथ अक्षरप्रस्तारे तालीछन्दः यत्र पूर्वं गो गुरुः, अनन्तरं कर्णो गुरुद्वयात्मकः । सर्वगुरुः (त्रिवर्ण:) सा तालीनामकछन्दः ॥ भूषणेऽपि-'ताली सा निर्दिष्टा ।....मो यत्र' ।। ग्रन्थान्तरे नारीति ।। १३. तामुदाहरति-जहा (यथा)स प्रसिद्धचण्डेशः शिवो युष्मानस्मान्रक्षतु || उट्टवणिका यथा-ऽऽऽ, १२ ॥ १४. अथ प्रियाछन्दःहे प्रिये, यत्र रे रगणे त्रीणि अक्षराणि, सा प्रिया लक्ष्यते ॥ भूषणेऽपि-'जोहलं दृश्यते । सा प्रिया कथ्यते ॥" १५. तामुदाहरति-जहा (यथा) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy