________________
२२६]
प्राकृतपैंगलम् पदचतुष्टये चत्वारिंशन्मात्राः । समुदितखण्ड चतुष्टयपिण्डकलासंख्या षष्ट्युत्तरशतात्मिका भवतीति धरास्थानकनि । एतादृश लक्षणलक्षितं दशवसुभुवनाष्टकविरतिकं मदनगृहं नाम छन्दः । इदमप्युदाहरणम् ॥
२०५ उक्तलक्षणमेवाह
द्वे मात्रे शिरसि आदौ स्थापयित्वा अन्ते पदान्ते वलयं गुरुं स्थापयन्तु । ततो । मात्राद्वयगुर्वोर्मध्ये नव चतुष्कलगणान्धृत्वा मदनगृहं नाम छन्दः कुरुत ।
२०६ किं च
पदचतुष्टये चत्वारिंशत्कला: पदचतुष्टयेऽपि दश गणाञ्जानीत । हे सुप्रियाः, पयोधरं जगणं वर्जयित्वा मदनगृहमिति छन्दः कुरुत ॥ भूषणे त्व [न्यथोक्तम्-'प्रथमं कुरु षट्कलमन्ते कुण्डलमिह मध्ये वसुतुरगधरं संतापहरं, दश वसुभुवनाष्टभिरत्र चरणमपि भवति विरामो यदि ललितं कविवलयहितम् । फणिनायकभणितं जगणविरहितं चत्वारिंशत्कलकलितं भुवने महितं, वृत्तं रसनिकर तन्मदनहरं नरपतिसंसदि लब्धपदं गुरुशोकनुदम् ॥"
२०७ मदनगृहमुदाहरति-जहा (यथा)
येन कंसो विनाशितः, अत एव कीर्तिः प्रकाशिता । येन मुष्टिकारिष्टयोविनाशः कृतः येन च गोवर्धनो गिरिर्हस्तेन धृतः । येन च यमलार्जुनौ भग्नौ । येन च पदभरेण गञ्जितं [कालिय] कुलम् । येन च यशसा भुवनं भृतम् । येन चाणूरोऽपि विखण्डितः येन च निजकुलं यादववृन्दं मण्डितम् । येन च राधामुख [मधु]पानं कृतं यथा भ्रमरवरेण सरसिजमकरन्दः पीयते । स नारायणो विप्रपरायणो युष्माकं चित्तचिन्तितं ददातु । कीदृशः । भवभीतिहरः संसारभयनाशनः ॥ उट्टवणिका यथा-1150, 50, 50, 5॥ s, I, II, II, SI, 5, (४०) ॥ ॥ I, II, II, 51, 55, III, III, SI, III ।, (३६) 5, 5I, SII, III I, II, ss, , m, II, , (४०) 5, II, II, II, 51, 55, III I, II, III 1, 5, (३६); 5, II, II, II, 51, 51, SI, SI, SI, SI, 5, (४०) ॥ ग्रन्थान्तरेऽपि-विरहानलतप्ता सीदति गुप्ता रचितनलिनदलतल्पतले मरकतविमले, करकलितकपोलं गलितनिचोलं नयति सततरुदितेन निशामनिमेषशा । न सखीमभिनन्दति रुजमनुविन्दति निन्दति हिमकरनिकरं परितापकरं मनुते हृदि भारं मुक्ताहारं दिवसनिशाकरदीनमुखी जीवितविमुखी ॥'
२०८ अथ मरहट्टा छन्दः
सुलक्षणमेतच्छन्दो भण्यते यद्विचक्षण: पिङ्गलनागो जल्पति यद्विश्राम्यति पूर्वं दशाक्षरेषु पुनरष्टसु पुनरेकादशस्थाने । अत्राक्षरशब्दो मात्रावाचकः, तद्वत्तत्वात् [उट्टवणिकाप्रकारमाह-] आदौ षट्कल एकः, तत पञ्च चतुष्कलाः, तत एको गुरुः, ततो लघुरेक इति प्रकारेण पादे एकोनत्रिंशत्कला दत्थ । खण्डचतुष्टयपिण्डकलासंख्या षोडशाधिकशतकं (११६) मात्रा यत्र तदेतन्मरहट्टानामकं छन्दो भण । भूषणेऽपि-आदौ कुरु षट्कलमत्र चतुष्कलपञ्चानन्दमितोऽपि, दशवस्वेकादश भवति विरतिवशमधिकशुचामपलोपि । विशतिनवसंख्यं कविकुलसंख्यं वन्दितगुणिगणकोटि, मरहट्ठावृत्तं किल जयकृये (ते) कृतरिपुविनतकरोटि ॥'
२०९ मरहट्ठामुदाहरति-जहा (यथा)
यस्य मित्रं धनेशः, श्वसुरो गिरीशः, तथापि खलु पिधानं वस्त्रं दिगेव । यद्यप्यमृतकन्दो निकटस्थश्चन्द्रः, तथापि यस्य भोजनं विषमेव । यद्यपि कनकसवर्णा गौरी अर्धाङ्गे, तथापि खलु डाकिनीसंग: योगिनीसहचरः । यो यशो ददाति । भक्तेभ्य इति शेषः । यश्च दैवस्वभावः कदापि न भवति तस्य भंगः । उट्टवणिका यथा-1150, 55, ।, 55, II, I, । (२९) । 1, 55, III I, 55, III 1, 51, 51, (२९) || II, 55, 51, 55, || I, 51, 51 (२९) ms, 55, 51, 55, II, SI, 51, (२९)। वाणीभूषणेऽपि-'अभिमतधनदाता सिद्धिविधाता जगदन्तरगतिशील, दुरितद्रुमदाही विश्वविगाही कल्पक्षयकृतलील । भुवनत्रयवन्दित-गिरिजानन्दितहरशिरसि स्थिरवास, दह हुतवह पापं देहि दुरापं वसुहततिमिरविलास ॥"
॥ इति लीलावती प्रकरणम् ॥ एतानि पञ्चचत्वारिंशत्स्थानकानि । अन्यान्यपि प्रस्तारगत्या सुधीभिरूधा(ह्या)नि ॥ शिवम् ।।
पिङ्गला[चार्यविरचितमात्रावृत्तप्रकाशनम् । छन्द:प्रदीपममलं जगद्भवनदीपकम् ॥
मुनीषुरसभूमीभिर्मितेब्दे श्रावणे सिते । नागराजतिथौ भट्टलक्ष्मीनाथोऽप्यरीरचत् ॥ इत्यालंकारिकचक्रचूडामणिश्रीमद्रामभट्टात्मजश्रीलक्ष्मीनाथभट्टविरचितेपिंगलप्रदीपे मात्रावृत्ताख्यः प्रथमः परिच्छेदः ॥
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org